________________ पडिलेहणा 336 - अभिधानराजेन्द्रः - भाग 5 पडिलेल्णा तयं, त्रीणीत्यर्थः / (परूवण त्ति) प्ररूपणा (एवं ति) तथा तेन प्रकारेण, इहेति प्रतिलेखनायाम्। अपिशब्दः साधर्म्यदृष्टान्तप्रतिपादनार्थः / यथा- | कर्ता कुलालः, करणं मृत्पिण्डदण्डाऽऽदि, कार्य घटः, परस्परापेक्षितया नैकमेकेनाऽपि विनेति। तथा प्रतिलेखना क्रिया,सा चकतरि प्रतिलेखकमपेक्षते, प्रतिलेखितव्याभावे चोभयोरभावः, तस्मात् त्रीण्येतानि प्रतिलेखकः, प्रतिलेखना, प्रतिलेखितव्यं चेति। इह च "यथोद्देशं निर्देशः" इति न्यायमङ्गीकृत्य प्रतिलेखकः कर्तृत्वाप्रधानश्चेत्यतस्तद्व्याख्यानार्थमाहएगो व अणेगा वा, दुविहा पडिलेहगा समासेणं / ते दुविहा नायव्वा, निक्वारणिया य कारणिया / / 20 / / सुगमा / नवरम्-(निक्कारणिया य त्ति) चशब्दाद्गच्छत्, तिष्टद्विशेषण चात्र द्रष्टव्ये इति। ओघ०। (प्रतिलेखकस्याशिवाऽऽदिकारणैर्गमनविधिः 'विहार' शब्दे वक्ष्यते) इदानीमेषां श्रमणानां सर्वेषां मध्ये ये शुद्धास्तेष्वेव संवसनं करोति, नेतरेष्वित्यमुमेवार्थ प्रतिपादयन्नाहजइ सुद्धा संवासा, होइ असुद्धाण दुविह पडिलेहा। अभिंतर बाहिरिया, दुविहा दव्वे य भावे य / / 163|| यदिशुद्धाः संवासाः,शुद्धाः के अभिधीयन्ते? प्रशस्तश्रुतगुणाः, तथा प्रशस्ताज्ञातगुणाश्च / तचैवंविधेषु संवासं संवसनं करोति। "होइ असुद्धाण दुविह पडिलेहा।" भवति अशुद्धानां द्विविधा प्रत्युपेक्षणा / तत्राशुद्धा अप्रशस्तश्रुतगुणाः, तथा-अप्रशस्तात्यन्तगुणा अशुद्धा अभिधीयन्ते, तद् द्विविधं प्रत्युपेक्षणं भवति / कथम्?-(अभिंतरबाहिरिया) एका आभ्यन्तरप्रत्युपेक्षणा, साभ्यन्तरेत्यर्थः / अपरा बाह्यप्रत्युपेक्षणा। (दुविहा दवे य भाबे य) एकैका च प्रत्युपेक्षणा द्विविधा-(दव्ये य भावे य) याऽसौ अभ्यन्तरा प्रत्युपेक्षणा सा द्रव्यतो, भावतश्च भवति, याऽपि वाच्या प्रत्युपेक्षणा साऽपि द्रव्यतो भावतश्चेति द्विविधैव। इदानीं बाह्या प्रत्युपेक्षणां द्रव्यतः प्रतिपादयन्नाहघट्ठाइ तलिय दंडग-पाउण संलग्गती अणुवओगो। दिसिपवणगामसूरिय-वितहं विच्छोलणं दव्वे / 165! (घट्टाइ त्ति) घृष्टा जघासु दत्तफेनकाः, आदिशब्दात्तु मट्ठाऽऽदयो गृह्यन्ते। (तलिग त्ति) सोपनत्का उपानद्गूढपादाः पदंडग त्ति ब वैत्रलगाः दण्डकैः गृहीतैः / [पाउणमिति] प्रावृतं यथा संयत्यः प्रावृण्वन्ति इति कल्पं तथा तैः प्रावृतम् / (संलग्गइ त्ति) परस्परं हस्तावलगिकया द्रजन्ति / अथवा-(संलग्गइ त्ति) युगलिता व्रजन्ति (अणुवओगो त्ति) अत्र प्रयुक्ताः व्रजन्ति ईर्यायामनुपयुक्ताः / एवं बहिर्भुवं गच्छन्तः प्रत्युपेक्षिताः, इदानीं संज्ञाभूमिं प्राप्ताँस्तान् संयतान् प्रत्युपेक्षेत (दिसि ति) आगमोक्तं दिग्वि-पर्यासेनोपविशन्ति (पवण ति) पवनस्य प्रतिकू लमुपवेष्टव्य, ते तु आनुकूल्येन पवनस्योपविशन्ति / [गाम त्ति | ग्रामस्याभिमुख्येनोपवेष्टव्यं ते तु पृष्ठ दत्त्वोपविशन्ति प सूरिय तिब सूर्यस्याभिमुखेनोपवेष्टव्य, तेतु पृष्ट दत्वोपविशन्ति। एवमुक्तेन प्रकारेण वितथं कुर्वन्ति [उच्छोलणं ति| पुरीषमुत्सृज्य प्रभूतेन पयसा क्षालन कुर्वन्ति (दव्वे त्ति) द्वारपरामर्शः / इयं तावद् बाह्या द्रव्यतः प्रत्युपेक्षणा, तत आह-अनन्तरगाथायामभ्यन्तरायाः प्रत्युपेक्षणायाः प्रथममुपन्यासः कृतः, एवं तावद् बाह्या प्रत्युपेक्षणा भवति। ततस्तामेव व्याख्यातुंयुक्तं, न तु बाह्यामित्युच्यते प्रथमं तावद् बावि प्रत्युपेक्षणा भवति, पश्चादभ्यन्तरा, अतो बावि व्याख्यायते। आह-किमिति इत्थमेव नोपन्यासः कृतः / उच्यते आभ्यन्तरप्रत्युपेक्षणायाः प्राधान्यख्यापनार्थमादावुपन्यासः कृतः एवं तावद् बाह्या प्रत्युपेक्षणा द्रव्यतोऽभिहिता। इदानीं बाह्यां प्रत्युपेक्षणां भावतः प्रतिपादयन्नाहविकहा हसिओग्गाइय, भिन्नकहा चक्कवाल बलियकहा। माणुसतिरियावाए, दालण आरयणया भावे॥१६५।। विकथा विरूपा कथा / अथवा-विकथां स्त्रीभक्तचौरजनपद-कथां कुर्वन्तो व्रजन्ति / तथा हसन्त उद्गायन्तश्च व्रजन्ति [भिन्नकह त्ति मैथुनसंबद्धा राभसिका कथा तां कुर्वन्तो व्रजन्ति [चक्कवाल त्ति मण्डलबन्धनस्थिता व्रजन्ति बलियकह त्ति] षट्पदिका गथाः पठन्तो गच्छन्ति (माणु सतिरियावाते त्ति] मानुषाऽऽपाते तिर्यगापाते संज्ञा व्युत्सृजन्ति पदालण त्तिब परस्परस्याङ्गुल्या किमपि दर्शयन्ति। इयमेव आचरणता [भावे त्तिद्वारपरामर्शः। इयं बाह्यभावमङ्गीकृत्य प्रत्युपेक्षणा, या अशुद्धानपि साधून दृष्ट्वा प्रविशन्ति, कदाचित्ते गुरोरनादेशेनैव एवं कुर्वन्ति। एतदेव प्रतिपादयन्नाहबाहिं जइ वि असुद्धा, तह विय गंतूण गुरुपरिक्खाओ। अहव विसुद्धा तह वि उ, अंतो दुविहा उ पडिलेहा॥१६६।। बाह्यां प्रत्युपेक्षणामयीकृत्य यद्यप्यशुद्धास्तथाऽपि प्रविश्य गुरोः परीक्षाः कर्तव्याः / अथवा-बाह्यप्रत्युपेक्षया विशुद्धा एव भवन्ति, तथाऽपि तु अन्तरतः आभ्यन्तरतया प्रत्युपेक्षणामाश्रित्य द्विवि-धैव प्रत्युपेक्षणा भवति कर्तव्या द्रव्यतो, भावतश्च / इदानीमसौ आभ्यन्तरप्रत्युपेक्षणामङ्गीकृत्य द्रव्यतः परीक्षा करोति साधम्मिकाऽऽसन्नेषु भिक्षाचर्यायां प्रविष्टः सन्। पविसंतो निमित्तमणे-सणंच साहइण एरिसा समणा। अम्हं च ते कहती, कुकुड खरियाइठाणं च // 67 / / प्रविशन भिक्षार्थ निमित्तं पृच्छ्यते गृहस्थैस्ततश्च न कथयति, अनेषणां क्रियमाणां गृहस्थेन निवारयति। ततः स गृहस्थः कथयति-(ण एरिसा समणा) नास्मदीया एवंविधाः श्रमणा अस्माक हिते निमित्तं कथयन्ति, अनेषणायामपि गृह्णन्ति, एवमभिधीयते गृहस्थेन (कुकुड त्ति) कुक्कुटप्रायोऽयमिति एवं तावत् भिक्षामटता प्रत्युपेक्षणा कृता / इदानी दूरस्थ एव उपाश्रयप्रत्युपेक्षणां करोति पखरिया इत्यादिब'खरिया' व्यक्षरिका, तत्समीपे स्थानमुपाश्रयः। आदिशब्दाचरिकासमीपे वा / इयं तावद्द्वसतिबाह्या प्रत्युपेक्षणा। इदानीमुपाश्रयाभ्यन्तरे द्रव्यप्रत्युपेक्षणां कुर्वन्नाहदव्वम्मि ठाणफलए, सेज्जा संथार काय उच्चारे।