________________ पडिमा 335 - अभिधानराजेन्द्रः - भाग 5 पडिमापूयण मायवमध्या, वजमध्यां च प्रतिपद्यते। तदेवं यवमध्यवजमध्येति गतम्।। व्य०१० उ०। (व्युत्सृष्टकायाऽऽदिपदानामर्थः स्वस्वस्थाने, सप्तसप्त- | तिका भिक्षुप्रतिमा च स्वस्थाने) कायोत्सर्गे, आ०म०१ अ० / प्रव०॥ ग० / शरीरे, बृ० 1 उ० 3 प्रक० 1 (सागारिकोपाश्चये न स्थातव्यमिति सागारिकप्ररूपणायां प्रतिमानरूपणं 'वसई' शब्दे वक्ष्यते) जिनप्रतिमानां यथा भूरथाने कृष्णता क्रियते, तथैवोष्ठयोः रक्तता क्रियते, न वेति प्रश्ने, उत्तरमशाश्वतप्रतिमानुसारेणभूस्थाने कृष्णताकरणवदोष्ठयोः रक्तताकरणमविरुद्धमिति। 14 प्रश्न० / सेन० 2 उल्ला० / पडिमागिह न० (प्रतिमागृह) चैत्यगृहे, नि०चू० 12 उ०। पडिमाजुय त्रि० (प्रतिमायुत) सागारिकसहिते, नि०चू०१ उ०। बृ०। पडिमाण न० (पतिमान) प्रतिरूपं सदृशं मानम् / गुञ्जाऽऽदौ प्रतिमीयते तदिति प्रतिमानं गुजाऽऽदिना मीयतो अनु०। अथ प्रतिमानप्रमाणं निरूपयितुमाहसे किं तं पडिमाणे ? पडिमाणे जं पडिमिणिज्जइ। तं जहागुंजा, कागणी, निप्फावो, कम्ममासओ, मंडलओ, सुवण्णो। पंच गुंजाओ कम्ममासओ, कागण्यपेक्षया चत्तारि कागणीओ कम्ममासओ, तिण्णि निप्फावा कम्ममासओ, एवं चउक्को कम्ममासओ, काकण्यपेक्षयेत्यर्य: / वारसकम्ममासया मंडलओ, एवं-अडयालीसं कागणीओ मंडलओ, सोलसकम्ममासया सुवण्णो, एवं चउसट्ठिकागणीओ सुवण्णो, एएणं पडिमाणप्पमाणेणं किं पओअणं? एएणं पडिमाणप्पमाणेणं सुवण्णरजतमणिमोत्तियसंखसिलप्पवालादीणं दवाणं पडिमाणप्पमाणनिव्वित्तिलक्खणं भवइ / से तं पडिमाणे / / (से किं ते पडिमाणे इत्यादि) मीयतेऽनेनेति मानं मेयस्य सुवर्णाऽऽदेः प्रतिरूपं सदृशं मानं प्रतिमानं गृञ्जाऽऽदि / अथवा प्रतिमीयते तदिति प्रतिमानं, तत्र गुञ्जा चणोठिया 1, सपादा गुञ्जा काकिणी 2, स विभागकाकिण्या त्रिभागोनगुञ्जाद्वयेन बा निर्वृत्तो विष्पावः 3, त्रयो निष्पावाः कार्ममाषकः 4, द्वादश कर्ममाषका एको मण्डलकः 5, षोडश कर्ममाषका एकः सुवर्णः६, अमुमेवार्थ किश्चित्सूत्रेऽप्याह-(पच गुंजाओ इत्यादि) पञ्च गुञ्जा एकः कर्ममाषकः / अथवा-चतराः काकण्य एकः कर्ममाषकः। यदि वा-त्रयो निष्पावका एकः कर्ममाषकः / इदमुक्तं भवति-अस्य प्रकारत्रयस्य मध्ये येन केन चित्प्रकारेण प्रतिभाति, तेन वक्ता कर्ममाषकं प्ररूपयतु पूर्वोक्तानुसारेण, न कश्चिदर्थभेद इति। एवम्(चउक्को कम्ममासओ इत्यादि) चतसृभिः काकिणीभिनिष्पन्नत्वाच्चतुष्को यः कार्ममाषक इति स्वरूपविशेषणामात्रामिद, ते द्वादश कर्ममाषका एको मण्डलकः, एवमष्टचत्वारिंशत्काकिणीभिर्मण्डलको भवतीति शेषः / भावार्थः पूर्ववदेव / षोडश कर्ममाषकाः सुवर्णः। अथवा-चतुःषष्टिः काकिण्य एकः सुवर्णो, भावार्थः स एव / एतेन प्रतिमानप्रामणेन किं प्रयोजनमित्यादि गतार्थम् ! नवरं रजतं रूप्यं मणयश्चन्दकान्ताऽऽदयः शिलाराजपट्टकः गन्धपदृ इत्यन्ये, शेषं प्रतीतम् / यावत्तदेतत्प्रति मानप्रमाणम। अनु० / स्था०। पडिमाधर पुं० (प्रतिमाधर) प्रतिमा प्रतिपन्ने श्राद्धे, प्रतिमाधराः श्राद्धाः पर्वदिवसपौषधन, रात्रिकायोत्सर्गा श्व स्वाध्यायसंभवे कथं कुर्वन्तीति रीतिः प्रसाद्येति प्रश्ने, उत्तरम्-अस्वाध्यायसंभवे प्रतिमाधरश्राद्धा मौनेन कायोत्सर्गान्,पौषधाऽऽदिकं च कुर्वन्तीति वृद्धवादः। 165 प्र० / सेन० 3 उल्ला० / प्रतिमाधरः श्रावकः श्राविका वा चतुर्थीप्रतिमात आरभ्य चतुरुपर्वीपौषधं करोति, तदा पाक्षिकपूर्णिमाषष्ठकरणाभावे पाक्षिक पौषधं विधायोपवासं करोति, पूर्णिमायां चैकाशनकं कृत्वा पौषधं करोति, तदा मुख्यवृत्त्या पाक्षिकपूर्णिमयोश्चतुर्विधाऽऽहारः षष्ठएव कृतो युज्यते, कदाचिच्च यदि तवथा शक्तिर्न भवति, तदा पूर्णिमायां चाम्लं निर्विकृतिक वा क्रियते, एवंविधाक्षराणि सामाचारीग्रन्थे सन्ति, परमेकाशनक शास्त्रे दृष्ट नास्तीति। 42 प्र० / सेन० 4 उल्ला०। पडिमापडिमा स्त्री० (प्रतिमाप्रतिमा) प्रतिमा कायोत्सर्गः, सैव प्रतिमा प्रतिमाप्रतिमा / पञ्चा० 10 विव० / पञ्चम्यामुपासकप्रतिमायाम, पञ्चमासांश्वतुष्पा गृहे तद्द्वारे च चतुष्पथे वा परिग्रहोपसर्गाssदिनिष्कम्पकायोत्सर्गः पूर्वोक्तप्रतिमानुष्ठानं पालयन् सकलरात्रिमारते इति पञ्चमी। ध०२ अधि०। ("उवासगपडिमा" शब्दे द्वि०भा०६५ पृष्टेऽस्याः स्वरूपमुक्तम्) पडिमापडिवण्ण पु० (प्रतिमाप्रतिपन्न) प्रतिमा भिक्षुप्रतिमा द्वादशसमय प्रसिद्धास्ताः प्रतिपन्नोऽभ्युपगतवान् / भिक्षुप्रतिमां प्रतिपन्ने, स्था० 4 टा०१उ०! पडिमापूयण न० (प्रतिमापूजन) पौषधिकः पट्टपट्टिकालिखितप्रतिमा पूजयति, न वेति प्रश्ने, उत्तरम्-पौषधिकः कारणं बिना पट्टाऽऽदिकं न पूजयतीति ज्ञेयमिति। 240 प्र० / सेन०३ उल्ला० आञ्चलिकप्रतिष्ठिता प्रतिमा पूज्या, न वेति प्रश्ने, उत्तरम्-आञ्चलिकप्रतिष्ठिता अपि प्रतिमा द्वादशजल्पपट्टकानुसारेण गुरु-वचनात् पूज्या एव। 'तम्हा सव्वानुन्ना सव्वनिसेहो पवयणे नत्थिा" इत्याधुक्तिस्त्रानुसरणीयेति। 368 प्र० / सेन०३ उल्ला० / श्राद्धानां पूजाऽवसरे अष्टपुटमुखकोशबन्धः प्रोक्तोऽस्ति, स कया रीत्या बध्यते, वस्त्रद्वयाद् यदा भवति पूजक स्य शरीरे तदोत्तरीयाचलवस्त्रेण मुखकोशबन्धः कर्तुं न शक्यते, यदि तृतीय वस्त्र मुखकोशबन्धनिमित्तं भवति तदाऽयुक्तमुत्तरीयाञ्चलेनैव वा बध्यते इति प्रश्ने, उत्तरम्-पूजावसरे श्राद्धैरष्टपुटमुखकोशबन्ध उत्तरीयाञ्चलेन कर्तव्यो, न तु तृतीयवस्त्रेण, यतः श्राद्धविधौ देवपूजाऽवसरे श्राद्धानां परिधानोत्तरीयलक्षण वस्त्रद्वयं, श्राद्धीनां च कञ्चुक्सहितं तत्रयमे - वाक्तमस्ति, न त्वधिक, तथोत्तरीयमपि, तत्कारणेऽयोग्यमेव विधेयं, तेन न किमप्यशक्यमिति / 401 प्र० सेन० 3 उल्ला० / श्राविका जिनाऽऽलये, गृहदेवावसरे च प्रतिमायाः प्रक्षालनं करोति, न येति, तथा यौवनावस्थाया देवपूजां करोति, न वेति प्रश्रे, उत्तरम्-देवगृहे देवावसरे च श्राविका प्रतिमायाः प्रक्षालनं करोति, तथा-यौवनावस्थायां पूजामपि करोतीति, यथा-ज्ञाताधर्मकथाऽङ्गे द्रौपद्यायौवनावस्थायां स्नपनपूर्वक पूजा