________________ पडिमा 334 - अभिधानराजेन्द्रः - भाग 5 पडिमा क्षुलिका च मोकप्रतिमा, महती वा मोकप्रतिमा / मोकः कायिकी तदप्युत्सर्गप्रधाना प्रतिमा मोकप्रतिभा, तत्र क्षुलिका णमिति प्राग्वत् / मोकप्रतिमां प्रपन्नस्यानगारस्य कल्पते (से) तस्य प्रथमनिदाधकालसमये वा, चरमनिदाघकालसमये वा बहिग्रामस्य वा, यावत्करणान्नगराऽऽदिपरिग्रहः / राजाधान्यां वा वने वा, एकजातीयगुमसंघातो वन, विदर्गे नानाजातीयद्रुमसंघाते, पर्वते प्रतीते, पर्वतविदुर्गे अनेकपर्वतसंघातरूपे भुक्त्वा यदि प्रतिमामारोहति प्रतिपद्यते, तदा चतुर्दशन भक्तेन पारयति समापयति, अथाभुक्त्या आरोहति तदा षोडशकेन भक्तेन पारयति, तेन च जातं मोकं कायिकी आघातव्या, आगमने च दिवा आगच्छति, एवं महत्या अपि प्रतिमायाः सूत्रं वाच्यं, विशेषोऽपि पाठसिद्ध एव / व्य० 6 उ०। ('मोयपडिमा' शब्दे विस्तरः) यवमध्यचन्द्रप्रतिमा- "दो पडिमाओ पण्णत्ताओ। तं जहा-जवजज्झाय, चंदपडिमा" इत्यादि। अस्य संबन्धप्रतिपादनार्थमाहपगया अभिग्गहा खलु, एस उदसमस्स होति संबंधो। संखा य समणुवत्तइ, आहारे वा वि अहिगारे ||1|| प्रकृताः खलु नवमोद्देशके चरमसूत्रेष्वभिग्रहाः, अत्रापि त एवाभिग्रहाः प्रतिपाद्या इत्येष दशमस्य दशमोद्देशकाऽऽदिसूत्रस्य संबन्धः अथवा नवमोद्देशे चरमानन्तरसूत्रे आहारे या अभिहिता संख्या सा अवाप्यनुवर्तते -तत आहारविषयसंख्या प्रशस्ता वा दशमोद्देशकाऽऽदिसूत्रस्याधिकारप्रवृत्तिः, सूत्राक्षराणि सामान्यतः सुप्रतीतानि। विशेषं तु भाष्यकारो व्याख्यानयतिजवमज्झ वइरमज्झा, वोसट्ट चियत्त तिविह तीहिं तु। दुविहे च सहइ सम्म, अण्णाओ तित्थनिक्खेवो॥२। यवमध्येति पदं, वज्रमध्येतिपदं, तथा व्युत्सृष्ट इति, त्यक्त इति त्रिविधमुपसर्ग , त्रिभिर्मनोवाक्कायैः सम्यक् सहते, यदि वाद्विविधात् उपसर्गात् अनुलोमरूपात् त्रिभिः सम्यक् सहते, तथा-अज्ञातः तीर्थनिक्षेप इति व्याख्येयमेष द्वारगाथासंक्षेपार्थः। सांप्रतमेनामेव विवरीषुः प्रथमतो यवमध्येति, वज्रमध्येति च व्याख्यानयतिउवमा जवेण चंदे-ण वावि जवमज्झचंदपडिमाए। एमेव य विइयाए, वज्जं वइरं ति एगटुं|३|| यवमध्यचन्द्रप्रतिमाया यवनोपमा, चन्द्ररोव यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्राऽऽकारा प्रतिमा चन्द्रप्रतिमेति व्युत्पत्तेः / एवमेव द्वितीया अपि वक्तव्या वजमध्यचन्द्रप्रतिमाया वजेणोपमा चन्द्रेण च / वजस्येव मध्यं यस्याः सा वज्रमध्या, चन्द्राऽऽकारा प्रतिमा चन्द्रप्रतिमा, प्राकृतमधिकृत्य वज्रशब्दस्य पर्यायण व्याख्यानमाह-(वज वइरति एगट्ठ) इयमत्र भावनाशुक्लपक्षस्य प्रतिपादि चन्द्रविमानस्य दृश्यपञ्चदशभागीकृतस्य एका कला दृश्यते, द्वितीयायां ट्रे कले, तृतीयायां तिस्रः कलाः, एवं यावत् पञ्चदश्यां परिपूर्णाः पञ्चदश कलाः। ततो बहुलपक्षस्य प्रतिपदि एकैकया कलया ऊनो दृश्यते चतुर्दशकला दृश्यन्ते, द्वितीयायां त्रयोदश, तृतीयस्यां द्वादश, यावदमावास्यायामेकाऽपि न दृश्यते। तदेवमयं मास आदावूनो मध्ये संपूर्णोऽन्ते पुनरपि परिहीनो, यवोऽप्यादावन्त च तनुको मध्ये विपुलः / एवं साधुरपि भिक्षा गृह्णाति शुक्लपक्षस्य प्रतिपदिएका, द्वितीयस्या द्वे, तृतीयस्यां तिस्रः, यावत्पञ्चदश्यां पञ्चटश / ततो बहुलपक्षस्य प्रतिपदि पुनश्चतुर्दश द्वितीयायां त्रयोदश यावच्चतुर्दश्यामेकाममावस्यायामुपोषितः। ततश्चन्द्राऽऽकारतया चन्द्रप्रतिमा आदायन्ते च भिक्षायास्तनुत्वान्मध्ये विपुलत्वात् यवमध्योपमितमध्यभागा। तथाऽमुमेव यवमध्यं चन्द्रप्रतिमामधिकृत्यान्यत्रोक्तम्- "एकैकां वर्द्धयेत् भिक्षा, शुक्ले कृष्णे च हापयेत्। भुञ्जीत नामावस्याया मेष चान्द्रायणे विधिः / / 1 / / " वज्रमध्यायां चन्द्रेण प्रतिमायां बहुलपक्ष आदौ क्रियते, तत एवं भावना-बहुलपक्षस्य प्रतिपदि चन्द्रविमानस्य चतुर्दशकला दृश्यन्ते, द्वितीयस्यां त्रयोदश, यावचतुर्दश्यामेका, अमावास्यायामेकाऽपिन, ततः पुनरपि शुक्लपक्षस्य प्रतिपदि चन्द्रविमानस्यैका कला दृश्यते, द्वितीयायां द्वे,यावत्पञ्चदश्यां पञ्चदशाऽपि,तदयं मास आदावन्ते च पृथुलो, मध्ये तनुको, वज्रमप्यादावन्ते च विपुलं, मध्य तनुकमेव साधुरपि भिक्षां गृह्णाति बहुलपक्षस्य प्रतिपदि चतुर्दश द्वितीयस्यां त्रयोदश, यावचतुर्दश्यामेकामेव, अमावास्यायामुपवसति। ततः पुनरपि शुक्लपक्षस्य यद्येकां भिक्षां गृह्णाति, द्वितीयास्यां द्वे, यावत्पञ्चदश्या पञ्चदशेति / तत एषाऽपि चन्द्राऽऽकारतया चन्द्रप्रतिमा आदावन्ते च विपुलतया मध्ये च तनुतया, वज्रमध्योपमितमध्यभागा वजमध्या। एतदेव यवमध्यचन्द्रप्रतिमामधिकृत्य सूचयन्नाहपण्णरसेव य काउं, भागे ससिणं तु सुक्कपक्खस्स। जा वड्डए य दत्ती, हावइ ता चेव कालेणं // 4 / / शशिनं शशिविमानं पञ्चदश भागान् कृत्वा यथा शुक्लपक्षस्याऽऽदित आरभ्य कलाः प्रतिदिवसं च संवर्द्धन्ते, एवं दत्तयोऽपि प्रतिपदि आरभ्य यावर्द्धयते, ता एव कालेन कृष्णेन पक्षण क्रमेण हापयेत्। बृ०। (दत्तयस्तु 'दत्ति' शब्दे चतुर्थभागे२४४६ पृष्ठे प्रति-पादिताः) एवं विपरीतक्रमण वजमध्यचन्द्रप्रतिमायामपि द्रष्टव्यम्। भत्तट्ठी खवओ वा, इयरदिणे तासि होइ पट्ठवओ। चरिमे असद्धवं पुण, होइअभत्तट्ठमुजवणं / / 5 / / तयोर्यवमध्यवज्रमध्यप्रतिमयोः प्रस्थापक आरम्भे इतरस्मिन्नारम्भदिवसात् पाश्चात्ये दिने भक्तार्थी वा भवति।क्षपको वा चरमदिवसे पुनर्भक्तविषये अश्रद्धावान् श्रद्धामपि न करोति। एतद् यवमध्यचन्द्रप्रतिमामधिकृत्योक्त वेदिततव्यम् / उद्यापनं पुनर्द्वयोरपि प्रतिमयोरभक्तार्थमवसेयम्। संघयणे परियाए सुत्ते अत्थे य जो भवे वलिओ। सो पडिमं पडिवाइ, जवमज्झं वइरमज्झं च / / 6 / / संहनने आद्यत्रयान्यतमस्मिन्पर्याये जन्मतो जघन्येन एकोनत्रिंशद्वर्षेषु, उत्कर्षतो दशोनायां पूर्वकोट्या, प्रव्रज्यापर्यायेण जघन्यतो विंशतौ वर्षेषु, उत्कर्षतो देशोनायां पूर्वकोट्यां, सूत्रमर्थं च जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कर्षतः किश्चित्तूनानि दशपूर्वाणि। एवं संहनने पर्याये सति यः सूत्रे अर्थे च भवति बलिको बलीयान् स प्रति