________________ पडिमा 333 - अभिधानराजेन्द्रः - भाग 5 पडिमा (विधिना) दश श्रुतस्कन्धाऽऽद्यागमप्रतिपादनेन दर्शन, सम्यक्त्वं, तत्प्रधाना, तेनोपलक्षिता वा प्रतिमाऽपि दर्शनं सा आद्या प्रथमा यासां प्रतिमानां ता दर्शनाऽऽद्यास्तासाम्, एकादशसंख्यानामित्यर्थः / (प्रतिमानाम) अभिग्रहविशेषाणाम् (प्रपालनम्) प्रकर्षेण पालनं, विशेषता गृहिधर्मो भवतीति अन्वयः / आसां पालने किं भवतीत्याह(पास्वित्यादि। यासु प्रतिमासु (स्थितः) निष्ठः (गृहस्थोऽपि) यतितामप्राप्नुवन्नपि, आस्तां कृतसर्वसङ्ग त्यागोऽनगार इत्यपिशब्दार्थः / (विशेषतः) असंख्यगुणया गुणश्रेण्या (विशुध्यति) क्षीणपापो भवति / अथ पुनःकाः प्रतिमाः यासु स्थितो गृहस्थोऽपि विशेषतः शुध्यति? उच्यते"दसण 1 वय २सामाइअ, 3, पोसह 4 पडिमा 5 अबंभ६ सच्चित्ते 7 / आरंभ 8 पेस ( उद्दिट्ठ 10 वज्जए समणभूए अ॥१॥" इति। तत्र शहाऽऽदिदोषरहितं प्रशमाऽऽदिलिङ्ग स्थैर्याऽऽदिभूषणं मोक्षमार्गप्रासादपीठभूतं सम्यग्दर्शन, भयलोभलज्जाऽऽदिभिरप्यतिचरन् मासमात्र सम्यक्त्वमनुपालयतीत्येषा प्रथमा प्रतिमा 1 / द्वौ मासौ यावदखण्डितान्यविराधितानि च पूर्वप्रतिमाऽनुष्ठानसहितानि द्वादशाऽपि व्रतानि पालयतीति द्वितीया। त्रीन् मासानुभयकालमप्रमत्तः पूर्वोक्तप्रतिमाऽनुष्ठानसहितः सामायिकमनुपालयतीति तृतीया३ चतुरो मासाश्चतुष्पा पूर्वप्रतिमाऽनुष्ठानसहितोऽखण्डितं पौषधं पालयतीति चतुर्थी 4 / पञ्चमासाँश्चतुष्पा गृहे तद्द्वारे चतुष्पथे वा परीषहोपसर्गाऽऽदिनिष्कम्पकायोत्सर्गः पूर्वोक्तप्रतिमाऽनुष्ठानं पालयन् सकलां रात्रिमास्त इति पञ्चमी 5 / एवं वक्ष्यमाणास्वपि प्रतिमासु पूर्वपूर्वप्रतिमाऽनुष्ठाननिष्ठताऽवसेया, नवरं षण्मासान् ब्रह्मचारी भवतीति षष्ठी 6 / सप्तमासान् सचित्ताऽऽहारान् परिहरतीति सप्तमी 7 / अष्टौ मासान् स्वयमारम्भं न करोतीत्यष्टमी 8 / नवमासान् प्रेष्यैरप्यारम्भं न कारयतीति नवमी 6 / दशमासानात्मार्थ निष्पन्नमाहारं न भुक्त इति दशमी 10 / एकादशमासाँस्त्यक्तसङ्गो रजोहरणाऽऽदिमुनिवेषधारी कृतकेशोत्पाटः स्वायत्तेषु गोकुलाऽऽदिषु वसन् प्रतिमाप्रतिपन्नाय श्रवणोपासकाय भिक्षा दत्त इति वदन् धर्मलाभशब्दोच्चारणरहितं मुसाधुवत्समाचरतीत्येकादशी 11 उक्तंच"दसणपडिमा नेया, सम्मत्तजुअस्स सा इहं बुदी। कुराहकलकरहिआ, मिच्छत्तखओयसमभावा / / 1 / / विइया पडिमा णेया, सुद्धाणुव्वयधारण। सामाइअपडिमा ऊ सुद्ध सामाइअंपि अ॥२॥ अट्ठमीमाइपव्वेसु, सम्म पोसहपालणं। सेसाणुट्टाणजुत्तस्स, चउत्थी पडिमा इमा॥३॥ निकंपो काउसम्म तु, पुन्बुत्तगुणसंजुओ। करेइ पव्वराईसुं, पंचमी पडिवन्नओ।।४।। असिणाणविअडभोई, मउलिउडो दिससबंभयारी अ। रतिं परिमाणकडो, पडिमावज्जेसु दिअएसु // 5||" टीका-(मउलिउड त्ति) अबद्धकच्छः / / 5 / / "झायइ पडिमाइठिओ, तिलोगपुज्जे जिणे जिअकसाए / णिअदोसपच्चणीअं,अण्णे वा पंच जा मासा / / 6 / / छुट्टीए बंभयारी सो.फासुआऽऽहार सत्तमी। वजिजा वजमहारं, अट्टमि पडिवन्नओ / / 7 / / " षष्ट्या पुनरय विशेषः''पुव्वाइअगुणजुत्तो, विसेसओ विजिअमोहिणिजो अ। वजइ अबंभमेग-तओ अ राई पिथिरचित्तो / / 8 / / सिंगारकहाविरओ, इत्थी' समं रहम्मि णो ठाइ। चयइ अ अतिप्पसंग, तहा विभूसंच उक्कोसं 118 / / एव जा छम्मासा, एसोऽहिगओ इहरहा दिट्ट। जावजीव पि इम, वजइ एअम्मि लोगम्मि / / 10 / / अवरेण वि आरंभ, नवमीए नो करावए। दसमीए पुणो दिट्ट, फारसुअंपि न भुंजए।।११।। णिक्खित्तभरो पायं पुत्ताइसु अहव सेसपरिवारे। थोवममत्तो अतहा, सय्वत्थ परिणओ नवरं / / 12 / / लोगववहारविरओ, बहुसो संवेगभाविअमई / पुष्योइअगुणजुत्तो, णव मासा जाव विहिणा उ॥१३॥" दशम्या पुनरय विशेषोऽपि, यथाउद्दिट्टकड भत्तं, विवज्जए किमुअ सेसमारंभ। से होइ अ खुरमंडो, सिहलि वा धारई कोइ॥१४॥ जं णिहिअमत्थजायं, पुट्ठो णिअएहिं णवरि सो तत्थ। जइ जाणइ तो साहइ, अह णवि तो बेइण वि जाणे // 15|| जइ पज्जुवासणपरो, सुहुमपयत्थेसु णिच्चतल्लिच्छो। पुवोदिअगुणजुत्तो, दस मासा कालमासेण|१६|| एगारसीसु निस्संगों, धरे लिंग पडिग्गह। कयलोओ सुसाहु व्व, पुवुत्तगुणसायरो।।१७।। पुव्वाउत्तं कप्पइ, पच्छाउत्तं तुणखलु एअस्स। ओयणभिलिंगसूआ-इ सव्वमाहारजायं तु / / 8 / / " इति / / आवश्यकचूर्णी त्वित्थम्- 'राइभत्तपरिण्णा पंचमी, सचित्ताहारपरिणा'' इति षष्ठी, "दिआ बंभचारी, राओ परिमाणकडे 'त्ति सप्तमी। "दिया विराओ वि बंभचारी असिणाणए वोसट्ठकेसमंसुरोमनहे'' त्ति अष्टमी। ''पेसारंभपरिणाए'' ति दशमी, "उद्दिभत्तविवजए समणभूए'' त्ति एकादशीति ॥७०॥ध० 2 अधि०। (अत्र बहुविस्तरः 'उवासगपडिमा' शब्दे तृतीयभागस्थ 1065 पृष्ठऽवगन्तव्यः) "उद्दिट्टपेच्छसंगय-उज्झियधम्मे चउत्थए होइ।" उद्दिष्टपात्रं प्रेक्षासंगतिकपात्रमुज्झितधर्मकं च चतुर्थमिति चतस्रः पात्रगवेषणे प्रतिमाः / वृ०१उ० १प्रक०। (वस्त्रस्य गवेषणे प्रतिमा 'वत्थ' शब्दे) (प्रतिमाप्रतिपन्नस्योपाश्रयप्रत्युपेक्षणं पडिलेहणा' शब्दे) ('एगल्लविहारप्पडिमा' स्वस्थाने उक्ता) (सत्त्वभावनायां पञ्च प्रतिमा भवन्ति इति 'सत्तभावणा' शब्दे) मोकप्रतिमा- "दो पडिमाओ (सूत्रद्वयं पुस्तके नास्ति, ततो व्याख्यातोऽवसेयम्।)"इत्यादि सूत्रद्वयम्। अस्य संबन्धमाहपडिमाहिगोरे पगते, हवंति मोयपडिमा इमा दोण्णि। ता पुण गणम्मि वुत्ता इमा उ बाहिं पुरादीणं // 17 // प्रतिमाधिकारः प्रकृतस्तत इमे अपि द्वे मोकप्रतिमे इह भवतः, प्रतिमाप्रस्तावादिमे अपि प्रतिमे अत्रोपन्यस्ते इति भावः, केवलमयं विशेषःता अनन्तरो दिताः प्रतिमा गणे स्थितस्योक्ताः, इमे पुनः पुराऽऽदीना बहिः स्थितस्येति संबन्धः अनेन संबन्धेनाऽऽयातस्यास्य (सूत्रस्य) व्याख्याद्वे प्रतिमे प्रज्ञप्ते, तद्यथा