________________ पडिबद्धसिज्जा 327 - अभिधानराजेन्द्रः - भाग 5 पडिबद्धसिज्जा तेणे मालागारे, उन्भामगे पंथिए जंते // 446 / / अस्या व्याख्या प्रागवत-साधूनां गृहस्थानां च सधं विना / असंखडशब्देन विबुद्धाः स्त्रियः (आउत्ति)अप्कायाऽऽहरणार्थ व्रजन्ति / (जोवणं ति) रथकाराऽऽदयः शकटे गवादीन् योजयित्वा काष्ठाऽऽदिहेलोरटवीं गच्छेयुः / वणिजो घृतकुतुपाऽऽदिकं गृहीत्वा ग्रामान्तरं व्रजन्ति / (अगणि ति) लोहकाराऽऽदय उत्थिता अग्निप्रज्वालनाऽऽदिककर्मणि लगन्ति / कुटुम्बिनो हलाऽऽदीन गृहीत्वा क्षेत्राणि गच्छन्ति। कुकर्मणो मत्स्यगन्धे वागुरिकाऽऽदयो मत्स्याऽऽद्यर्थ गच्छन्ति। कुत्सितो मारणीयसत्त्वस्यातीव वेदनोत्पादकत्वान्निन्द्यो यो मारो मारणं स विद्यते येषां ते कुमारिकाः, सोकरिका इत्यर्थः / तेऽपि स्वकर्मणि लगन्ति / स्तेनः प्रभातमिति कृत्वा पन्थानं धावन् गच्छेत् / मालाकार: करण्ड गृहीत्वा आराम गच्छति उद्भ्रामकः पारदारिकः स लब्धसंकेत उद्ग्रामिकां गृहीत्वा पलायेत् / पथिको बुद्धः पथि प्रवर्तते यान्त्रिका विबुद्धाः सन्तो यन्त्राणि वाह यन्ति। यस्मादेते दोषास्तरमात्पुरुषेष्वपि नस्थातव्यम्॥ अथाधिकरणभयातूष्णीकास्तिष्ठन्ति तत एते दोषाःआसज्ज निसीही वा, सज्झायं न करिति मा हु बुज्झेजा।। तेणासंकालग्गण, संजमआयाएँ भाणादी॥४५०il मा गृहस्था विबुध्यन्तामिति कृत्वा "आसज्ज'' इति शब्दं नोचरन्ति मासलधु, नैषेधिकीं वा न कुर्वन्ति पञ्चरात्रिन्दिवानि, स्वाध्याय सूत्रपौरुषी न कुर्वन्ति मासलघु, अर्थपौरुषीं न कुर्वन्ति मासगुरु, सूत्र नाशयन्ति चतुर्लघु, अर्थ नाशयन्ति चतुर्गुरु / एतेन सूत्र-परिहाणिरिति पदं व्याख्यातम् / तथा-साधूनामा-वश्यकीशब्द, पदनिपातशब्दं वा श्रुत्वा त गृहस्थाः स्तेनोऽयमित्याशङ्कया साधुना समं युद्धाय लगेयुः; ततश्च युध्यमानयोः संयमाऽऽत्मभाजनानां विराधनाऽऽदयो दोषाः; यत एवमतो द्रव्यप्रतिबद्धायां वसतौ न स्थातव्यम्। द्वितीयपदे तिष्ठेयुरपिअद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए। गीयत्था जयणाए, वसंति तो दव्वपडिबद्धे॥४५१।। अध्वनिर्गताऽऽदयः त्रिःकृत्वः त्रीन् वारान् द्रव्यतो भावतो वा प्रतिबद्धमुपाश्रयं मार्गयित्वा यदि न लभन्ते ततो गीतार्था यतनया द्रव्यप्रतिबद्ध वसन्ति। यतनामेवाऽऽहआपुच्छण आवासिय, आसञ्ज निसीहि वा य जयणाए। वेरत्ती आवस्सग जो जाहे चिंधण दुगम्मि||४५२|| यदा कोऽपि साधुः कायिकभूमौ गन्तुं गच्छति तदा द्वितीयं साधुमापृच्छ यनिर्गच्छति, सच द्वितीयः स्पृष्टमात्रएवोत्थाय दण्डक-हस्तो द्वारे तिष्ठति यावदसो प्रत्यागच्छति, एषा आपृचछपतना। आवश्यकीम् 'आसज्ज'' शब्द नैषेधकी चयतनया यथा गृहस्था न श्रृण्वन्ति वैरात्रिकवेलायामपि यः पूर्वमुत्थितस्तेन द्वितीयः साधुर्यतनया हस्तेन स्पृष्ट्वा प्रतिबोधयितव्यः, स च स्पृष्टमात्र एव तूष्णींभावेनोत्तिष्ठति / ततो वावपि कालभूमौ गत्वा वैरात्रिक यतनया गृहीतः। यथा-पार्श्वस्थितोऽपि न श्रृणोति आवश्यक यो यदा यत्र स्थितो विबुध्यते स तदा तत्र स्थित एव करोति वन्दनकं, स्तुतीश्च हृदयेनैव प्रयच्छति / यद्वा-यदा ते गृहस्थाः प्रभाते स्वयमेवोत्थिताः तदा आवश्यक कुर्वन्ति / (चिंधण दुगम्मि त्ति) परावर्तयतां यत्र सूत्रे अर्थे वा रात्रौ शङ्कितं तस्य चिह्न तमभिज्ञानकरणंयथा अमुकस्मिन्नङ्गे श्रुतस्कन्धे अध्ययने उद्देशके वा इदं शङ्कितमस्तीति तत्सर्व दिवा प्रश्नायित्वा निःशङ्कित कुर्वन्ति। तथाजणरहिए वुजाणे, जयणा भासाए किमुय पडिबद्धे। दढतरसरऽणुप्पेही, न य संघाडेण परिवत्ते // 453 / / यदि तावज्जनरहितेऽप्यु द्याने वसतां रात्रौ भाषायां यतनामात्रं चतुष्पदपक्षिशरीसृपाऽऽदयो जन्तवो विबुध्यन्तामितिकृत्वा, ततः किं पुनद्रव्यप्रतिबद्ध प्रतिश्रये, तत्र सुतरां यतना कर्तव्येति भावः यस्तु दृढतरस्वरो बृहता शब्देन भाषणशीलः स वै रात्रिकं स्वाध्यायमनुप्रेक्षया करोति, मनसैवेत्यर्थः / येऽपिचसाधवोन दृढतरस्वरास्तेऽपि सङ्घाटकेन न परिवर्तयन्ति, किं तु पृथग, गतः प्रथमो भङ्गः। अथ द्वितीयभङ्ग भावतः प्रतिबद्धो न द्रव्यत इत्येवलक्षणं निरूपयतिभावम्मि उ पडिबद्धे, चउरो गुरुगाय दोस आणाऽऽदी। ते विय पुरिसा दुविहा, भुत्तभोगी अभुत्ता य॥४५४|| भावे भावतः प्रतिबद्धेप्रतिश्रये तिष्ठतां चतुर्गुरुकम्, आज्ञाऽऽदयश्च दोषाः / ये पुनस्ते भावप्रतिबद्धे वसन्ति ते पुरुषाः साधवो द्विविधाः / केचिद् भुक्तभोगिनो ये स्त्रीभोगान् भुक्त्वा प्रव्रजिताः, केचित्तु अभुक्तभोगिनः कुमारप्रव्रजिताः / एषा पुरातनी गाथा। अथास्या एव व्याख्यानमाहभावम्मि उपडिबद्धे, पन्नरससु पदेसु चउगुरू होंति। एकेकाउ पयाओ, हवंति आणाइणो दोसा।।४५५।। भावप्रतिबद्धे चतुर्भिः प्रश्रवणाऽऽदिभिः पदैः षोडश भङ्गा कर्तव्याः। तद्यथा-प्रश्रवणप्रतिबद्धः, स्थानप्रतिबद्धो, रूपप्रतिबद्धः, शब्दप्रतिबद्धश (पुस्तके पाठस्त्रुटितो विभाति।)। इत्यादि। अत्र प्रथमभङ्गादारभ्य पञ्चदशसु पदेषु च चतुर्गुरवः प्रायश्चित्तम्। आदेशान्तरेण वा प्रथमे भने चत्वारः चतुर्गुरवः, चतुर्णामपि पदानां तत्राशुद्धत्वात् / द्वितीये भने त्रयश्वतुर्गुरवः, त्रयाणां पदाना तत्राऽशुद्धत्वात्। एवमनया दिशा यत्र भङ्गे यावन्ति पदान्यविशुद्धानितत्र भवेयुश्चतुर्गुरवः एकैकस्माच पदाद्भङ्गकादाज्ञाऽऽदयो दोषाः / यस्तु षोडशो भङ्गः स चतुर्वपि पदेषु शुद्ध इति न तत्र प्रायश्चित्तम्। प्रश्रवणाऽऽदीनामेवान्योऽन्यसंभवमाहठाणे नियमा रूवं, भासासद्दो य भूसणा भइओ। काइयठाणं नत्थी, सद्दे रूवे य भय सेसे // 456 / / यत्र साधूनां स्त्रीणां चैकमेवोपवेशनस्थानं तत्र नियमात् परस्पर रूपमवलोक्यते भाषाशब्दश्च श्रूयते, भूषणशब्दस्तु भाज्यः साभरणानां स्त्रीणां भवति, इतरासां न भवतीत्यर्थः / कायिकी प्रस्रवणं, तस्य स्थानं नास्ति, लोकजुगुप्सिततया कायिकीभूमावुपवेशनाभावात् भाषाभूषणशब्दरूपाणि तु भवन्तीतिभावः / शब्दरूपे च शेषाणि भज विकल्पय /