________________ पइदिणकिरिया - अभिधानराजेन्द्रः - भाग 5 पइदिणकिरिया प्रमार्जने वेला चाऽऽश्रित्य वाच्ये। यदुक्त - "खोडणपमज्जवेला - सुचेव ऊण हिया मुणेयवा।" (अविवचास त्ति) विविधो व्यत्यासो विपर्यासो यरया सान्यत्यासा, न तथा विव्यत्यासा पुरुषापधिविपर्यासरहिता, कर्तव्येति शेषः / अत्र च त्रिभिर्विशेषणपदैरप्टो भङ्गाः सूचिता भवन्ति / स्थापना चेयम्-एतषु च कः शुद्धः,को वा अशुद्धः? इत्याह-प्रथम पदमिहेवोपदर्शिताऽऽ-धभङ्ग रूपं प्रशस्तं निर्दोषतया श्लाध्य, शुद्धमिति यादत् / शेषाणि तु. प्रक्रमात्पदानि, द्वितीयाऽऽदिभङ्ग काऽऽत्मकानि अप्रशस्तानि, तेषु न्यूनताऽऽद्यन्यतमदोषसम्भवात्। ततः प्रथमभड़ानुपतिन्येव प्रतिलेखना विधेयेत्युक्तं भवति। एवंविधामयेनां कुर्वतां यत्परिहर्त्तव्यं, तत् काक्वोपदेष्टुमाहपडिलेहणं कुणतो, मिहो कहं कुणइ जणवयकहं वा। देइ व पचक्खाणं, वाएइ सयं पडिच्छइ वा / / 26 / / प्रद्धिलेखनां कुर्वन् मिथ : कथां परस्परसंभाषणाऽऽत्मिका, करोति, जनपदका बा, स्त्र्यादिकथोपलक्षणमेतत् / ददाति वा प्रत्याख्यानमन्यस्ने, वाचयत्यपेः श्रावयति, स्वयं प्रतीच्छति वा आलापकाऽऽदिकं गहाति, यति गम्यते // 26 // स किमित्याहपुडवीआउकाए, तेऊ-वाऊ-वणस्सइतसाणं। पडिलेहणापमत्तो, छण्हं पि विराइओ होइ॥३०॥ "युद्धवी' इत्यादि स्पष्ट, नवरं (पुढवीआउकाए त्ति) पृथिव्यप्काययोः प्रतिलेखनाप्रमत्तो मिथः कथाऽऽदिना तवानवहितः सन् वण्णामपि आस्तामे के काऽऽदीनामित्यपिशब्दार्थः / विराधक श्चैवं प्रमत्तो हि कुम्भकारशालाऽऽदौ स्थितो जलभृतघटाऽऽदिकमपि प्रलोठयेत्. ततस्तज्जलेन मृदाग्रिवीजकुथ्वादयः प्लाव्यन्ते.प प्लावनातश्च विध्यन्ते, यत्र चाग्निस्तत्राऽऽवश्यं वायुरिति षण्णामपि द्रव्यतो 'विराधकत्वम्। भावतस्तु प्रमत्ततयाऽन्यथापि विराधकत्यमेव। उक्तं हि"इह दव्वओ उ उपह, विराहओ भावओ य इहरा वि। उवउत्तो पुण साहू, सपत्तीए जुओ होइ॥१॥" पुढवीआउझाए, तेऊवाऊवणस्सइतसाणं। पडिलेहणआउत्तो, छण् संरक्खओ होइ॥३१।। तदनेन जीवरक्षाऽर्थत्वात्प्रतिलेखनायास्तत्काले च प्रमादजनकत्वेन हिंसाऽऽदिहेतुत्वान्मिथः कथाऽऽदीनां परिहार्यत्वमुक्तम् / इत्थं प्रथमपौरुषीकृत्यमुक्त, तदनन्तरं द्वितीयपौरुषीकृत्याभिधानावसरः / तर "बीए झाणं झियायइ। 'इति वचनेन ध्यानमुक्तम्, उभय चैतदवश्यकलव्यमतस्तृतीयपौरुषीकृत्यमप्येवम्, उत कारणे एवोत्पन्ने ? इत्याशङ्याऽऽहतइयाए पोरिसीए, भत्तं पाणं गवेसए। छण्हं अन्नयराए य, कारणम्मि उवट्ठिए।।३।। "तइयाए' इत्यादि सुगम, नवरमौत्सर्गिकमेतत, अन्यथा हि स्थविरकल्पिकानां यथा कालभक्ताऽऽदेर्गवषणं तथा चाऽऽह - 'सइ काले चरे भिक्खु ति। ' षण्णां कारणानां (अण्णयराए त्ति) अन्यतरस्मिन् कारणे समुत्थिते संजाते, न तु कारणोत्पत्तिं विनेति भावः / भोजनोपलक्षणं चेह भक्तपानगवेषणम्, भक्तपानगगवेषणं गुरुग्लानाऽऽद्यर्थमन्यथाऽपि तस्य संभवात्, तथा चान्यत्र भोजन एवैतानि कारणा न्युक्तानि // 32 // तान्येव षट् कारणान्याहवेयण-वेयावच्चे, इरियट्ठाए य संजमट्ठाए। तह पाणवत्तियाए, छटुं पुण धम्मचिंताए।३३।। (वेयणवेयावचे ति) सुप्यत्ययावेदनाशब्दस्य चोपलक्षणत्वात क्षुत्पिपासाजनितवेदनोपशमनाय, तथा क्षुत्पिपासायां न गुर्वादिवंयावृत्यकरणक्षम इति वैयावृत्याय / तथा इये ति इर्यारामितिः, सैव निर्जरार्थिभिरर्थ्यमानतयाऽर्थः, तस्मै,च : समुच्चये / कथं नामासी भवत्विति ? इतरथा हि क्षुत्पिपासाभ्यां पीडितस्य चक्षुभ्यामपश्यतः कथमिवासी स्यादिति / तथा संयमार्थाय, कथं नामाऽसौ पालयितु शक्यतामित्याकुलितस्य हि ताभ्यां सचित्ताऽऽहारे तद्विघात एवं स्यात्। तथा-(पाणवत्तियाए ति) प्राणप्रत्ययं जीवितनिमित्तमपि, विधिना ह्यात्मनोऽपि प्राणोत्क्रमणे हिंसा स्यात्। अत एवोक्तम्- ''भावियजिणवयणाण, समत्तरहियाण, नऽस्थि हु विसेसो। अप्पाणम्मि परम्मिय, तो वज्जे पीडमुभए वि" ||1|| षष्ठं पुनरिदं कारण यदुतधर्मचिन्तायै, भक्तपानं गवेषयेदिति सर्वत्रानुबय॑ते,अत्र च धर्मचिन्ताधर्मध्यानचिन्ता, श्रुतधर्मचिन्ता वा / इयं घुभयरूपा अपि तदाकुलितचेतसो न स्यादा-ध्यानसंभवात्, इह च यद्यपि वेदनोपशमाऽऽदीनां शाब्दया वृत्त्या तदुपलक्षितभोजनफलत्वेन प्रतीतिः, तथापि तैर्विना तन्निषेधसूचनादा• वृत्त्या कारणत्वमेवेषामुपदर्शितं भवत्यत एवषष्ठमित्यत्र कारणमेव संबन्धितम्। आहेततकारणोत्पत्तौ किमवश्यं भक्तपानगवेषणं कर्त्तव्यमुताल्यथेत्याहनिग्गंथो धिइमंतो, निग्गंथी सावि करेज छहिं चेव / धाणेहिं उ इमेहिं, अणतिक्कमणाइ से होइ // 34 // निर्गन्थो यति : धृतिमान् धर्मचरण प्रति, निर्ग्रन्थी तपस्विनी, साऽपि कुर्याद्. भक्तपानगवेषणमिति प्रक्रमः / षड्भिश्चैव स्थानः, तः पुनरर्थे, एभिरनन्तरं वक्ष्यमाणैः, किमित्येवमत आह(अणइक्कमणमिति) सूत्रत्वादनतिक्रमणं संयमयोगानामनुल्लङ्घनं, चशब्दौ यस्मादर्थ, यस्मात् (से त्ति) तस्य निर्ग्रन्थस्य तस्या वा निर्गन्थ्या भवति जायते, अन्यथा तदतिक्रमण संभवात् / / 34 / / षट्स्थानान्येवाहआयंके उवसग्गे, तितिक्खयाबम्भचेरगुत्तीसु। पाणिदया तवहेळं, सरीरवोच्छेयणट्ठाए।।३।। आतको ज्वराऽऽदिरोगः, तस्मिन्, उपसर्गान् इति स्वजनाऽऽदिः कश्चिदुपसर्गास्तन्निष्क्रमणार्थ करोति, विमर्शाऽऽदिहेतो ततस्तस्मिन् सति उभयत्र तन्निवारणार्थमिति गम्यते / तथा तितिक्षा सहनं, तया हेतुभूततया, क्व विषये, इत्याह-ब्रह्मचर्यगुप्तिषु, ता हि नान्यथा सोहूँ शक्याः, तथा (पाणिदया तवहेउंति) प्राणिदयाहेतोर्वर्षाऽऽदौ निपतत्यप्कायाऽऽदिजीवरक्षायै, तपश्चतुर्थाऽऽदिरूपं तद्धेतोच, तथा शरीरस्य व्यवच्छेदः परिहारः, तदर्थ च, उचितकाले संलेखनामनशनं वा कुर्वन् भक्तपानगवेषणं कुर्यादिति सर्वत्र योज्यम् / कारणत्वभावना चामीषा प्राम्वत् // 35|| तद्गवेषणं च कुर्वन् केन विधिना कियत् क्षेत्रं पर्यटदित्याहअदसेसं भंडगं गिज्झ, चक्खुसा पडिलेहए।