________________ पइदिणकिरिया 10- अभिधानराजेन्द्रः - भाग 5 पइदिणकिरिया परमद्धजोयणाओ, विहारं विहरे मुणी॥३६|| अवशेष भिक्षाप्रक्रमात् पात्रनिर्योगोदरित, चशब्दस्य गम्यमानत्वात शेष च, न पात्रनियोगमेव / यद्वा-अपगतं शेषमपशेषम्, कोऽर्थः ? समस्त भाण्डकमुपकरणं (गिज्झ त्ति) गृहीत्वा, च-क्षुषा प्रत्युपेक्षेत, उपलक्षणत्वात् प्रतिलेखयेचा इह च विशेषत इतिगम्यते। सामान्यतो ह्यप्रत्युपेक्षितस्य ग्रहणमपि न युज्यत एव यतीनाम्,उपलक्षणत्वाचास्य तदादाय परमुत्कृष्टमर्द्धयोजनादड़योजनमाश्रित्य, ल्यब्लोपे पञ्चमी। परतो हि क्षेत्रातीतमशनाऽऽदिर्भवत्, विहरन्त्यस्मिन् प्रदेश इति विहारस्त (विहर त्ति) विहरेद्विचरेन्मुनिः // 36 // इत्थं विहत्योपाश्रयं चाऽऽगत्य गुर्वालोचनाऽऽदिकृत्वा यत् कुर्यात्तदाहचउत्थीए पोरिसीए, णिक्खिवित्ताण भायणं / सज्झाययं तओ कुजा, सव्वभावविभावयं // 37 // चतुर्थ्या पौरुष्या निक्षिप्य प्रत्युपेक्षणापूर्वकं वध्वा भाजन पात्रं स्वाध्यायं ततः कुर्यात्, सर्वभावा जीवाऽऽदयः, तेषा विभावकं प्रकाशकं सर्वभावविभावकम्। पठ्यते च- "सव्वदोक्खविमुक्खणं ति' प्राग्वत्। पोरिसीए चउडभाए, वंदित्ताण तओ गुरुं। पडिक्कमित्ता कालस्स, सेजंतु पडिलेहए॥३८|| पौरुष्याः प्रक्रमाच्चतुर्थ्याश्चतुर्भागे चतुर्थांश, शेष इति गम्यते। वन्दित्वा तत इति स्वाध्यायकरणादनन्तर गुरुमाचार्याऽऽदि प्रतिक्रम्य कालस्य शय्यां वसतिं, तुः पूरणे, प्रतिलेखयेत्॥३८|| पासवणुचारभूमि च, पडिले हिज्ज जयं जई। ततश्च (पासवणुचारभूमि च त्ति ) भूमिशब्दस्य प्रत्येकमभिसंबन्धात् प्रश्रवणभूमिमुच्चारभूमिं च प्रत्येक द्वादशस्थण्डिलाऽऽत्मिकां, चशब्दात् कालभूमिं च स्थण्डिलवयाऽऽत्मिकां प्रतिलेस्वयेत् (जयं ति ) यतमारम्भादुपरतं यथा भवति तथा यतमानो यतिः। एवं च सप्तविंशतिस्थण्डिलानां प्रत्युपेक्षणानन्तरमादित्योऽस्तमेति। तथा चोक्तम्"चउभागऽवसेसाए, चरिमाएँ पडिक्कमित्तु कालस्स। उचारे पासवणे, थंडिलचउवीसतिं पेहे||१|| अहियासियाओं अंतो, आसन्नो मज्झिदूरि तिन्नि भवे। तिन्नेव अणहियासिया, अंतो छ छच वाहिरओ।।२।। एमेव य पासवणे , बारस चउवीसइंतु पेहेत्ता। कालस्स य तिन्नि भवे, अह सुरो अत्थमुवयाइ / / 3 / / ' इति सार्द्धसप्तदशसूत्रार्थः इत्थं विशेषतो दिनकृत्यमभिधाय संप्रति तथैव रात्रिकर्त तत्र च स्थितो यत् कुर्यात्तदाह-(देसियं ति) प्राकृतत्वाद्वक रलोपे दैवसिकम् / चः पूरणे, अतिचारमतिक्रम, चिन्तयेद्ध्यायेत्। (अणुपुटवसो त्ति) आनुपूर्व्या क्रमेण, प्रभातभुखवस्त्रिकाप्रत्युपेक्षणातो यावदयमेव कायोत्सर्गः। उक्तं हि-"गोस मुहे ऽणंतगाई, आलोइऍ देसिएय अतियारे। सव्वेसमाणइत्ता, हियए दोसे ठविजाह / / 1 / / "किंविषयमनीचार चिन्तयेदित्याह-ज्ञाने ज्ञानविषयमेवं दर्शने चैव, चारित्रे तथैव च। पारियकाउस्सग्गो वंदित्ताण तओ गुरुं। देसियं तु अतीचारं, आलोएज जहक्कम // 41 // पारितः समापितः कायोत्सगों येन स तथा, वन्दित्वा प्रस्तावाद द्वादशाऽऽवर्त्तवन्दनेन, तत इत्यतीचारचिन्तनादनन्तरं गुरुमाचार्याऽऽदि (देसिय त्ति) प्राग्वदैवसिक, तुः पूरणे। अतीचारमालोचयेत् प्रकाशयेत् गुरूणामेव, यथाक्रममालोचनाऽऽसेवनाऽन्यतराऽनुलोम्यक्र मानतिक्रमेण। पडिक्कमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं / काउस्सग्गं तओ कुजा, सव्वदुक्खविभोक्खणं / / 4 / / प्रतिक्रम्य प्रतीपमपराधस्थानेभ्यो निवृत्य, प्रतिक्रमणंच मनसा भावविशुद्धितो, वाचा तत्सूत्रपाठतः, कायेनोत्तमाङ्गेन नमनाऽऽतिः, निःशल्यो मायाऽऽदिशल्यरहितः, सूचकत्वात् सूत्रस्य वन्दनकपूर्व क्षमयित्वा च, वन्दित्वा द्वादशाऽऽव-वन्दनेन, तत इत्युक्तविधेरनन्तरं गुशमाचार्याऽऽदिक, कायोत्सर्ग दर्शनचारित्रश्रुतज्ञानशुद्धिनिमित्तव्युत्सर्गत्रयलक्षणं, जातौ चैकवचन, ततो गुरुवन्दनानन्तरं कुर्यात् सक्दुःखविमोक्षणम् // 42 // पारियकाउसग्गो, वंदित्ताण तओ गुरूं। थुइमंगलं च काऊण, कालं संपडिलेहए॥४३॥ 'पारिय' इत्यादि पूर्वार्द्व व्याख्यातमेव / स्तुतिमङ्गलंच सिद्धसूत्ररूपं च कृत्वा / पाठान्तरं वा- 'सिद्धाण संथवं किच ति'' सुगमम् / कालमागमप्रतीत (संपडिलेहए ति) संप्रत्युपेक्षताकोऽर्थः ? प्रति जागर्ति, उपलक्षणत्वाद् गृहाति च, एतद्गतश्च विधिरागमादवसेयः / / 43 / / पदमपोरिसि सज्झायं, वितिए झाणं झियायइ। तइयाए निद्दमोक्खं तु, सज्झायं तु चउत्थिए।।४४|| "पढम'' इत्यादि प्राग्व्याख्यातमेव, नवरं पुनरभिधानमस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् / / 44 / / कथं पुनश्चतुर्थपौरुष्या स्वाध्यायं कुर्यादित्याहपोरिसीए चउत्थीए, कालं तु पडिलेहिए। सज्झायं तु तओ कुजा, अबोहंतो असंजए॥४२॥ पौरूष्यां चतुर्थ्या. कालं वैरात्रिकं, तुः पूरणे। (पडिलेहिय त्ति) प्रत्युपेक्ष्य प्रतिजागर्य, प्राग्वद् गृहीत्वा च, स्वाध्यायं ततः कुर्यात्, अबोधयन्नव्युत्थापयन असंयतान् अगारिणः, तदुत्थापने तत्पापस्थानेषु तेषा प्रवर्तनसभवात् // 45 // पोरिसीए चउन्माए, वंदिऊण तओ गुरुं। पडिक्कमित्तु कालस्स, कालं तु पडिलेहए।।४६|| पौरुष्याः प्रक्रमाचतुर्थ्याश्चतुर्थभागे , अवशिष्यमाण इति शेषः / व्यमाह काउस्सग्गं ततो कुजा, सव्वदुक्खविमुक्खणं / / 36 / / देसियं च अईयारं, चिंतिज अणुपुटवसो। नाणम्मि दंसणे चेव, चरित्तम्मि तहेव य॥४०॥ सार्दानि त्रयोदश सुत्राणि कायोत्सर्ग, ततः प्रश्रवणाऽऽदिभूमिप्रतिलेखनादनन्तरं कुर्यात् सर्वदुःखविमोक्षणं, तथात्वं चास्य कर्मापचयहेतुत्वात्। उक्तंच- "काउस्सगे जह मुद्दियस्स भजंति अंगमगाई। तह भिंदंति सुविहिया, अट्टविहं कम्मसंधाया।१॥" |