________________ पडिक्कमण 316 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण / सेन० 2 उल्ला० / तथा-पाक्षिकप्रतिक्रमणे क्षुत् कदा निवायते इतिप्रश्ने, उत्तरम्-चैत्यवन्दनाऽऽदित आरभ्य शान्तिं यावत् क्षुन्निवार्यत इतिपरम्परऽस्ति। 121 प्र० / सेन०२ उल्ला०ा तथा-सन्ध्याप्रतिक्रमणे एडवश्यकसूत्राणि कानीति प्रश्ने उत्तरम् - 'नमो अरिहंताणं' इत्यादि संपूर्णनमरकारः, "करेमि भंते ! सामाइअं' इत्यादितः "अप्पाण बोसिरामि इत्यन्तं प्रथम सामायिकाध्ययनम् १।"लोगस्सुज्जोयगरे' इत्यादितः- "सिद्धा सिद्धिं मम दिसतु" इत्यन्तं द्वितीयं चतुर्विंशतिस्तवाश्ययनम् 2 / ''इच्छामि खमासमणो ! वंदिउँ जावणिज्जाए निसिहीआए अगुजाणह मे मिउग्गह'' इत्यादि तृतीय वन्दनकाध्ययनम् ३६"चतारि मंगल० इच्छामि पडिक्कमिउं जो मे देवसिओ.'' ''इच्छामि पडि." "इरिया-वहिआए." "इच्छामि पडिक्क." "पगामसिज्जाए." "इत्यादि चतुर्थं प्रतिक्रमणाध्ययनम् 4 / " " इच्छामि ठाउं काउसणं " तस्स उत्तरीकरणेणं." "अन्नत्थ'' "ऊससिएणं सव्वलोए अरिहंतचेइ-आणं " ''पुक्खरवरदीड्ढ०" "सिद्धाणं बुद्धाणं" ''वेयाकनगराणं " इच्छामि खमासमणो! अभुट्टिओ मि अभिंतरदेवसिअं खामेड" "इच्छामि खमासमणो ! पिअंच मे जं भे" इत्यादि पञ्चम कायोत्सगोध्ययनम् 5 / " उग्गए सूरे नमुक्कारसहिअं पच्चक्खामि" इत्यादीनि साण्यपि प्रत्याख्यानसूत्राणि षष्ठं प्रत्याख्यानाध्ययनं च 6 / इमानि प्रतिक्रमणे षडावश्यकसूत्राणि परम्परया ज्ञेयानीति। 51 प्र०। सेन० 3 उल्ला० / तथा-प्रतिक्रमण-हेतुगर्भे रात्रिकप्रतिक्रमणविधौ रात्रिकप्रायश्चित्त-कायोत्सर्गस्ततः चैत्यवन्दनं, ततः स्वाध्याय एव पश्चात्प्रति-क्रमणाऽऽदौ चत्वारि क्षमाश्रमणान्युक्तानि सन्तीति, एवं तु न क्रियते, तत्कि बीजमिति प्रश्ने, उत्तरम्-यतिदिनचर्याऽऽदौ स्वाध्यायादनु चत्वारि क्षमाश्रमणानि प्रोक्तानि, श्राद्धदिनकृत्यवृत्तिवन्दारुवृत्त्यादौ तु स्वाध्यायादनु प्रतिक्रमणस्थापनमुक्तं, ततस्तानि स्वाध्यायं कुर्वन् ज्ञायतेऽयं च विधिः-परम्परया बाहुल्येन क्रियमाणोऽस्ति, स्गामाचारीविशेषेण चोभयथाऽपि विरुद्धमेवेति / 162 प्र०। सेन०३ उल्ला तथा-55-त्मीयप्रति-क्रमणविधिः संपूर्णः क्व मूलसूत्रेऽस्तीति प्रश्ने, उत्तरम्-आवश्य-कवृत्त्यावश्यकचूयादौ कियान् विधिरुपलभ्यते, कियास्तु सामाचार्यादाविति। 206 प्र० / सेन०३ उल्ला०॥ तथा-सांवत्सरिकप्रतिक्रमणकायोत्सर्गे चत्वारिंशल्लोकोद्योतकरान् कथयित्वा तत्प्रान्ते एको नमस्कारो वक्तव्यः, पश्चात्कायोत्सर्गः पाराणीयः कश्चिन्च, प्रान्ते नमस्कारं वक्तव्यं, न ब्रूते तेन कि प्रमाणमिति प्रश्ने, उत्तरम्-सांवत्सरिकप्रतिक्रमणे सनमस्कारश्चत्वारिंशत्ल्लोकोद्योतकरकायोत्सर्गः प्रतिक्रमणहेतुगर्भाऽऽदावुक्तोऽस्ति, पारम्पर्येणाऽपि तथैव क्रियते इति / 285 प्र० / सेन०३ उल्ला० / तथापाश्चात्यरात्री साधुसमीपे समागत्य यत् श्राद्धाः प्रतिक्रमणं कुर्वाणा दृश्यन्ते, तस्याक्षराणि कुत्र ग्रन्थे सन्तीति प्रश्ने, उत्तरम्-सामाचार्यनुसारेण यथा पौषधकरणाय पाश्चात्यरात्रौ समीपसमागमनं दृश्यते, तथा प्रतिक्रमणाकृतेऽपि तदयुक्तिमद् ज्ञायत इति 311 प्र०। सेन०३ उल्ला०। तथा-पाक्षिके प्रतिक्रान्तौ श्राद्धे रुच्यमानास्तपआचाराऽऽधतीचाराः साधुभिः श्रूयन्ते केवलसाधवश्व प्रतिक्रान्तास्तानतिचारान् कथयन्ति, न वा, साम्प्रतं तु न केचित्कथयन्तीति प्रश्ने, उत्तरम् केवलसाधुभिः पाक्षिकप्रतिक्रमणे क्रियमाणे तपआचाराऽऽद्यतीचारा यद्यायान्ति तदा स्वयं कथनीयास्तत्प्रवृत्तिरपि दृष्टाऽस्तीति / 332 प्र० / सेन०३ उल्ला० / तथा"देवसिअराइअपक्खिए त्ति" कायोत्सर्गनियुक्तिगतचतुर्नवतितमगाथार्थो हारिभद्रयां वृत्तौ व्याख्यातोऽस्ति, तत्रैकैकस्मिन् प्रतिक्रमणे त्रयो गमाः प्रतिपादिताः सन्ति, ते पञ्चस्वपि प्रतिक्रमणेषु यत् ख्यातं यथा समासा गमा भवन्ति तथा व्यक्ताः प्रसाद्या इति प्रश्ने, उत्तरम-दैवसिकाऽऽदिषु पञ्चसु प्रतिक्रमणेषु प्रारम्भानन्तरं यत्प्रथमम्"करेमि भंते!'' इत्याधुचारणं स प्रथमगमप्रारम्भस्तदनुप्रतिक्रमणसूत्रपाठनावसर, यत् ' करेमि भंते !" इत्याधुच्चारणम्, स द्वितीयागमप्रारम्भस्तस्योचारादर्वाक प्रथमगमस्य समाप्तिः, तथा तृतीयवेलायां यत् " करेमि भते!" इत्याधुच्चारण स तृतीयगमस्य प्रारम्भस्तस्य पूर्व तु द्वितीयगमस्य समाप्तिः, तृतीयगमसमाप्तिस्तु तत्तत्प्रतिक्रमणसमाप्ति यावदिति श्रीआवश्यकबृहदृत्त्यनुसारेणावसीयते इति।३८१ प्र०।सेन० 3 उल्ला० 1 तथा-संध्याप्रतिक्रमणवत्प्रातः प्रतिक्रमणे श्राद्धानां प्रतिक्रमणसूत्राऽऽदेशो न दीयते, तत्र को हेतुरिति प्रश्ने, उत्तरम- प्रातः प्रतिक्रमणं वाढस्वरेण न कर्त्तव्यमित्यागमीया रीतिः, श्राद्धानामादेशदाने तुते प्रतिक्रमणसूत्रश्रावणार्थ वाढस्वरेण कथयन्तीति तद्विलोपः स्यादिति प्रातः प्रतिक्रमणाऽऽदेशो न दीयते इति 366 प्र० / सेन०३ उल्ला० / तथा-खाद्यरतनिकाऽऽदीनां प्रतिक्रमणकरणोदीरणा क्रियते, त्रिवारं सामायिकाऽऽदिदण्डकं चोच्चार्यते तद्युक्तमयुक्तं वेति प्रश्ने, उत्तरम्खाद्यस्तनिकाऽऽदीनां प्रतिक्रमणकरणोदीरणाकरणं न युक्तं, यदि चते स्वयं प्रतिक्रमणं कुर्वन्ति पौषधाऽऽदिदण्डकं त्रिवारमुच्चरन्ति तदा द्रव्यक्षेत्रकालाभावानुसारेणानु-कूलाऽऽदिगुणसंभवः स्यात्तदोच्चार्यते, यस्माच्छास्त्रेऽप्येवं दृश्यते-"तम्हा सव्वाणुन्ना. सव्वनिसेही अपवयणे नत्थि।" इति। 421 प्र०। सेन०३ उल्ला०ा तथा-खाद्यमण्डल्या प्रतिक्रमणं कुर्वन्ति तत्कथितं प्रतिक्रमणसूत्रं श्राद्धानां स्तवनाऽऽदिकं यतिनां च शुद्ध्यति, न वा, तथा-उपवस्त्राऽऽदिप्रत्याख्याने ये कसेल्लकपानीयं पिबन्ति तेषामुपवस्त्राऽऽदिकं कार्यते, न वेति प्रश्ने, उत्तरम्-द्रव्यक्षेत्रकालभावानुसारेण प्रश्नोत्तरवदनुसंधेया इति 422 प्र०। सेन०३ उल्ला तथा-प्रोञ्छनकस्योपरि स्थित्वा प्रतिक्रमणं कृतं शुद्धयति, न वेति प्रश्ने, उत्तरम्-तदुपरि कृतं न शुद्धयतीति प्रतिक्रमणसूत्राऽऽदिकथनवेलायां तु तत्रोपवेष्टव्यमिति / 487 प्र० / सेन० 3 उल्ला०ा तथा-पदस्थं विना स्थापनाग्रे प्रतिक्रमणं क्रियते तदा क्षामणकविधिः कथमिति प्रश्ने, उत्तरम्-स्थापनाग्रे प्रतिक्रमणकरणे प्रथम स्थापनाऽऽचार्यस्य पश्चादृद्धानुक्रमेण यतिद्वयस्य चतुष्कस्य षट्कस्य च क्षामणकं क्रियते, यति विना स्थापनाया एवेति / 55 प्र० / सेन०४ उल्ला०ा तथा-द्वाविंशतितीर्थकरवारके "कारणजाए पडिक्कमणं" इत्युक्तमस्ति तत्पञ्चानां प्रतिक्रमणाना मध्ये किं नामकमिति प्रश्ने, उत्तरम्- "कारणजाए पडिक्कमणं' एतत्पाक्षिकाऽऽद्याश्रित्य ग्राह्यम, उभयकालं प्रतिक्रमणं तु सर्वेषां भवतीति बोध्यम्। 63 प्र०। सेन०४ उल्ला०। तथा-कालिकसूरिभिः पाक्षिकदिने चतुर्मासकमानीतं तत्र प्रतिक्रमणानि न्यूनानि भवन्ति तत्कथमिति प्रश्ने, उत्तरम् प्रतिक्रमणानां न्यूनत्वेऽधिकत्वे वानकश्चिद्विशेषो, यतः पूर्वाऽऽ