________________ पडिक्कमण 320 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमणारिह चार्याणामाचरणमेवात्र प्रमाणं, यथा कल्पसूत्रस्य श्रावणं श्राद्धानां पूर्वाचार्याऽऽचरणयैव क्रियते इति / 111 प्र० / सेन० 4 उल्ला० / संध्याप्रतिक्रमणे सामायिकोचारानन्तरं स्वाध्यायनमस्कारत्रयं कथयित्वा वन्दनकप्रत्याख्यानमुखवस्त्रिका प्रतिलिख्यते, सा क्षमाश्रमणं दत्त्वा प्रतिलिख्यते, किं वा क्षमाश्रमणं विना ? तथा सा फि कथयित्वा प्रतिलिख्यते इति प्रश्ने, उत्तरम् सामायिकं कृत्वा "बिसणि संदिसायूँ " प्रमुखक्षमाश्रमणचतुष्टयं दत्त्वा नमस्कारत्रयं च कथयित्वा क्षमाश्रमणपूर्वकम् "इच्छाकारेण संदिसह भगवन् ! मुहपत्ति पडिलेहुं" इत्यादेशपूर्व मुखवस्त्रिका प्रतिलिख्य वन्दनकद्वयं च दत्त्वा प्रत्याख्यान कर्तव्यमिति। 161 प्र० / सेन० 4 उल्ला० / विषयसूची(१) प्रतिक्रमण-प्रतिक्रामक प्रतिक्रमयितव्यसिद्धिः / (2) आश्रवद्वार-मिथ्यात्व-कषाय-योग-भावभेदात् प्रतिक्रमणस्य पञ्चविधत्वम्। (3) उचार-प्रस्रवण-इत्वर-यावत्कथिकाऽऽदिभेदेन षनिधत्वम्। देवसिकाऽऽदिभेदेन प्रतिक्रमणनिरूपणम्। (5) प्रतिक्रमणनिमित्तम् / (6) प्रतिक्रमणविधिप्रकारः / (7) प्रतिक्रमणसूत्रम्। (8) प्रतिक्रमणनिर्वचनविभागनिर्वचनम्। (6) अत्रैव प्रायश्चित्तम्। (10) त्वग्वर्तनस्थानातिचारप्रतिक्रमणम्। (11) तत्र कुक्कुटिदृष्टान्तः। (12) त्रिषष्ट्यधिकपञ्चशतीमितजीवाना मिथ्या दुष्कृतं दीयते, तद्भेदनिरूपणम्। (13) गोचरातिचारप्रतिक्रमणप्रतिपादनम् / (14) स्वाध्यायाऽऽद्यतीचारप्रतिक्रमणप्ररूपणम् / (15) तत्र प्रतिक्रमणभेदख्यापनम्। (16) रात्रिकप्रतिकमणविधिः / (17) पाक्षिकाऽऽदिषु प्रतिक्रमणम्। (18) चातुर्मासिकसांवत्सरिकप्रतिक्रमणक्रमः। (16) अत्र पूर्वाऽऽचार्यप्रणीतगाथाः। (20) पक्षान्ताऽऽदिषु प्रतिक्रमणं कर्तव्यम्। (21) आवश्यकचूर्ण्यभिप्रायेणपाक्षिकाऽऽदिप्रतिक्रमणविधिप्रति पादनम्। (22) पाक्षिकं चतुर्दश्यामेव। (23) महाव्रतोचारणा। (24) कालिकप्राणातिपातविरतिप्रतिपादनम्। (25) आशातनावर्जनतो महाव्रतलक्षणम्। (26) शेषप्रतिक्रमणविधिः। (27) श्रावकप्रतिक्रमणम्। (28) कृतसामायिकश्रावकप्रतिक्रमणविधिः। (26) विराधनायां प्रायश्चित्तानि / (30) प्रतिक्रमणफलम्। (31) प्रकीर्णकविषयाः। पडिक्कमणारिह नं० (प्रतिक्रमणाह) प्रतिक्रमणं मिथ्यादुष्कृत तदर्हम् / स्था० 10 ठा० / व्य० / प्रतिक्रमणं दोषात प्रतिनिवत. नमपुनःकरणतया मिथ्यादुष्कृतप्रदानमित्यर्थः / तदहं प्रायश्चित्तमरि प्रतिक्रमणम् / किमुक्तं भवति? -प्रायश्चित्तं मिथ्यादुष्कृतमात्रेणैट शुद्धिमासादयति, न च गुरुसमक्षमालोच्यते / यथा-सहसाऽनुपयोगतः श्लेष्माऽऽदिप्रक्षेपादुपजातं प्रायश्चित्तम् / तथाहि-सहसाऽनुपयुक्त याद श्लेष्माऽऽदि प्रक्षिप्तं भवति / न च हिंसाऽऽदिकं दोषमापनस्ता, गुरुसमक्षमालोचनामन्तरेणाऽपि मिथ्यादुष्कृतप्रदानमात्रेण शुक्ष्यति तत्प्रतिक्रमणार्हत्वात् प्रतिक्रमणम्। व्य०१ उ०। प्रव०। जीत०। इदानीं प्रतिक्रमणामभिधित्सुराहगुत्तीसु य समितीसु य, पडिरूवजोगें तहा पसत्थे य वइक्कमे अणाभोगे, पायच्छित्तं पडिक्कमणं // 6 // गुप्तयस्तिस्रः / तद्यथा-मनोगुप्तिः, वचनगुप्तिः, कायगुप्तिः / तन्न समितयः पञ्च / तद्यथा-ईर्यासमितिः, भाषासमितिः, आदानभाण्डमा:निक्षेपणासमितिः, उचारप्रश्रवणखेलसिधाणजल्लपारिष्ठापनिकसमितिश्च / एतासु च सहसाकारतोऽनाभोगतो वा कथमपि प्रमादे सती. वाक्यशेषः / प्रायश्चित्तं प्रतिक्रमणं मिथ्यादुष्कृतप्रदानलक्षणम् / इयम् भावना-सहसाकारतोऽनाभोगतो वा यदि मनसा दुश्चिन्तितं, तथा-दच दुर्भाषितं, कायेन दुश्चेष्टितं, तथा-ईर्यायां यदि कथां कथयन् ब्रजे भाषायामपि यदि गृह स्थभाषया ढड्डरस्वरेण वा भाषेत, एषणा भक्तपानगवेषणवेलायामनुपयुक्तो भाण्डोपकरणस्याऽदाने निक्षेपेट प्रमार्जयिता प्रत्युपेक्षिते स्थण्डिले उच्चाराऽऽदीनां परिष्टापयिताम: हिंसादोषमापन्नः / उपलक्षणमेतत्, तेन यदि कन्दर्पो वा हासोट स्त्रीभक्तचौरजनपदकथावा, तथा-क्रोधमानमायालोभेषु गमनं, विका वा शब्दस्पर्शरसरूपगन्धलक्षणेष्वनुषङ्गः, सहसानाभोगतो वा कृ स्यात्, तत एतेषु सर्वेषु स्थानेषु मिथ्यादुष्कृतप्रदानलक्षणं पायकिनमिति / तथा-प्रतिरूपयोगे प्रतिरूपविनयाऽऽत्मके व्यापार तथा प्रशमन यो यत्र करणीयो व्यापारः स तत्र प्रशस्तः, "इच्छामिच्छा' इत्यादि स्तस्मिन्नपि वा क्रियमाणे प्रायश्चित्तं प्रतिक्रमणम् / इह प्रतिरूपगृह ज्ञानाऽऽदिविनयोपलक्षणम् / ततोऽयमर्थ:- ज्ञानदर्शनचारित्रप्रति रूपलक्षणप्रकारविनयाकरणे "इच्छा-मिच्छा तथाकारा'' दि. प्रशस्तयोगाकरणे उपलक्षणमेतत्, आचार्याऽऽदिषु मनसा प्रद्वेष'ऽऽदिकरणे वाचा अन्तरभाषाऽऽदिकृतौ कायेन पुरोगमनाऽऽदौ प्रतिक्रम प्रायश्चित्तम् / तथा-उत्तरगुणप्रतिसेवनायाम् "बइझम'' इति मर्यादकथनं, तेनातिक्रमे च प्राग्व्याख्यातस्वरूपे, तथा-अनाभोगादकन्दप्रतिसेवने मिथ्यादुष्कृतप्रदानाऽऽत्मकं, प्रतिक्रमणं प्रायश्चित्तम् / ई गाथासमासार्थः / / 60 // व्यासार्थ तु भाष्यकृद्यचिख्यासुः प्रथमतो ''गुत्तीसु य समिईसुय इति व्याख्यानयतिकेवलमेव अगुत्तो, सहसाऽणाभोगओ व अप्पहिंसा। तहियं तु पडिक्कमणं, आउड्डि तवो न वा दाणं // 61 / / एवकारो भिन्नक मः, अगुप्त एव गुप्तिरहित एव, 'के बलम