________________ पडिक्कमण 316 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण इत्यादि दिनकृत्यलक्षणा, गौरवाणिजात्यादिमदस्थानानि, तानि प्रतीतानि, ऋद्धयादीनिवा, वन्दनं च व्रतानिचेत्यादिद्वन्द्वस्तेषु, तथासंज्ञाः आहार 1 भय 2 मैथुन 3 परिग्रह 4 रूपाश्चतस्रः / तथा पराः षट्संज्ञा:-क्रोध 1 मान 2 माया ३लोभ 4 लोक५ ओघ६ रूपाः, मीलिताश्च दश, पञ्चदश वा, ताश्च आहाराऽऽदि 4 क्रोधाऽऽदि 4 / सुखदुःखमोहवितिगिच्छा-शोकधर्मांघरूपाः,आसुचलोकसंज्ञामीलने षोडशापि, तथा-कषः संसारस्तस्याऽऽयो लाभो येभ्यस्ते कषायाः क्रोधाऽऽदयः, तथादण्ड्यते धर्मधनापहारेण प्राणी यैस्तेऽशुभमनोवाक्कायरूपा दण्डा, मिथ्यादर्शनमायानिदानशल्यरूपा वा, तेषु तथा गृप्तिषु अशुभयोगनिरोधरूपासु, तथा ईर्याऽऽदिषु पञ्चसु समितिषु, चशब्दाद्दर्शनप्रतिमाऽऽद्यशेषधर्मकृत्येषुच, निषिद्धकरणाऽऽदिनायोऽतिचारस्तकं निन्दामीति / / 3 / / साम्प्रतं सम्यग्दर्शनमाहात्म्योपदर्शनायाऽऽह"सम्मट्ठिी जीवो, जइ विहु पावं समायरइ किंचि। अप्पो सि होइ बंधो, जेण न निद्धंधसं कुणइ॥३६॥" सम्यगविपरीता दृष्टिर्बोधो यस्थ सम्यग्दृष्टिीवो यद्यपि कथञ्चिदनिर्वहन् पापं कृष्याद्यारम्भं समाचरति, किञ्चित् स्तोकं निर्वाहमात्रमित्यर्थः / हुरत्र तथाऽपीत्यर्थे, ततस्तथाप्यल्पः पूर्वगुणस्थानापेक्षया स्तोकः, (सि त्ति) तस्य श्रावकस्य भवति बन्धो ज्ञानाऽवरणाऽऽदिकर्मणां, कुत इत्याह-येनेति। यस्मान्न(निबंधसं ति) निर्दयं क्रियाविशेषणमिदं, कुरुते प्रवर्तते पशुवधनिबन्धनवाणिज्योधतचारुदत्तवदिति // 36|| ध०। (चारुदत्तवृत्तम् 'चारुदत्त' शब्दे तृतीयभागे 1176 पृष्ठे गतम्) ननु स्तोकस्य विषस्य विषमा गतिरित्यल्पस्यापि बन्धस्य का गतिरित्यत आह"तं पिहुसपडिक्कमणं, सप्परिआवं सउत्तरगुणं च। खिप्पं उवसामेई, बाहि व्व सुसिक्खिओ विज्जो||३७। तदपि यत्सम्यकदृष्टिना कृतमल्पं पापं सह प्रतिक्रमणेन षट्विधावश्यकेन वर्तत इति सप्रतिक्रमणं सपरितापंपश्चात्तापानुगतं, पकारस्य द्वित्वमार्षत्वात्, सोत्तरगुणं च गुरुपदिष्टप्रायश्चित्तचरणान्वितं, क्षिप्रं शीघ्रमुपशमयति निष्प्रतापं करोति क्षपयति वा श्रावकः, हुरित्यस्यात्रैवार्थत्वात् निष्प्रतापं करोत्येवेत्यर्थः, कमिव?, इत्याह-व्याधिमिव साध्यरोगमिव सुशिक्षितो वैद्य इति // 37 // दृष्टान्तान्तरमाह"जहा विसं कुछगयं, मंतमूसविसारया। विज्जा हणंति मंठेहिं, तो तं हवइ निव्विसं // 38 // " कण्ठ्या, नवरं (विज्जा इति) वैद्याः (तं ति) तत्पापं यद्यप्यसौ विषाऽऽर्तस्तेषां मन्त्राक्षराणां न तथाविधमर्थमवबुध्यते तथा-ऽप्यचिन्त्यो हिमणिमन्त्रौषधीनां प्रभाव इति तदक्षरश्रवणेऽपि गुणः संपनीपद्यते॥३८|| दार्शन्तिकमाह"एवं अट्ठविहं कम्मं, रागदोससमज्जियं। आलोयंतो य निदंतो, खिप्पं हणइ सुसावओ॥३६॥" कण्ठ्या, नवरं सुशब्दः पूजार्थः स च "कयवयकम्मो" इत्यादिना पूर्वोक्तषट्स्थानयुक्तस्य भावश्रावकत्वस्यसूचकः, एनमेवार्थं सविशेषमाह"कयपावो विमणुस्सो, आलोइयनिंदिओ गुरुसगासे। होइ अइरेगलहुओ, ओहरियभर व्व भारवहो // 40 // " सुबोधा / नवरं मनुष्यग्रहणमेतेषामेव प्रतिक्रमाहत्वख्यापनार्थम्, (आलोइअनिंदिओ त्ति) आलोचितनिन्दितः सम्यक्कृताऽऽलोचननिन्दाविधिरित्यर्थः, गुरुसकाशे इत्यनेन चाऽगुरोरगीतार्थाऽऽदेरन्तिके आत्मनैव वा क्रियमाणाया आलोचनायाः शुद्धभावो दर्शितः, (ओहरिअमरु व्व ति) अपहृतभार इवेति॥४०| संप्रति श्रावकस्य बह्वारम्भरतस्याप्यावश्यकेन दुःखान्तो भवतीति दर्शयितुमाह"आवस्सएण एए-ण सावओ जइ वि बहुरओ होइ। दुक्खाणमंतकिरियं, काही अचिरेण कालेण // 41 // " आवश्यकेनतेनेति षविधभावाऽऽवश्यकरूपेण, न तुदन्तधावनाऽऽदिना द्रव्याऽऽवश्यकेन श्रावको यद्यपि ब रजा बहुबध्य मानका बहुरतो वा विविधसावद्याऽऽरम्भाऽऽसक्तो भवतितथाऽपीत्यध्याहाराद्दुःखानां शारीरमानसानाम् (अंतकिरिय) अन्तक्रियां विनाशं करिष्यत्यचिरेण स्तोकेनैव कालेन / अत्र चान्तक्रियाया अनन्तरहेतुर्यथाख्यातचारित्रं तथाऽपि परम्परा-हेतुरिदमपि जायते सुदर्शनाऽऽदेरिवेति // 41 / / धo (सुदर्शनवृत्तम् 'काउस्सग्ग' शब्दे तृतीयभागे 427 पृष्ठे दर्शितम्) संप्रति विस्मृतातिचारं प्रतिक्रमितुमाह"आलोयणा बहुविहा,नय संभरिया पडिक्कमणकाले। मूलगुणउत्तरगुणे, तं निंदे तं च गरिहामि // 42 // " कण्ठ्या, नवरं आलोचना गुरुभ्यो निजदोषकथनम् उपचारातत्कारणभूता प्रमादक्रियाऽप्यालोचना (पडिक्कमणकाले त्ति) आलोचनानिन्दागर्दाऽवसरे॥४२॥ एवं प्रतिक्रामको दुष्कृतनिन्दाऽऽदीन विधाय विनयमूलधर्माऽऽराधनाय कायेनाभ्युत्थितः "तस्स धम्मस्स केवलिपन्नत्तस्स त्ति' भणित्वा मङ्गलगर्भमिदमाह "अब्भुडिओ मि आरा-हणाइ विरओ विराहणाए अ। तिविहेण पडिकंतो, वंदामि जिणे चउव्वीसं ||3||" तस्य गुरुपाचे प्रतिपन्नस्य धर्मस्य श्रावकधर्मस्य केवलिप्रज्ञप्तस्य अभ्युत्थितोऽस्म्याराधनाय उद्यतोऽहं सम्यग् पालनार्थ , विरतश्च विराधनाया निवृत्तः खण्डनायाः त्रिविधेनेत्यादि सुगमम्॥४३॥ एवं भावजिनान्नत्वा सम्यक्त्वशुद्ध्यर्थं त्रिलोकगतस्थापनार्ह द्वन्दनार्थमाह"जावंति चेइयाई, उड्डे अ अहे अतिरिअलोए अ। सव्वाइँ ताईं वंदे, इह संतो तत्थ संताई॥५४॥" कण्ठ्या, नवरं(इह संतो त्ति) इह स्थितः। साम्प्रतं सर्वसाधुवन्दनायाऽऽह"जावंत के वि साहू, भरहेरवए महाविदेहे // सव्वेहि तेसिपणओ, तिविहेण तिदंडविरयाणं / / 5 / " यावन्तः केचित्साधवो जिनस्थविरकल्पिकाऽऽदिभेदभिन्नाः, उत्कर्षतो नवकोटिसहस्रसंख्याः, जघन्यतस्तु द्विकोटिसहस्रप्रमिताः, भरतैरावतमहाविदेहेषु चशब्दात्संहरणादिनाऽकर्मभूम्यादिषु च, सर्वेभ्यस्तेभ्यः प्रणतस्त्रिविधेनेत्यादि सुगमम् // 45|| एवमसौ प्रतिक्रामकःकृतसमस्तचैत्ययतिप्रणतिर्भविष्यत्कालेऽपि शुभभावमाशंसन्नाह"चिरसंचियपावपणा-सणीइभवसयसहस्समहणीए।