________________ पडिक्कमण 315 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण पौषधे पूर्ण श्वः स्वार्थमाहाराऽऽदिइत्थमित्थंकारयिष्ये इत्यादिध्यायतः पञ्चमोऽतिचारः / पाठान्तरं वा- (भोयणाभोय त्ति) भोजने-आहारे, उपलक्षणत्वात् देहसत्काराऽऽदौ आभोग-उपभोगः, कदा पौषधः पूर्णा भविष्यात येनाहं भोक्ष्ये इत्यादितत्परतेति पञ्चमः 5 / एवं पञ्चभिरतिचारैः पौषधविधिविपरीते वैपरीत्ये सति "तइए'' इत्यादि प्राग्वत् // 26 // साम्प्रतमतिथिसंविभागाऽऽख्यं तुर्य शिक्षाव्रतम्। तत्र तिथिपर्वाऽऽदिलौकिकव्यवहारत्यागादोजनकालोपस्थायी श्रावकस्यातिथिः साधुरुच्यते। तस्य सड़तो निर्दोषो न्यायाऽऽगतानां कल्पनीयान्नपानाऽऽदीनां देशकालश्रद्धासत्कारक्रमयुक्तः पश्चात्कर्माऽऽदिदोषपरिहारेण विशिष्टो भाग आत्मानुग्रहबुद्ध्या दानमतिथिसंविभागः / अत्र चायं विधिःकृतपौषधेन श्राद्धन पारणकदिने साधुसद्भावेऽवश्यमतिथिसंविभागवतमासेव्य पारयितव्यम्, अन्यदात्वनियमः। यदाह- "पढम जईण दाऊण " इत्यादि। अत्रातिचारप्रतिक्रमणायाऽऽह"सचित्ते निक्खिवणे, पिहिणे ववएस मच्छरे चेव। कालाइक्कमदाणे, चउत्थे सिक्खावए निंदे // 30 // " देयस्यान्नाऽऽदेरदानबुध्द्याऽतिक्रमाऽऽदिभिरनाभोगेन वा 'सचित्ते' पृथ्व्यादौ निक्षिपतः सचित्तनिक्षेपणतेति प्रथमोऽतिचारः१, एवं सचित्तेन पिदधतः सचित्तपिधानता 2. स्वकीयमपि परकीयमिदमित्यभिदधतः परव्यपदेश. 3, किमस्मादप्यहं न्यून इति मात्सर्यादितो मत्सरिता 4, साधुभिक्षावेलामतिक्रम्य निमन्त्रयमाणस्य कालातिक्रमः 5 / शेष प्राग्वत् // 30 // साम्प्रतमत्र थद्रागाऽऽदिना दत्तं तत्प्रतिक्रमणायाऽऽह"सुहिएसु य दुहिएसु य, जा मे अस्संजएसु अणुकंपा। रागेण व दोसेण व, तं निंदे तं च गरिहामि // 31 // " साधुष्विति विशेष्यं गम्य, संविभागवतप्रस्तावात्, ततः साधुषु कीदृक्षु? सुइ हित ज्ञानाऽऽदित्रयं येषा ते सुहितास्तेषु, पुनः कीदृक्षु? दुःखितेषु रुजा तपसा वा क्लान्तेषु प्रान्तोपधिषुवा, पुनः किंविशिष्टेषु ?'न' स्वयं स्वच्छन्देन यता उद्यता अस्वंयतास्तेषु, गुर्वाज्ञया विहरत्सु इत्यर्थः / 'या' मया कृताऽनुकम्पा अन्नाऽऽदिदानरूपा भक्तिः, अनुकम्पाशब्देनात्र भक्तिः सूचिता / यथोक्तम्- "आयरिअऽणुकंपाए, गच्छो अणुकंपिओ महाभागो। गच्छाणुकंपणाए, अव्वुच्छित्ती कया तित्थे / / 1 / / ' रागेणपुत्राऽऽादेपेम्णा, न तु गुणवत्त्वबुद्ध्या, तथाद्वषेण-द्वेषोऽत्र साधुनिन्दाऽऽख्यः, यथा-अदत्तदानाधनधान्याऽऽदिरहिता मलाऽऽविलसकलदेहा ज्ञालिजनपरित्यक्ताः क्षुधाऽऽर्ताः सर्वथा निर्गतिका अमी, अत उपष्टम्भारे इत्येवं निन्दापूर्वकं या ऽनुकम्पा साऽपि निन्दाऱ्या, अशुभदीर्धाऽऽयुष्कहेतुत्वात्। यदागमः- "तहारूवं समण वा माहणं वा संजयविरयपडिहयपच्चल्खायपावकम्म हीलित्ता निंदित्ता खिंसित्ता गरहित्ता अवमन्नित्ता अमगुन्नेणं अपीइकारगेण असणपाणखाइमसाइमेण पडिलाभित्ता असुहदीहाउयत्ताए काभपकरेइ।" यद्वा-सुखितेषु वा असंयतेषु पार्श्वस्थाऽऽदिषु, शेषं तथैव / नवरं 'द्वेषेण' 'दगपाणं पुप्फफलं' इत्यादि तद्रतदोषदर्शना-मत्सरेण, अथवा-असंयतेषु षड्डिधजीवबधकेषु कुलिङ्गिषु, रामेण एकग्रामात्पस्यादिप्रीत्या, द्वेषणप्रवचनप्रत्यनीकतादिदर्शनोद्रन, तदेवंविधंदानं निन्दामि, गर्हे च, यत् पुनरौचित्यदानंतन निन्दाऽऽहं जिनैरपि वार्षिकंदानंददद्भिस्तस्य दर्शितत्वात्॥३१॥ सम्प्रति साधुषु यन्न दत्तं तत्प्रतिक्रमितुमाह"साहस संविभागो, न कओ तवचरणकरणजुत्तेसुं। संते फासुयदाणे, तं निंदे तं च गरिहामि // 32 // " कण्ठया, नवरं-तपश्चरणकरणयुक्तेष्बित्यत्र तपसः पृथगुपादानमनेन निकाचितान्यपि कर्माणि क्षीयन्ते इति प्राधान्यख्यापनार्थम् / / 31 / / संप्रति संलेखनातिचारान्परिजिहीर्षुराह"इहोए परलोए, जीवियमरणे य आससपओगे। पंचविहो अइयारो, मा मज्झं हुज मरणं ते // 33 // " अत्रऽऽशंसाप्रयोग इति सर्वत्र योज्य, तत्र प्रतिक्रामकं प्रतीत्येह-लोको नरलोकस्तत्राऽऽशंसाराजा स्यामित्याद्यभिलाषस्तस्याः प्रयोगो व्यापार इहलोकाऽऽशंसाप्रयोगः 1, एवं देवः स्यामित्यादिपरलोकाशंसाप्रयोगः 2, तथा कश्चित्कृतानशनः प्रभूतपौरजनव्रतविहितमहामहसततावलोकनात् प्रचुरवन्दारुवृन्दवन्दनसम्पर्ददर्शनात् अस्तोकविवेकिलोकसत्कृतश्लोकसमाकर्णनात् पुरतः संभूय भूयो भूयः सद्धार्मिकजनविधीयमानोपबृंहणश्रवणात् अनघसमस्तसङ्घ जनमध्यसमारब्धपुस्तकवाचनवस्त्रमाल्याऽऽदिसत्कारनिरीक्षणाचैवं मन्यते-प्रतिपन्नानशनस्यापि मम जीवितमेव सुचिरं श्रेयः, यत एवंविधा मदुद्देशेन विभूतिर्वर्तत इति जीविताऽऽशंसाप्रयोगः 3, तथा-कश्चित् कर्कशक्षेत्रे कृतानशनः प्रागुक्तपूजाऽऽद्यभावेक्षुधाऽऽद्यार्तो वा चिन्तयतिकिमिति शीघ्र न म्रियेऽहमिति मरणाऽऽशंसाप्रयोगः 4, तथा-कामभोगाऽऽशंसाप्रयोगः, तत्र कामी शब्दरूपी, भोगाःगन्धरसस्पर्शः, यथा ममास्यतपसः प्रभावात् प्रेत्य सौभाग्याऽऽदि भूयादिति 5 / एष पञ्चविधोऽतिचारो मा मम भूयाद् मरणान्ते यावच्चरमोच्छास इति॥३३।। सर्वोऽप्यतिचारो योगत्रयसंभवोऽतस्तमुद्दिश्य तैरेव प्रति-क्रामन्नाह"काएण कायइयस्सा, पडिक्कमे वाइयस्स वायाए। मणसा माणसियस्सा,सव्वस्स वयाइआरस्स॥३४॥" कायेन वधाऽऽदिकारिणा शरीरेण कृतः कायिकस्तस्य, आर्षत्वादत्र दीर्घः, कायेन तपःकायोत्सर्गऽऽधनुष्ठानपरेण देहेन, एवं वाचा सहसाऽभ्याख्यानदानाऽऽदिरूपया कृतस्य वाचिकस्य वाचैव मिथ्यादुष्कृतकरणाऽऽदिलक्षणया, तथा-मनसा देवतत्वाऽऽदिषु शङ्काऽऽदिकलुषितेन कृतो मानसिकस्तस्य मनसैव हा दुष्ट कृतमित्याद्यात्मनिन्दापरेण सर्वस्य व्रतातिचारस्य प्रतिक्रमामीति सामान्येन योगत्रयप्रतिक्रमणमुक्तम्॥३४॥ सम्प्रति विशेषतस्तदेवाऽऽह"वंदणवयसिक्खागा-रवेसु सन्नाकसायदंडेसु। गुत्तीसु समिईसु य, जो अइयारो तयं निंदे॥३५॥" वन्दनं चैत्यवन्दनम् (ध०) (तद्विधिः 'चेइयवंदण' शब्दे तृतीयभागे 1266 पृष्ठादारभ्य दर्शितः, 'वंदण' शब्दे च दर्शयिष्यते) गुरुवन्दनं च (ध०) (गुरुवन्दनविधिं च 'वंदण' शब्दे दर्शयिष्यामि) व्रतानि स्थूलप्राणातिपाताऽऽदीनि पौरुष्यादिप्रत्याख्यानरूपा नियमा वा, शिक्षा ग्रहणाऽऽसेवनरूपा द्विविधा, तत्र ग्रहणशिक्षा सामायिकाऽऽदिसूत्रार्थग्रहणरूपा। यदाह-"सावगस्सजहन्नेणं अट्ठप्पवयणमायाओ, उक्कोसेणं छज्जीवणिया सुत्तओ वि अत्थओ वि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुण उल्लावेणं सुणइत्ति।" आसेवनशिक्षा तु-नमस्कारेणावबोध