________________ पडिक्कमण 314 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण प्रगुणी विवकिना सात विसंयुक्तरमोगाति उत्तरार्द्धन पञ्चवाणिज्यान्याह- [वाणिज्जं इत्यादि] विषयशब्दः प्रत्येक योज्यः, ततो दन्तविषयं वाणिज्यं दन्तवाणिज्यम्। एवं लाक्षाऽऽदिष्वपि [ध०] पञ्चविधं वाणिज्यम् [ध०] कर्म श्रावको वर्जयेदिति संटङ्कः / [जंतपीलण त्ति ] यन्त्रंउलूखलाऽऽदौ पीडनंधान्यखण्डनाऽऽदि, तेन कर्म जीविका यन्त्रपीडनकर्म, [निलं-छण त्ति] नितरां लाञ्छनम्अङ्गावयवच्छेदस्तेन कर्म जीविका निर्लाञ्छनकर्म / [दवदाणं ति] अरण्येऽग्निप्रज्वालनम् (सरदह इत्यादि) सरोद्रहतटाकशोषः सारणीकर्षणेन, ततो जलनिष्कासनमित्यर्थः, (असईपोसं ति) वृत्त्यर्थ दास्यादिदुः शीलजन्तुपोषणं, लिङ्गमतन्त्रं,सूत्रे च एवंखलुशब्दौ गाथापर्यन्ते सम्बध्येते, ततश्चैवंप्रकाराणि खरकर्माणि गुप्तिपालाऽऽदीनि च, 'खु' निश्चयेन, सुश्रावको वर्जयेदिति // 2 // 23 // साम्प्रतमनर्थदण्डाऽऽख्यं तृतीयं गुणव्रतम् / तत्रार्थो देहस्वजनाऽऽदीनां कार्य, तदभावोऽनर्थः, ततः प्राणी निःप्रयोजनं पुण्यधनापहारेण दण्ड्यते, पापकर्मणा विलुप्यते येन सोऽपध्यानाऽऽचरिताऽऽदिकश्चतुर्धाऽनर्थदण्डस्तस्य मुहूर्ताऽऽदिकालाऽवधिना निषेधोऽनर्थदण्डव्रतं, तत्र चापध्यानाऽऽचरितपापोपदेशौ व्रताधिकारस्थव्याख्यानादेवावसेयौः हिंसप्रदानप्रमादाऽऽचरिते तु बहुसावद्यत्वात् साक्षात्सूत्रकृदेव द्विसूत्र्याऽऽहं "सत्थग्गिमुसलजंतग-तणकट्ठे मंतमूलभेसज्जे। दिने दवाविए वा, पडिकमे देसियं सव्वं // 24 // ण्हाणुचट्टणवअग-विलेवणे सद्दरूवरसगंधे। वत्थासणआभरणे, पडिक्कमे देसियं सव्वं // 25 // " शस्त्रानिमुशलानि प्रतीतानि, यन्त्रकम्-गन्त्र्यादि, तृणम्-महारज्जुकरणाऽऽदिहेतुर्दर्भाऽऽदि वा व्रणकृमिशोधनं बहुकरी वा, काष्ठम्अरघट्टयष्ट्यादि, ‘मन्त्र' विषापहाराऽऽदिः, वशीकरणाऽऽदिर्वा, मूलम्नागदमन्यादि, ज्वराऽऽद्युपशमनमूलिका वा गर्भशातनाऽऽदि वा मूलकर्म, भेषजम् सांयोगिकद्रव्यमुघाटनाऽऽदिहेतुः, एतच्छस्त्राऽऽदिप्रभूतभूतसङ्घातधातहेतुभूतं दाक्षिण्याऽऽद्यभावेऽन्येभ्यो यदत्तं दापितं वा तस्य "पडिक्कमे" इत्यादि प्राग्वत्॥२४|| स्नानम्-अभ्यङ्गपूर्वकमङ्गप्रक्षालनं, तचायतनया त्रससंसक्तभृम्यां संपातिमसत्वाऽऽफुले वाऽकाले वस्त्रापूतजलेन यत्कृतम्, उद्वर्तनम्-संसक्तचूर्णाऽऽदिभिः उद्वर्तनिकाश्च न भस्मनि क्षिप्तास्ततस्ताः कीटिकाकुलाः श्वाऽऽदिभिभक्षयन्ते, पादैर्वा मृद्यन्ते, वर्णकः-कस्तूरिकाऽऽदिः, विलेपनं कुङ्कुमचन्दनाऽऽदि, एते च संपातिमसत्वाऽऽद्ययतनया कृते, शब्दो वेणुवीणाऽऽदीनां कौतुकेन श्रुतः शब्दो वा निश्युच्चैः स्वरेण कृतस्तत्र, "आउज्जोयणविणए'' इत्याद्यधिकरणं यदभूत, रूपाणिनाटकाऽऽदौ निरीक्षितानि, रसः-अन्येषामपि तद्गृद्धिहेतुर्वर्णितः, एवम्गन्धाऽऽ- | दीन्यपि, अत्र विषयग्रहणात्तज्जातीयमद्याऽऽदिप्रमादस्य पञ्चविधस्याऽपि ग्रहः / यद्वा-आलस्येन तैलाऽऽदिभाजनास्थगनं प्रमादाऽऽचरितं, | तस्मिँश्च "पडिक्कमे" इत्यादि प्राग्वत्॥२५॥ अत्रातिचारप्रतिक्रमणायाऽऽह"कंदप्पे कुक्कुइए, मोहरिअहिगरणभोगअइरित्ते। दंडम्मि अणट्ठाए, तइअम्मि गुणव्वए निंदे॥२६॥" कन्दप्पो मोहोद्दीपकं हास्यं 1, कौकुच्यं नेत्राऽऽदिविक्रियागर्भ हास्यजनकं विटचेष्टितम् 2, मौखर्यम्-असंबद्धबहुभाषित्वम्३, (अधिकरण त्ति) संयुक्ताधिकरणता तत्राधिक्रियते नरकाऽऽदि ध्वात्माऽनेनेत्यधिकरणं मुशलोदूखलाऽऽदिसंयुक्तमर्थक्रियायां प्रगुणीकृतं तच तदधिकरणं च तद्भावः संयुक्ताधिकरणता। इह विवेकिना संयुक्तं गन्धाऽऽदि न धरणीयम्, तद् दृष्ट्वा जनो गृह्णन्न निवारयितुं शक्यते, विसंयुक्ते तु स्वत एव निवारितः स्यात् 4, (भोगअइरिते ति) उपभोगपरिभोगातिरिक्तता, तदाधिक्य-करणे ह्यन्येऽपि तत्तैलामलकाऽऽदि याचित्वा स्नानाऽदौ प्रवर्तन्ते (दडम्मि अणट्ठाए त्ति) अनर्थदण्डाऽऽख्ये (तइअम्मि) इत्यादि प्राग्वत्॥२६॥ साम्प्रतं शिक्षाव्रतानि, तत्र प्रथम सामायिक, तत्स्वरूपंचपूर्वमुक्तमेव, तस्यातिचारप्रतिक्रमणायाऽऽह"तिविहे दुप्पणिहाणे, अणवट्ठाणे तहा सइविहूणे। सामाइअ वितहकए, पढमे सिक्खावए निंदे // 27 // " त्रिविधं त्रिप्रकारं 'दुष्प्रणिधानं' कृतसामायिकस्य मनोवाक्कायानां दुष्प्रयुक्तता, तत्र मनसा गृहाऽऽदिव्यापारचिन्तनम् 1, वाचा सावधकर्कशाऽऽदिभाषणम् 2, कायेनाप्रत्युपेक्षिता-प्रमार्जितस्थाण्डिलाऽऽदौ निषदनाऽऽदिविधानम् 3, अनवस्थान-म्सा-मायिककालावधेरपूरणं यथा कथञ्चिद्वाऽनादृतस्य करणम् 4, तथा-स्मृतिविहीनं निद्राऽऽदिप्रमादात् शून्यतयाऽनुष्ठितम् 5 एतानाश्रित्य सामायिके प्रथमे शिक्षाव्रते वितथाकृते सम्यगननुपालिते योऽतिचारस्तं निन्द मीति // 27 // अधुना देशावकाशिकं व्रतम्-तच पूर्वं योजनशताऽऽदिनायावज्जीवं गृहीतदिग्व्रतस्य तथाऽभीष्टकालं गृहशय्यास्थानाऽऽदे : परतो गमननिषेधरूपम्, सर्वव्रतसंक्षेपकरणरूपं वा / अस्याति चारप्रतिक्रमणायाऽऽह"आणवणे पेसवणे, सद्दे रूवे य पुग्गलक्खेवे। देसावगासियम्मी, वीए सिक्खावर निंदे // 20 // " गृहाऽऽदौ कृतदेशावकाशिकस्य गृहाऽऽदेवहिस्तात् केनचित् किञ्चिद्वस्त्वानयत आनयनप्रयोगः 1, एवं प्रस्थापयतः प्रेष्यप्रयोगः 2, गृहाऽऽदेबहिः स्थस्य कस्यचित् काशिताऽऽदिना कार्यकरणार्थमात्मानं ज्ञापयतः शब्दानुपातः३, एवं स्वरूपं दर्शयतो मालाऽऽदावारुह्य पररूपाणि वा प्रेक्षमाणस्य रूपानुपातः 4, नियन्त्रितक्षेत्राहिः स्थितस्य कस्यचित्लेष्टादिक्षेपणेन स्वकार्य स्मारतः पुद्गलक्षेपः 5, "देसावगासियम्मि" इत्यादि प्राग्वत्॥२८॥ . अधुना पोषधोपवासः तत्र पोषं पुष्टिं प्रक्रमाद्धर्मस्य धत्त इति पोषधः अवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषः, तत्रोपवसनं पोषधोपवासः। तद्भेदास्तु पौषधव्रते उक्तास्ततोऽवसेयाः / अत्र चातिचारप्रतिक्रमणायाऽऽह"संथारुच्चारविही-पमाय तह चेव भोयणाभोए। पोसहविहिविवरीए, तइए सिक्खावए निंदे॥२९॥" संस्तारकः-कम्बलाऽऽदिमयः, उपलक्षणत्वाचछय्यापीठफलऽऽकादिच, (उच्चार त्ति) उच्चारप्रश्रवणभूमयो द्वादश द्वादश विण्मूत्रस्थण्डिलानि,एषां विधौ प्रमादः, कोऽर्थः? शय्यायां संस्तारके च चक्षुषा अप्रत्युपेक्षिते दुष्प्रत्युपेक्षिते वोपवेशनाऽऽदि कुर्वतः प्रथमोऽतिचारः१, एवं रजोहरणाऽऽदिना अप्रमार्जिते दुष्प्रमार्जिते च द्वितीयः 2. एवमुच्चाराऽऽदिभूमीनामपिदावतिचारी, अतः प्रोच्यते-(तह चेव त्ति) तथैव भवत्यनाभोगे अनुपयुक्ततायां सत्यामित्यतिचारचतुष्टयम् 4, तथा- 'पोषधविधिविपरीतः' - पोषधविधेश्चतुर्विधस्यापि विपरीतोऽसम्यक्पालनरूपः, यथा कृतपौषधस्य क्षुधाऽऽद्यार्तस्य