________________ डिक्कमण 313 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण स्कराचौराः / तेषामुद्यतकदानाऽऽदिना हरणक्रियायां प्रेरणं प्रयोगः२। (तप्पडिरूवत्ति) तस्य प्रस्तुतकुडकुमाऽऽदेः प्रतिरूपं सदृशं कुसुम्भादि, कृत्रिमकुडकुमाऽऽदिवा तत्प्रक्षेपेण व्यवहारः तत्प्रतिरूपव्यवहारः शविरुद्धनुषयोः राज्यं विरुद्धराज्यं, तत्र ताभ्यामननुज्ञातेवाणिज्यार्थनतिक्रमणंगन विरुद्धगमनम् ४।कूटतुला कूटमानं, तद्न्यूनाधिकाभ्यां व्यवहरतः 5 / यदाह- " उचियं मोत्तूण कालं, दवाइकमागयं च उक्करिस / निवाडियमवि जाणतो, परस्स संतं न गिव्हिज्जा / / 1 / / " एतेष क्रियमाणेषु यद् बद्धभित्यादि प्राग्वत्॥१४॥ तर्यव्रतमाह"धउत्थे अणुव्वयम्मी, निच्चं परदारगमणविरईओ। आयरियमप्पसत्थे, इत्थ पमाणप्पसंगणं॥१५|" * चतुर्थे अणुव्रते, नित्यं सदा, परे आत्मव्यतिरिक्ताः, तेषां दाराः परिणीतसंगृहीतभेदभिन्नानिकलत्राणि तेषुगमनमासेवनं तस्य विरतेरि-- त्यादि प्राग्वत् // 15 // अस्यातिचारप्रतिक्रमणायाऽऽह"अपरिग्गहिआ इत्तर, अणंग वीवाह तिव्वअणुरागे। चउत्थवयस्सऽइयारे, पडिक्कमे देसिअंसव्वं // 16 // " अपरिगृहीता विधवा, तस्यां गमनमपरिगृहीतागमनम् ।(इत्तर त्ति) इत्वरमल्पकाल भाटीप्रदानतः केनाचित् स्ववशीकृता वेश्या, तस्यां गमनम् इत्वरपरिगृहीतागमनम्। (अणंग त्ति) अनङ्गः कामस्तत्प्रधाना क्रीडाऽधरदशनाऽऽलिङ्ग नाऽऽद्या, तां परदारेषु कुर्वतोऽनङ्ग क्रीडा, वात्स्यायनाऽऽद्युक्तचतुरशीतिकरणासेवनं वा (वीवाह त्ति) परकीयापत्यानां स्नेहाऽऽदिना विवाहस्य करणं परविवाहकरणं स्वापत्येष्वपि संख्याऽभिग्रहो न्याय्यः 4, (तिव्वअणुरागे त्ति) कामभोगतीव्रानुरागःकामेषु शब्दाऽऽदिषु भोगेषु रसाऽऽदिषु, तीव्रानुरागोऽत्यन्तं तदध्यवसायः 5, स्वदारसन्तोषिणश्च त्रय एवान्त्या अतिचाराः, आद्यौ तु भङ्गावेव, स्त्रिया अपि तथैव, यद्वाऽतिक्रमाऽऽदिभिरतिचारता अवसेया, एतानाश्रित्य। यद् बद्धमित्यादि प्राग्वत् / / 16 / / पञ्चमाणुव्रतमाह"इत्तो अणुव्वर पं-चमम्मि आयरियमप्पसत्थम्मि। परिमाणपरिच्छेए, इत्थ पमाणप्पसंगणं // 17 // " इतस्तुर्यव्रतानन्तर, धनधान्याऽऽदिनवविधपरिग्रहप्रमाणलक्षणे पञ्चमे अणुव्रते यदाचरितमप्रशस्ते भावे सति, क्व विषये? परिमाणपरिच्छेदे परिग्रहप्रत्याख्यानकालगृहीतप्रमाणोलने / अत्रेत्यादि प्राग्वत्॥१७॥ अस्यातिचारप्रतिक्रमणायाऽऽह“वणवनखित्तवत्थु, रुप्पसुवन्ने य कुवियपरिमाणे। दुपए चउप्पयम्मी, पडिक्कमे देसिअंसव्वं // 18 // " धनम्-गणिमाऽऽदि (ध०) धान्यं व्रीह्यादि (ध०) क्षेत्रम्सेतुकेतूभयाऽऽत्मकम्। (ध०) रूप्यम्, रजतम्। सुवर्णम्-कनकम् (ध०) कुपितं स्थालकचोलाऽऽदि (ध०) द्विपदम्-गन्त्रीदास्यादि / चतुष्पदम्गवाश्यादि (ध०) शेषं प्राग्वत्॥१८॥ साम्प्रतं वीणि गुणव्रतानि, तत्राऽऽद्यप्रतिक्रमणायाऽऽह"गमणस्स य परिमाणे, दिसासु उड्ढे अहे अतिरिअंच। वुड्डिसइअंतरद्धा, पढमम्मि गुणव्यए निंदे // 16 // " अत्र गमनस्य च परिमाणे गतेरियत्ताकरणे, चशब्दाद्यदतिक्रान्तं, क्व विषये? दिक्षु, तदेवाऽऽह- (उड्ढे ति ] ऊर्ध्वम् [ध०] एवमधस्तिर्यगदिशोः [ध० बुद्दित्ति क्षेत्रवृद्धिः,कोऽर्थः? सर्वासु दिक्षु [ध०] |सइअंतरद्धत्ति| स्मृत्यन्तर्धा, स्मृतभ्रंश इत्यर्थः। [ध०] प्रथमे [ध०] गुणाय व्रत तस्मिन् यदतिचरितमित्यादि प्राग्वत्।।१६।। साम्प्रतं द्वितीयं गुणव्रतम् / तच द्विधा-भोगतः, कर्मतश्च / भोगोऽपि द्विधा-उपभोग-परिभोगभेदात् / तत्र उप इति सकृत् भोग आहारमाल्याऽऽदेरासेवनमुपभोगः, परीत्यसकृद्धोगो भवनाङ्गनाऽऽदीनामासेवनं परिभोगः / तत्र गाथामाह"मज्जम्मिय मंसम्मिय, पुप्फे य फले य गंध मल्ले य। उवभोगपरीभोगे, बीयम्मि गुणव्वए निंदे // 20 // " श्रावकेण तावदुत्सर्गतः प्रासुकैषणीयाऽऽहारिणा भाव्यम्, असति सचित्तपरिहारिणा, तदसति बहुसावद्यमद्याऽऽदीन् वर्जियत्वा प्रत्येकमिश्राऽऽदीनां कृतप्रमाणेन भवितव्यं, तत्र मद्यम्-मदिरा, मांसम्-पिशितं, चशब्दाच्छेषाभक्ष्यद्रव्याणामनन्तकायाऽऽदीनां च ग्रहः / तानि च प्रागुक्तानि पञ्चोदुम्बर्यादीनि, पुष्पाणिकरीरमधुकाऽऽदिकुसुमानि, चशब्दात्त्रससंसक्तपत्राऽऽदिपरिग्रहः / फलानि-जम्बूबिल्वादीनि, एषु च मद्याऽऽदिषु राजव्यापाराऽऽदौ वर्तमानेन यत्किञ्चित्क्रायणाऽऽदि कृतं तस्मिन्, एतैरन्तर्भागः सूचितः, बहिस्त्वयम् [ गंध मल्ले त्ति | गन्धाःवासाः, माल्या-नि-पुष्पसजः, अत्रोपलक्षणत्वाच्छेषभोग्यवस्तुपरिग्रहः / तस्मिन्नुक्तरूपे, 'उपभोगपरिभोगे' 'भीमो भीमसेन' इति न्यायादुपभोगपरिभोगपरिमाणाऽऽख्ये 'द्वितीये गुणवते' अनाभोगाऽऽदिनायदतिक्रान्तं, तन्निन्दामि // 20 // अत्र भोगतोऽतिचारप्रतिक्रमणायाऽऽह"सच्चित्ते पडिबद्धे, अप्पोल दुप्पोलिएय आहारे। तुच्छोसहिभक्खणया, पडिक्कमे देसियं सव्वं // 21 // " कृत सचित्तप्रत्याख्यानस्य, कृततत्परिमाणस्य वा सचित्तमत्तिरिक्तमनाभोगादिनाऽभ्यवहरतः सचित्ताऽऽहारोऽतिचारः 1, एवं वृक्षस्थं गुन्दाऽऽदि राजादनाऽऽदि वा सास्थिकफलं मुखे प्रक्षिपतः सचित्तप्रतिबद्धाऽऽहारः२, एवमपक्कस्यान्निनाऽसंस्कृतस्यापरिणतकणिक्कादेः पिष्टस्य भक्षणमपक्कौषधिभक्षणता 3, एवं दुष्पक्कस्य पृथुकादेर्दृष्पकौषधिभक्षणता४ / तुच्छा अतृप्तिहेतुत्वादसारा, औषधिः कोमलमुगशिम्बाऽऽदिका, तां भक्षयतस्तुच्छौषधिभक्षणता 5, एतद्विषये "पडिक्कमे" इत्यादि प्राग्वत् 211 अत्र व्रते भोगोपभोगोत्पादकानि बहुसावधानि कर्मतोऽङ्गारकर्माऽsदीनि पञ्चदश कर्माऽऽदानानि तीव्रकर्मोपादानानि श्रावकेण ज्ञेयानि, न तु समाचरणीयान्यतस्तेषु यदनाभोगाऽऽदिनाऽऽचरितं तत्प्रतिक्रमणाय गाथाद्वयमाह "इंगालीवणसाडी-भाडीफोडीसु वजए कम्म। वाणिज्जं चेव यदं-तलक्खरसकेसविसविसयं // 22 // एवं खु जंतपीलण-कम्म निलंछणं च दवदाणं / सरदहतलायसोसं, असईपोसं च वञ्जिज्जा // 23 // " कर्मशब्दः पूर्वार्ध प्रत्येकं योज्यः, तेनाऽङ्गारकर्म, वनकर्म, शकटकर्म, भाटककर्म, स्फोटकर्म चेति पा कर्माणि / (ध०)