________________ पडिक्कमण 312 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण "वह १बंध 2 छविच्छेए ३,अइभारे 4 भत्तपाण-वोच्छेए५॥ मिथ्यादृष्टिदेवकुलाऽऽदावूर्ध्वस्थाने, चक्रमणे च तत्रैवेतस्ततः परिष्वष्कणे, वसतीत्याह-अनाभोगे अनुपयोगे, अभियोगे राजाभियोगाऽऽदिके, नियोगे श्रेष्ठिपदाऽऽदिरूपे, शेषं पूर्ववत्।। __ साम्प्रतं सम्यक्त्वातिचारप्रतिक्रमणायाऽऽह"संका 1 कंख 2 विगिंछा 3, पसंस 4 तह संथवो कुलिंगीसु / सम्मत्तस्सऽझ्यारे, पडिक्कमे देसिअंसव्वं // 6 // " तत्र तावद्दर्शनमोहनीयकर्मोपशमाऽऽदिसमुत्थोऽर्हदुक्ततत्त्वश्रद्धानरूपःशुभ आत्मपरिणामः सम्यक्त्वं, तस्मिश्च सम्यक्त्वे श्रमणोपासकेन शङ्काऽऽदयः पञ्चातिचारा ज्ञातव्याः, न समाच-रितव्याः। ध०। इदानीं चारित्रातिचारप्रतिक्रमणमभिधित्सुः प्रथमं सामान्येनाऽऽरम्भनिन्दनार्थमाह"छकायसमारंभे,पयणे य पयावणे य जे दोसा। अत्तट्ठाय परट्ठा, उभयट्ठा चेव तं निंदे॥७॥" षट्कायानां-भूदकाग्निवायुवनस्पतित्रसरूपाणां, समारम्भे परितापने, तुलादण्डन्यायात् संरम्भाऽऽरम्भयोश्वसङ्कल्पापद्रावणलक्षणयोः, एतेषु सत्सु, ये दोषाः पापानि, न त्वतीचाराः, अनङ्गीकृते मालिन्याभावात्, व सति ? पचने च पाचने च, चशब्दादनुमतौ च / किमर्थमित्याहआत्मार्थं स्वभोगार्थ, परार्थं प्राघूर्णकाऽऽद्यर्थम्, उभयार्थं स्वपरार्थ चशब्दोऽनर्थकद्वेषाऽऽदिकृतदोषसूचकः, एवकारः प्रकारेयत्ताप्रदर्शकः। यद्वाआत्मार्थ मुग्धमतित्वात् साध्वर्थमशने कृते मम पुण्यं भविष्यति,एवं परार्थोभयार्थावपि। अथवा-षट्कायसमारम्भाऽऽदिष्वयत्रेनापरिशुद्धजलाऽऽदिना ये दोषाः कृतास्ताँश्च निन्दामीति / / 7 / / साम्प्रतं सामान्येन चारित्रातिचारप्रतिक्रमणायाऽऽह. "पंचण्हमणुवयाणं, गुणव्वयाणं च तिण्हमइयारे। सिक्खाणंच चउण्हं, पडिकमे देसि सव्वं // 8 // " कण्ठ्या, नवरम्, अनु सम्यक्त्वप्रतिपत्तेः पश्चात्, अणूनि वा महाव्रतापेक्षया लघूनि, व्रतानि अणुव्रतानि, तानिपञ्चेति मूलगुणाः, तेषामेव विशेषगुणकारकाणि दिव्रताऽऽदीनि त्रीणि गुणव्रतानि, एतानि यावत्कथितानि, शिक्षाव्रतानि पुनरित्वरकालिकानि, शिक्षकस्य विद्याग्रहणमिव पुनः पुनरभ्यसनीयानि चत्वारि सामायिकाऽऽदीति॥८॥ अधुना प्रथममाह"पढमे अणुव्वयम्मी, थूलगपाणाइवायविरईओ। आयरियअप्पसत्थे, इत्थ पमायप्पसंगणं // 6 // " प्रथमे सर्वव्रतानां सारत्वादादिमे, अणुव्रतेऽनन्तरोक्तस्वरूपे, स्थूलको | बाबैरुपलक्ष्यत्वाद्वादरो गत्यागत्यादिव्यक्तलिङ्गद्वित्रिचतुःपञ्चेन्द्रियजीवसंबन्धिनां प्राणानामिन्द्रियाऽऽदीनामस्थ्याद्यर्थमतिपातो विनाशस्तस्य विरतिर्निवृत्तिस्तस्याः सकाशादतिचरितमतिक्रान्तम्, एतच सर्वविरतिसंक्रमेऽपि स्यात्। न च तत्प्रतिक्रमणार्हमत आह-अप्रशस्ते क्रोधाऽऽदिनौदयिकभावे सति (इत्थं ति) अत्रैव प्राणातिपाते प्रमादप्रसङ्गेन, प्रमादो मद्याऽऽदिः पञ्चधा, तत्र प्रसञ्जनं प्रकर्षण प्रवर्तनं प्रसङ्ग स्तेन; एकग्रहणे तज्जातीयग्रहणादाकुट्याऽऽद्यैरपि, यद्वा-विरतिमाश्रित्य यदाचरितं वक्ष्यमाणवधबन्धाऽऽदिकमसाध्वनुष्ठितमिति // 6 // तदेवाऽऽह वधो द्विपदाऽऽदीनां निर्दयताडनं, बन्धो रज्ज्वादिभिः संयमनं, छविच्छेदः कर्णाऽऽदिच्छेदनम् अतिभारः शक्त्यनपेक्षं गुरुभाराऽऽरोपणं, भक्तपानव्यवच्छेदोऽन्नपाननिरोधः, सर्वत्र क्रोधादितिगम्यते। एताँश्च प्रथमव्रतातिचारानाश्रित्य यद्बद्धम्, शेषं प्राग्वत् / वधाऽऽदीनामतीचारता च प्रागतिचाराधिकारे भावितैव, अनाभोगातिक्रमाऽऽदिना वा सर्वत्रातिचारताऽवसेया / / 10 / / द्वितीयव्रतमाह"बीए अणुव्वयम्मी, परिथूलगअलियवयणविरईओ। आयरियमप्पसत्थे, इत्थपमायप्पसंगणं // 11 // " द्वितीये अणुव्रते, परीत्यतिशयेन स्थूलकमकीादिहेतुरली-कवचनं कन्यालीकाऽऽदि पञ्चधा / तेत्र द्वेषाऽऽदिभिरविषकन्यां विषकन्यामित्यादिवदतः कन्याऽलीकम् 1 एवमल्पक्षीरां बहुक्षीरांगामित्यादिवदतो गवालीकम् 2 / परसत्कां भूमिमात्मसत्कां वदतो भूम्यलीकम् / उपलक्षणानि चैतानि सर्वद्विपदच-तुष्पदापदालीकानां, न्यासस्य धनधान्याऽऽदिस्थापनिकाया हरणमपलापोन्यासापहारः 4 / अत्र पूर्वत्र चादत्ताऽऽदानत्वे सत्यपि वचनस्यैव प्राधान्यविवक्षणात् मृषावादत्वं, लभ्यदेयविषये प्रमाणीकृतस्योत्कोचमत्सराऽऽद्यभिभूतस्य कूटसाक्षिदानात् कूटसाक्षित्वम् / अनयोश्च द्विपदाऽऽद्यलीकान्तर्भावऽपिलोकेऽतिगर्हितत्वात्पृथगुपादानम् / एतस्य पञ्चविधाऽलीकस्य यद्वचनं भाषणं तस्य विरतेः, "आयरिए" इत्यादि प्राग्वत्॥११॥ अस्यातिचारप्रतिक्रमणायाऽऽह"सहसा रहस्सदारे, मोसुवएसे य कूडलेहे य। वीयवयस्सऽइयारे, पडिकमे देसियं सव्वं // 12 // " तत्र (सहस त्ति) सूचनात्सूत्रमिति सहसाऽनालोच्याभ्याख्यानमसदोषाधिरोपणं चौरोऽयमित्याद्यभिधानं सहसाऽभ्याख्यानम्?। रहस्येकान्ते मन्त्रयमाणान् वीक्ष्येदं चेदं च राजविरुद्धाऽऽदिकमेते मन्त्रयन्ते इत्याद्यभ्याख्यानं रहोऽभ्याख्यानम् सस्वदाराणां विश्रब्धभाषितस्यान्यस्मैकथनं स्वदारमन्त्रभेदः। ततोद्वन्द्वंकृत्वा तस्मिन् 31 अज्ञातमन्त्रीषधाऽऽद्युपदेशनं मृषोपदेशस्तस्मिन् 4, अन्यमुद्राऽक्षरविन्द्रादिना कूटस्यार्थस्य लेखनं कूटलेखस्तस्मिश्च, शेषं प्राग्वत्॥१२॥ इदानीं तृतीयव्रतमाह"तइए अणुष्वयम्मि,थूलगपरदव्वहरणविरईओ। आयरियमप्पसत्थे, इत्थपमायप्पसंगणं / / 13 // " तृतीये अणुव्रते स्थूलकं राजनिग्रहाऽऽदिहेतुः परद्रव्यहरणं, तस्य विरतिरित्यादि प्राग्वत्। अस्यातिचारप्रतिक्रमणायाऽऽह"तेनाहडप्पओगे, तप्पडिरूवे विरुद्धगमणे य। कूडतुलकूडमाणे, पडिकमे देसि सव्वं // 14 // " स्तेनाश्चैरास्तैराहृतं देशान्तरादानीतं किञ्चित्कुङ कुमाऽऽदि तत् समर्घमिति लोभाद्यत् काणकक्रयेण गृह्यते तत् स्तेनाऽऽहृतम्। (पओगि त्ति) सूचनात् तस्करप्रयोगः, तदेव कुर्वन्तिीति त