________________ पडिक्कमण 311 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण लोएंति, तओ सामाइयपुव्वगं पडिक्कमंति, तओ वंदणपुव्वयं खाति, तओ कयकिइकम्मा सामाइयपुव्वयं काउस्सग्गं करेंति, तत्थ चिंतेतिकम्मि नियोगे निउत्ता वयं गुरुहिं तो तारिसं तवं पव्वजामो जारिसेणं तरूप हाणी न भवइ / तओ चिंतेंति-छम्मासं खवणं करेमो न सकेमो , एगदिवसेणऊण तहाविन सक्केमो, एवं जाव एगूणतीसाएऊणं एवंपंचमासे, तओ चत्तारि। तओ तिन्नि, तओ दोन्नि, तओ एकं. तओ एगेण दिणेण मणं जाव चउदसहिं ऊणं न सक्केमो, तओ वत्तीसइमं / तीसइमं०जाव चलत्य, आयंबिलं एगट्टाणयं एक्कासणयं पुरिमड्ड निव्विगइयं पोरिसि नमोक्कारसहियं व त्ति / एवं जे समत्था तवं काउं तमसढभावा हियए करेंति, पच्छा ददित्ता गुरुसक्खियं पव्वजंति, सव्वे य नमोक्कारचिंतगा समग उर्दुति, वोरिसरावेंति, निसीयंति य। एवं पोरिसिमाइसु विभासा। तओ तिनं थुईओ जहा पुव्वं, नवरमप्पसगं देंति, जहा घरकोइलाई स्ता न उन्हेंलि। तओ देवे वंदेति, तओ बहुवेलं संदिसावेंति। तओ मुहणंतर्ग पडिलेहिता रयहरणं पडिलेहिति। पुणो ओहियं संदिसावेंति,पडिलेहिंत य, तओ वसहि पमन्जिय काल निवेदेति / अन्ने भणंति-थुइसमणंतरं कालं निवएंति एव च पडिक्कमणकालं तुलेंति, जहा पंडिक्क्मंताणं थुइअवसाणे चेव पडिलेहणवेला भवइ त्ति।" पा०। (27) श्रावकप्रतिक्रमणम्प्रतिक्रमण तु सामान्यत ईर्यापर्थिकीप्रतिक्रमणभणनेनैव सिद्धं, न च विचित्राभिग्रहवतां श्रावकाणां कथमेकेन प्रतिक्रमणसूत्रेण तदुपपद्यत इति वाच्यम् / प्रतिपन्नव्रतस्यातिचरणे प्रतिक्रमणं युक्तम्, अन्यस्य तु अश्रद्धानाऽऽदिविषयस्यैव प्रतिक्रमणसमाधानस्य सुलभत्वात् / ननु साधुप्रतिक्रपणाद्भिनं श्रावकप्रतिक्रमणसूत्रमयुक्तं, नियुक्तिभाष्यचूादिभिरतन्त्रितत्नानार्षत्वात् / नैवम् / आवश्यकाऽऽदिदशशास्त्रीध्यतिरेकेण निर्युक्तीनामभावेनौपपातिकाऽऽद्युपाङ्गानां च चूर्ण्यभावेनानार्थत्वप्रसङ्गात्, तत्प्रतिक्रमणमप्यस्ति तेषाम्। (ध०) तस्मात्साधुवच्छ्रावकेणापि श्रीसुधर्मस्वाम्यादिपरम्पराऽऽयातविधिना प्रतिक्रमणं कार्यमित्यलं प्रसङ्गेन ध०२ अधि०। (28) श्रावकप्रतिक्रमणविधिःश्रावकाप्रतिक्रमणस्येदानीमवसरः, तत्र कृतसामायिकेन प्रतिक्रमणमनुष्ठेयं, तस्य च सर्वातिचारविशोधकत्वेन विशिष्ट श्रेयोभूतत्वान्मङ्गलाऽऽदिविधानार्थ प्रथमगाथामाह"वंदित्तु सव्वसिद्धे,धम्मायरिए असव्वसाहू अ। इच्छामि पडिकमिउं, सावगधम्माइआरस्स // 1 // " वन्दित्वा नत्वा, सर्व वस्तु विदन्ति सर्वेभ्यो हितावेति सास्तिीर्थकृतः, सिद्ध्यन्ति स्म सर्वकर्मक्षयानिष्ठितार्था भवन्ति स्मेति सिद्धाः, सार्वाश्च सिद्धाश्च सार्वसिद्धास्तान्। तथा-धर्माऽऽचार्यान् श्रुतचारित्रधर्माऽऽचारसाधून, धर्मदातृन वा, चशब्दादुपाध्यायान् श्रुताध्यापकान् / तथासर्वसाधूश्व स्थविरकल्पिकाऽऽदिभेद-भिन्नान्मोक्षसाधकान् मुनीन्, चः समुचये। एवं च विधवातोपशान्तये कृतपञ्चनमस्कार इदमाह-(इच्छामि) अभिलषामि प्रतिक्रमितुं निवर्तितुं, कस्मादित्याह- श्रावकधर्मातिचाराद, जालावेकवचनं, पञ्चम्यर्थे षष्ठी, ततो ज्ञानाऽऽद्याचारपञ्चकस्य चतुर्विशशतसंख्याऽतिचारेभ्यः प्रतिक्रमितुमिच्छामि। इतिगाथार्थः / / 1 / / सामान्येन सर्वव्रतातिचारप्रतिक्रमणार्थमाह"जो मे वयाइओरा, नाणे तह दंसणे चरित्ते अ। सुहुमो य बायरो वा, तं निंदे तं च गरिहामि // 2 // " य इति सामान्येन, 'मे' मम सर्वव्रतातिचारोऽणुव्रताऽऽदिमालिन्यरूपः पासप्ततिसंख्यः संजात इति शेषः / तथा-ज्ञाने ज्ञानाऽऽचारे कालविनयाऽऽद्यष्टप्रकारे वितथाऽऽचरणरूपः / तथा-दर्शने सम्यक्त्वे शङ्काऽऽदीनां पञ्चनामासेवनाद्वारेण, निःशङ्किताऽऽद्यष्टविधेच दर्शनाऽऽचारे अनासेवनाद्वारेण, तथा-चारित्रे समितिगुप्तिलक्षणेऽनुपयोगरूपोऽतीचारः, चशब्दात्तपोवीर्याऽऽचारयोः संलेखनायां च / तत्र बाह्याऽऽभ्यन्तरभेदात्तपोद्वादशधा, वीर्य मनोवाकायैस्विधा, अतिचारता चानयोधर्म स्वशक्तिगोपनात्, संलेखनायास्तु पञ्चातिचारा : / एवं चतुर्विंशत्यधिशतसंख्यातिचारमध्ये यः सूक्ष्मो वाऽनुपलक्ष्यः, बादरो वा व्यक्तः, तं निन्दामि मनसा, पञ्चात्तापेन तं च गर्हे गुरुसमक्षमिति // 2 // प्रायोऽन्यव्रतातिचारा अपि परिग्रहात्प्रादुर्भवन्ति, अतः सामान्येन तत्प्रतिक्रमणायाऽऽह"दुविहे पारेग्गहम्मी, सावज्जे बहुविहे य आरम्भ। कारावणे अ करण, पडिक्कमे देसि सव्वं // 3 // " द्विविधे परिग्रहे सचित्ताचित्तरूपे, सावद्ये सपापे, बहुविधेऽनेक-प्रकारे, आरम्भे प्राणातिपातरूपे कारणेऽन्यैर्विधापने, करणे स्वयं निवर्तने, चशब्दात् क्वचिदनुमतावपि, यो मेऽतिचारस्तमित्यनुवर्तते, तं निरवशेष (देसिअंति) आर्षत्वादेवसिकम्, एवं रात्रिकपाक्षिकाऽऽद्यपि स्वस्वप्रतिक्रमणे, अशुभभावात्प्रातिकूल्येन क्रमामि प्रतिक्रमामि। निवर्तेऽहमित्यर्थः / उक्तं च- "स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशागतः। तत्रैव क्रमणं भूयः, प्रतिक्रमण-मुच्यते॥१॥" इति। अधुना ज्ञानातिचारनिन्दनायाऽऽह"जंबद्धमिदिएहिं, चउहिँ कसाएहिँ अप्पसत्थेहिं। रागेण व दोसेण व, तं निंदे तं च गरिहामि // // " यद्वद्धं यत् कृतमशुभं कर्म, प्रस्तावाद्विरतिनिबन्धकाप्रशस्तेन्द्रियकषायवशगानां ज्ञानातिचारभूतम्। यदुक्तम् -"तद् ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः / तमसः कुतोऽस्ति शक्ति दिनकरकिरणाग्रतः स्थातुम्॥१॥" इन्द्रियैः स्पर्शनेन्द्रियाऽऽदिभिः स्पर्शाऽऽदिविषयसंबद्धसंभूतसाधु-सौदासराजघ्राण-प्रियकुमार-मथुरावणिकसुभद्राश्रेष्ठिन्यादिवत् / तथा-चतुर्भिः कषायैः क्रोधाऽऽदिभिरप्रशस्तैस्तीबौदयिकभावमुपगतैर्मण्डूक-क्षपक-परशुराम-धनश्री-मम्मणाऽऽदिवत्, रागेण दृष्टिरागाऽऽदिरूपेण गोविन्दवाचकोत्तराभ्याभिव, द्वेषेणाप्रीतिरूपेण गोष्ठामहिलाऽऽदिवत्, वा शब्दौ विकल्पार्थो (तं निंदे) इत्यादि प्राग्वत् // 4 // साम्प्रतं सम्यग्दर्शनस्य, चक्षुर्दर्शनस्य च प्रतिक्रमणायाऽऽह"आगमणे निग्गमणे, ठाणे चंकमणे अणाभोगे। अमिओगे अनियोगे, पडिक्कमे देसि सव्वं / / 5 / / " आगमने मिथ्यादृष्टि रथयात्राऽऽदेः संदर्शनार्थं कुतूहलेनाऽ5समन्ताद्गमने, निर्गमने च, यद्वद्धमित्यनुवर्तते / तथा- स्थाने