________________ पडिक्कमण 307 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण अदक्तव्यता 'उवासगदसा' शब्दे द्वितीयभागे 2064 पृष्ठ विस्तरतोगता] (अंतगडदसाओ त्ति] अन्तो विनाशः, स च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्ते अन्त कृतास्ते च तीर्थकराऽऽदयस्तेषां दशाः प्रथमवर्ग दशाध्ययनानीति तत्स-ख्ययोपलक्षिता अन्तकृदशा इति / अन्तकृद्दशाव्याख्या, तद्वक्तव्यता च 'अंतगडदसा' शब्दे प्रथमभागे 61 पृष्ठेदर्शिता] [अणुत्तरोववाइयदसाओ त्ति] उत्तरः प्रधानो नास्योत्तरो विद्यत इत्यनुतरः, उपपतनमुपपातो, जन्मेत्यर्थः, अनुत्तरश्वासावुपपातथेत्यनुत्तरपपातः, सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिद्धिविमानपञ्चकोपपातिन इत्यर्थः, तद्वक्तव्यताप्रतिबद्धा दशा दशाध्ययनोपल्लक्षिता अनुत्तरोपपातिकदशा इति। [अनुत्तरोपपातिकदशाविचारः' अजुत्तरोववाइय' शब्दे प्रथमभागे 383 पृष्ठे वर्णितः] [पण्हावागरणं त्ति ] प्रश्नाश्व पृष्ठः, व्याकरणानिच निर्वचनानि, समाहारत्वात्प्रश्नव्याकरणं, तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणमिति। [प्रश्नव्याकरणस्वरूपविवरणम् ‘पण्हावागरण' शब्दे दर्शयिष्यते] [विवागसुयं ति ] विपचनं विपाकः, शुभाशुभकर्मपरिणाम इत्यर्थः तत्प्रतिपादकं श्रुतं विपाकश्रुतम् (विणकश्रुतवक्तव्यता विवागसुय' शब्दे दर्शयिष्यत] पदिठिवाओ त्ति ब दृष्ट्यो दर्शनानि,वदनं वादेः, दृष्टी नां वादो दृष्टिवादः, दृष्टीनां वा पातो यनासौ दृष्टिपातः, सर्वनयदृष्टयो यत्राऽऽख्यायन्तेसमवतरन्तिचेति भावः। [सर्वाऽपि दृष्टिवादविषयः 'दिट्टिवाय' शब्दे चतुर्थभागे 2513 पृष्ठादारभ्य दर्शितः इत्युतकीर्तित सामान्यतोऽङ्गप्रविष्टश्रुतम्। [अङ्गप्रविष्टश्रुतविषये चूर्णिः अंगपदिट्ट' शब्दे प्रथमभागे 38 पृष्ठे दर्शिता] साम्प्रतं श्रुतदातपालकेभ्यो नमस्कारम्, आत्मीयप्रमाद विषये मिथ्यादुष्कृतं चाऽऽहनमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंगं गणिपिडगं भगवंतं, सम्मं कारण फासंति, पालंति, पूरंति, तीरंति, किट्टति, सम्म आणाए आराहंति, अहंच नाराहेमि, तस्स मिच्छा मि दुबडं। (नमा) नमस्कारोऽस्तु, तेभ्यः क्षमाश्रमणेभ्यः क्षमाऽऽदिगुणगणप्रधानमहामुनिभ्यः स्वगुरुभ्यः तीर्थकरगणधराऽऽदिभ्यो वेति भावः, यैरिदं प्रागुक्त वाचित प्रदत्त, परिभाषित वा सूत्रार्थतः प्रणीतमित्यर्थः, द्वादशाङ्गं द्वादशानामङ्गानां समाहारो द्वादशाङ्गम्। पद्वादशाङ्गथाः नित्यत्वम् ' बारसंगी ' शब्दे दर्शयिष्यतेब किंविशिष्टमित्याह- (गणिपिडगं ति) गुणगणः साधुगणो वास्याऽस्तीति गणी आचार्यः, तस्य पि टकमिव रत्नाऽऽदिककरण्डक इव पिटकं गणिपिटकं, सर्वार्थसारकोशभूतमित्यर्थः / पुनरपि किंविशिष्टम् - (भयवंतं ति) भगःसमग्रैश्वर्याऽऽदिलक्षणः यदुवत्तम्- "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णा भग इतीङ्गना / / 1 / / " इङ्गना नाम, सा विद्यते यस्य तद्भगवत, तत्रेह समगैश्वर्यं सातिशयाभिधेयविभूतिः / यदवाचि"सव्वनईणं जा होजवालुया सव्वउदहिजं सलिलं / एत्तो वि अणंतगुणो अत्थो एगस्स सुत्तस्स // 1 // " रूपंच निर्दोषत्वसारवत्त्वहेतुयुक्तत्वालड्कृतत्वाऽऽदिगुणगणसंपाद्यं यशश्च विश्वव्यापिनी कीर्तिः श्रीश्च कमनीयता | श्रुतिहृदयाऽऽनन्ददायितेत्यर्थः, धर्मश्चाभिधेयत्वेन सर्वोपाधिविशुद्धोऽहिंसाऽऽदिकः, प्रयत्नश्चाभिधेयतया सर्वप्रमादवर्जनरूप उद्यमः, अथवा-प्रयत्नो महात्म्य, प्रभावः सामर्थ्यामिति यावत्। सुप्रसिद्धचैतदागमस्वरूपवेदिनामिति / ये चेदं सम्यगवैपरीत्येन कायेन कायप्रवृत्त्या मनोमात्रेणेत्यर्थः, स्पृशन्ति ग्रहणकाले विधिना गृह्णन्ति, पालयन्ति पुनः पुनरभ्यासकरणेन रक्षन्ति, पूरयन्ति मात्राविन्द्वक्षराऽऽदिभिरध्येतृदोषादपरिपूर्ण परिपूर्ण कुर्वन्ति तीरयन्ति अविस्मृतं जन्मपारं नयन्ति, कीर्तयन्ति स्वनामभिः स्वाध्यायकरणतो वा संशब्दयन्ति, सम्यगाज्ञया आराधयन्ति सम्यग्यथावत् आज्ञया तदुक्तार्थरूपया गुरुनियोगात्मिकया वा आराधयन्ति तदुक्तक्रियाकरणतः फलदं कुर्वन्तीत्यर्थः, तेभ्योऽपि नम इति प्रक्रमः / (अहं च नाराहेमि) यच्चाहं नाराध्यामि प्रमादतो नानुपालयामि, (तस्स त्ति) षष्ठीसप्तम्योरभेदात्तस्मिन्नाराधनविषये (मिच्छा मिदुक्कडं ति) मिथ्या मे दुष्कृतमिति स्वदुश्चरितानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति परिभाषितं वाक्यं प्रयच्छामीत्यर्थः। साम्प्रतं प्रस्तुतसूत्रपरिसमाप्तौ श्रुतदेवतां विज्ञपयितुमाहसुयदेवया भगवई, नाणावरणीयकम्मसंघायं / तेसिं खवेउ सययं,जेसिं सुयसायरे भत्ती / / 1 / / श्रुतमर्हत्प्रवचनं, श्रुताधिष्ठात्री देवता श्रुतदेवता, संभवति च श्रुताधिष्ठातृदेवता / यदुक्तं कल्पभाष्ये- "सव्यं च लक्खणोवेयं, समहिट्ठति देवता / सुत्तं च लक्खणोवेयं, जेण सव्वणणुभासियं / / 1 / / " इति। भगवती पूज्या, ज्ञानाऽऽवरणीय कर्मासातंज्ञानाऽऽशातनाया उद्भूतं [ज्ञानघ्नं कर्मनिवहं तेषां प्राणिनां, क्षपयतु क्षयं नयतु, सततमनवरतं, येषां किमित्याह-श्रुतमेवाति-गम्भीरतया अतिशयरत्नप्रचुरतया च सागरः समुद्रः श्रुतसागरस्तस्मिन् भक्तिर्बहुमानो विनयश्च, समस्तीति गम्यते। ननु श्रुतरूपदेवताया उक्तरूप विज्ञापना युक्ता, श्रुतभक्तेः कर्मक्षयकारणत्वेन सुप्रतीतत्वात्, श्रुताधिष्ठातृदेवतायास्तु व्यन्तराऽऽदिप्रकाराया न युक्ता, तस्याः परकर्मक्षयेऽसमर्थत्वादिति। तन्न। श्रुताधिष्ठातृदेवतागोचरशुभप्रणिधानस्यापि स्मर्तुः कर्मक्षयहेतुत्वेनाभिहितत्वात्। यदुक्तम्- "सुयदेवयाएँ जीएसंभरणं कम्मखयकरं भणिय। नत्थि त्ति अकज्जकरी व, एवमासायणा तीए।।१।। इति। किञ्च-इहेदमव व्याख्यान कर्तुमुचितं येषां सततं श्रुतसागरे भक्तिस्तेषां श्रुताधिष्ठातृदेवता ज्ञानाऽऽवरणीयकर्मससातं क्षपयत्विति वाक्यार्थोपपत्तेः, व्याख्यानान्तरेतु श्रुतरूपदेवता श्रुते भक्तिमतां कर्म क्षपयत्विति सम्यन्नोपपद्यते, श्रुतस्तुतेः प्राग्बहुशोऽभिहितत्वाचेति / ततः स्थितमिदमहत्पा-क्षिकी श्रुतदेवतेह गृह्यते इति। पा०। (26) साम्प्रतं शेषप्रतिक्रमणविधिरुच्यते- 'तओ उद्धट्ठियपक्खपडिक्कमणसुत्तकित्तणावसाणे विहिणा निसिइत्ता करेमि भंते! सामाइयं' इत्यादि सव्वं निविठ्ठपडिक्कमणं कट्टित्ता उद्घट्टिया तस्स धम्मस्सऽब्भुडिओ मिति एयमाइयं वदामि जिणे चउव्वीसं ति' आलावगपज्जवसाणं सुत्तं कहूंति कड्डिएय'करेमि भंते! सामाइयं इचाइ काउस्सग्गदंडगुच्चा