________________ पइदिणकिरिया 7- अभिधानराजेन्द्रः - भाग 5 पइदिणकिरिया वमो तह यतस्सेव / 1 / / ' इत्यादि। तथा धर्माऽऽचार्ये बोधिलाभहेतुभूते गुरौ, दुष्करपत्युपकारोऽसावित्यादिरूपश्चित्तन्यासो विधेयः / यथोक्तम् - "सम्मत्तदायमाण, दुप्पडियारं भवेसुबहुएसु। सव्वगुणमोलियाहि वि. / उक्यारसहरसकोडीहिं।।१।।" चशब्दः समुचये। तथोद्यतानां प्रयत्नवत्साधूनाम्, उद्यतो वा प्रयत्नवान् विहारो मासकल्पाऽऽदिचर्या उद्यतविहारः, तत्रा यथोक्तम् - "अनिएयवासो समुदाणचरिया, अन्नाय उंछ पइरिक्कया या अप्पोवहीं कलहविवजणा य, विहारचरिया इसिण पसत्था / / 1 / / " आत्मगले चोद्यते विहारे यथा “कइया होही सो वा-सरो उ / गीयस्थगुरु-समीवम्मि। सव्वविरय पवजिय, विहरिस्सामी अहं जम्मि 1.1 // " धर्माऽऽचार्य विशेषणं वो द्यतविहार इति / एवं चित्तविन्यास फ्लनिर्देशद्वारेण निगमथन्नाह-एवमनन्तरोक्तप्रकारं सूक्ष्मपदार्थाऽऽदिकं वस्त्वादियेपामात्मप्रगादनिन्दाऽऽदीनां त एवमादयः, तेषु, चित्तविन्यासो मनोनिक्षेप एवमादिचित्तन्यासः। अथवैवमादिरनन्तरोक्तसूक्ष्मपदार्थचित्तविन्यासप्रभृतिकः, स चासो चित्तन्यासश्चेत्येवमादिचित्तन्यासः। किमित्याह- संवेगः संसारनिर्वेदो, मोक्षानुरागोवा, स एव रसायनममृतमजरामरत्व-हेतुत्वात्संवेगरसायन, तद्ददाति प्रयच्छति / एवं हि चित्तविन्यास संवेग उत्पद्यत इति गाथाऽर्थः॥४६॥ ततःगोसे भणिओ य विही, इय अणवरयं तु चेट्ठमा णस्स / भवविरहबियभूओ, जायइ चारित्तपरिणामो // 50 / / (गोसे ) प्रत्युषसि / भणितः, चशब्दस्येवकारार्थत्वादणित एव प्राक् प्रतिपादित एव विधिः श्रावकानुष्ठानम् "नवकारेण विबाहो'' इत्यादिरूपः; अतः पुनरपि नोच्यत इति हृदयम् / एवं च प्रतिपादितानुष्ठान फलप्रदर्शनद्वारेण निगमयन्नाहइति प्राक्तनप्रकारेण नमस्कारविबोधाऽऽदिना, अनवरतं सततम् / तुशब्दः पुनःशब्दार्थ :, एवकारार्थो वा। चेष्टमानस्य प्रदर्शितानुष्ठानं विदधतः, श्रावकस्येति गम्यम् / किम् ? भवविरहः संसारवियोगस्तस्य बीजभूतो बीजकल्पो, हेतुरित्यर्थ, ससारविरहबीजभूतः, जायते संपद्यते, चारित्रपरिणामः सर्वविरतिपरिणतिः। एवं हि देशविरतिमभ्यस्यत उपायप्रवृत्तेरवश्य भवविरहवीजभूतश्चारित्रपरिणामः, तत्राऽन्यत्र वा भवेदिति हृदयम्। इह च विरह इति सिताम्बरश्रीहरिभद्राऽऽचार्यस्य कृतेरङ्ग इति गाथार्थः / पञ्चा०१ विव० / (साधोरतु दिनचर्या पोरिसी' शब्दे वक्ष्यते) रत्तिं पि चउरो भागे, कुजा भिक्खू वयिक्खणे / तत उत्तरगुणं कुजा, राइभागेसु चउसु वि।।१७।। पढमपोरिसि सज्झायं, विइए झाणं झियायइ / तइयाए निद्दमोक्खं तु, चउत्थी भुजो वि सज्झायं // 18 // स्पष्टमेय, नवर रात्रिमपि, न केवल दिनमित्यपिशब्दार्थः / द्वितीया पौरुषी ध्वावव इति ध्यानं सूक्ष्मसूत्रार्थलक्षणं क्षितिवलयद्वीपसागरभवनाऽऽदि वा / (झियायइत्ति ) ध्यायेचिन्तयेत्। तृतीयायां निद्रामोक्षःपूर्व निरुद्वाया मुत्कलना निद्रामोक्षः, स्याप इत्यर्थः। तं कुर्यादिति सर्वत्र प्रक्रमाद्योज्यम्। वृषभापेक्षं चैतत्, सामास्त्येन तुप्रथमचरमप्रहरजाग रणमेव। तथा चाऽऽगमः "सव्वे विपढमजामे, दोन्नि उ वसभाण आइमा जामा। तइओ होइ गुरूण, चउत्थओ होइ सव्वेसि / / 1 // ' शयनविधिश्वायम् - ''बहुपडिपुन्नाए पोरिसीए गुरुसगास गंतूण भण्णइइच्छामि खमासगुणो ! वंदिउं जावणिजाए निसीहिआए मत्थएण वंदामि बहुपडिपुण्णा पोरिसी, अणुजाणहराइयं संथारय। ताहे पढभ काइयभूमि वचंति / ताहे जत्थ संथारभूमी तत्थ वचंति / ताहे उवहिम्मि उवआग करेत्ता पमन्जित्ता उवहीए दोरयं छोडति, ताहे संथारपट्टयं उत्तरपट्टयु च पडिलेहिता दो वि एगत्थ लायित्ता उरुमि ठवति / ताहे सथारभूमि पमज्जति / ताहे संथारय अत्थरंति सउत्तरपदृयं, तत्थ य लगाए मुहपोत्तियाए उवरिम कायं मजति, हेट्ठिल रयहरणेणं, कप्पे य वामपासे ठावंति, पुणो संथारं चडित्ता भणति जेडजाईपुरतोचिटुंताणं अणुजाणिज्जह, पुणो सामाइयं तिन्नि वारे कड्डिऊण सुय रिवंती सुप्तानां चायं विधिः "अणुजाणह संथारं, बाहुवहाणेणं वामपासेण। पायपसारणकुक्कुडिअतरतो पमज्जए भूमिं / / 1 / / संकोए संडास, उव्वदृतीऍ कायपडिलेहा। दव्वादी उवओग, उस्सासनिरंभणा लोयं / / " इति सूत्र गाथार्थः। संप्रति रात्रिभागचतुष्टयपरिज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाहजं णेइ जया रत्तिं , नक्खत्तं तम्मि णहचउभागे। संपत्ते विरमेजा, सज्झाय पओसकालम्मि॥१६॥ तम्मेवय नक्खत्ते, गयणे चउभागसावसेसम्मि। वेरत्तियं पि कालं, पडिलेहित्ता मुणी कुजा / / 20 / / यद् नयति प्रापयति, परिसमाप्तिमिति गम्यते / यदा रात्रि नक्षत्र, तस्मिन्नभश्चतुर्थभागे संप्राप्ते विरमेन्निवर्त्तत। (सज्झाय त्ति) स्वाध्यायात् प्रदोषकाले रजनीमुखसमये, प्रारब्धादिति शेषः / तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते / वेत्याह-(गयण त्ति) गगने, कीदृशि? चतुर्भागण गम्यते सावशेषं सोद्वरितं चतुर्भागसावशेष, तस्मिन्, वैरात्रिकं तृतीयम्, अपिशब्दात्रिजनिजसमये प्रादोषकाऽऽदि च काल (पडिलेहित्तु त्ति) प्रत्युपेक्ष्य प्रतिजागर्य, मुनिः कुर्यात् / करोतेः सर्वधात्वर्थाद् गृह्णीयात्। इह च काकोपलक्षणद्वारेण प्रथमाऽऽदिषु नभश्चतुभांगेषु संप्राप्ते नेतरि नक्षत्रे रात्रे : प्रथमाऽऽदयः प्रहराऽऽदय इत्युक्तं भवतीति सूत्रद्वयार्थः / / 20 / / इत्थं सामान्येन दिनरजनिकृत्यमुपदर्य पुनर्विशेषतस्तदेव दर्शयस्तावद्दिनकृत्यमाहपुविल्लम्मि चउब्भागे, पडिलेहित्ताण भंडयं / गुरुं वंदित्तु सज्झायं, कुज्जा मिक्खू वियक्खणे // 21 // पोरिसीए चउन्भागे, वंदित्ताणं तओ गुरुं। अपडिक्कमित्तु कालस्स, भाणं तु पडिलेहए / / 22 / / सूत्राणि सप्तदश सार्धानि, तत्र सूत्रद्वयं व्याख्यातप्रायमेव, नवरं पूर्वस्मिन् चतुर्थभागे प्रथमपौरुषीलक्षणे, प्रक्रमाद्दिनस्य; प्रत्युपेक्ष्य भण्डकं प्राग्वद् वर्षाकल्पाऽऽद्युपधिम्, आदित्योदयसमय इति शेषः / द्वितीयसूत्रे च पौरुष्याश्चतुर्थभागे, विशिष्यमाण इतिगम्यते। तातेऽयमर्थः- पादोनपौरुष्या भाजन प्रति लेखयेदिति संबन्धः। स्वाध्यायादुपरतश्चेत् कालस्य प्रतिक्र