________________ पइदिणकिरिया 6- अभिधानराजेन्द्रः - भाग 5 पइदिणकिरिया ताव तत्थ अणुण्णायं, कारणेण परेण वि॥३॥" इत्यल प्रसंड्गेन / ततो विकाले सत्कारोऽर्हचैत्यानां पूजा, वन्दनाऽऽदि च: वन्दना प्रसिद्धाऽर्हचैत्यानामेवा आदिशब्दाच्चैत्यसंबन्धितत्कालोचितकृत्यान्तरं ग्राहां, साध्यालयगमनं,तद्वन्दनाऽऽदिवा, भूमिकौचित्येन षड्विधाऽऽवश्यकमवश्यं विधेयमिति सर्वत्र गम्यम् / चशब्दः समुच्चये। पञ्चा०१ विव०। जइविस्सामणमुचिओ, जोगो नवकारचिंतणाईओ। गिहगमणं विहिसयणं, सरणं गुरुदेवयाईणं / / 45|| यतीनां साधूना वैयावृत्याऽऽदिभिः श्रान्तानां पुष्टाऽऽलम्बनेन तथा / विधश्रावकाऽऽदेरपि देहखेदापनोदमिच्छता विश्रमणं खेदविनोदनं यतिविश्रमण, करणीयमिति गम्यते। एवं सर्वत्रोचितक्रियाऽध्याहार:कार्यः / प्राकृतत्वाच विश्राम्यतेरुपान्त्यदीर्घत्वम्, यदा-विश्राम्यतः करणमिति शतृडन्तस्य फारिते घुटि च विश्रामणमिति भवति / तथोचितः स्वभमिकायोग्यो योगो व्यापारः। तमेवाऽऽह-नमस्कारचिन्तनाऽऽदिकः परमेष्टिपञ्चकनमस्कृतिध्यानप्रभृतिकः। आदिशब्दात् परिपठितप्रकरणगुणनाऽऽदि परिग्रहः / ततो गृहगमनं निजवेश्मगभः / तत्र च विधिशयन विधिना शयनक्रिया। विधिश्च जिनार्चमवन्दनविशेषप्रत्याख्यानकरणाऽऽदिः। तमेव विशेषेणाऽऽह-स्मरण मनसि धारणम्, उपलक्षणत्वादस्य गुणवर्णनाऽऽदिच; गुरुदेवताऽऽदीनां धर्माऽऽचार्यजिननायकप्रभृतीनाम। आदिशब्दात्तदन्येषां च धर्मोपकारकाणां प्रत्याख्यानाऽऽदीनामिति गाथाऽर्थः / / 4 / / तत्रचअव्वंभे पुण विरई, मोहदुगुंछा सतत्तचिंताय / इत्यीकलेवराणं, तविरएसुं च बहुमाणो // 46 // अब्रहाणि स्त्रीपरिभोगलक्षणे, पुनःशब्दो विशेषणे / तद्भाधवा चैवम् - गुर्वादिषु स्मरणं कर्त्तव्यम्, अब्रहाणि पुनर्विरतिनिवृत्तिः कार्या / तथा मोहजुगुप्सा स्त्रीपरिभोगहेतुवेदाऽऽदिमोहनीयनिन्दा / यथा-'यलजनीयमतिगोप्यमदर्शनीयं, वीभत्समुल्वणमलाऽऽविलपूतिगन्धि / तद्याचतेऽङ्ग मिह कामिकृगिस्तदेवं, कंवा दुनोति नमनाभववागताहा? 11 / / " इत्यादि। तथा स्वतत्त्वचिन्ता स्वरूपचिन्तन, कपा? स्त्रीकलेवराणां योषिवेहानाम् / यथा-"शुक्रशोणितसंभूतं, नवच्छिन मलोल्यणम् / अस्थिशृङ्खलिकामात्र, हंत योषिचछरीरकम् // 1 // " तद्विरतेष्वब्रहानिवृत्तेषु मुनिधु! चशब्दः समुच्चये। बहुमानोऽन्तरङ्गप्रीतिरूपो विधेयः / यथा- "धन्यारते वन्दनीयास्ते, तैस्त्रैलोक्यं पवित्रितम / यरेष भुवनक्लेशी, काममल्लो निपातितः॥१॥" इत्यादीतिगाथाऽर्थः / / 46|| तथासुत्तविउद्धस्स पुणो, सुहुमपयत्थेसु चित्तविण्णासो। भवठिइण्णिरूवणे वा, अहिगरणोवसमचित्ते वा / / 47 / / सुप्तविबुद्धस्य निद्राऽपगमेन जाग्रतः श्रावकस्य, पुनःशब्दः पूर्ववाक्याथपिक्षयोत्तरवाक्यार्थस्य विलक्षणताद्योतकः, सूक्ष्मपदार्थेषु अरथूलवस्तुषु कर्माऽऽत्मपरिणामाऽऽदिषु, चित्तविन्यासो मानसाऽऽवेशनं, करणीयमिति गम्यते / भवस्थितिनिरूपणे संसाररयरूपपर्यालोचने, चित्तविन्यास इति प्रकृतम् / यथोक्तम्- "रड्डो राजा नृपो रक्षा, स्वसा जाया जनी स्वसा। दुःखी सुखी सुखी दुःखी, यत्राऽसौ निर्गुणो भवः / / 1 / / " | वाशब्दो विकल्पार्थः / अधिकरणानि कलहाः, कृष्याऽऽदीनि वा, तेषामुपशमाय निवर्तनाय यचित्तं मानसं तत्तथा, तत्राधि-करणोपशमचित्ते कथंकदा वा मेऽधिकरणोपशमचित्तं भविष्यतीत्येवं चित्तविन्यासः कार्य इति भावः / वाशब्दो विकल्पार्थः / इति गाथाऽर्थः।।४७। तथा - आउयपरिहाणीए, असमंजसचेट्ठियाण व विवागे। खणलाभदीवणाए, धम्मगुणेसुं च विविहेसु / / 48|| आयुःपरिहाणो प्रतिक्षणाऽऽयुष्कक्षयलक्षणायां, चित्तविन्यास इति प्रतिपद योज्यम्। अत्र चोक्तम् - "समस्तसत्त्वसताना, क्षयत्यायुरनुक्षणम् / आगमल्लकवारीव, किं तथाऽपि प्रमाद्यसि ?||1||' इत्यादि। असमवसचेष्टितानामसदाचारितानां प्राणिवधाऽऽदीनाम्। वाशब्दो विकल्पार्थः, विपाके नरकाऽऽद्यशुभफलदायकत्ये। यथा- "बहमारणाअब्भक्खाणदाणपरधणविलोवणाऽऽदीणं / सव्वजहण्णो उदा. दसगुणिओ एकसि कयास / / 1 // " इत्यादि। क्षणे कालविशेषे, स्तोककालेऽपीत्यर्थः, लाभोऽशुभाध्यवसायेन महतोऽशुभकर्मणः शुभाध्यवसायेन च महत इतरस्यार्जनं, तस्य दीपना प्रकाशना क्षणलाभदीपना, तस्याम् , यथा- "नरएसु सुरवरेसु य, जो बंधइ सागरोवमं एक / पलिओवभाण बंधइ, कोडिसहस्साण दिवसेणं / / 1 // " अथवाक्षणोऽवसरो मोक्षसाधनस्य, स च द्रव्याऽऽदिभेदाचतुर्विधः / नत्र द्रव्यतो मानुषत्वं, क्षेत्रत आर्यक्षेत्रं, कालतो दुःषमसुषमाऽऽदिः कालविशेषः, भावतो बोधिरिति / तस्य क्षणस्य यो लामो युगसमिलान्यायेनकष्टात्प्राप्तिः, तस्य या दीपना सा तथा, तस्याम्। यथोक्तम्-'माणुरससेतजाईकुलरूवाऽऽरोग्गआउयं बुद्धी। सवणोग्गहसद्धा संजमो यलोगम्मि दुलहाई॥१॥" अथवा-क्षणलाभश्च दीपज्ञातं, द्वीपज्ञात वा क्षणलाभदीपज्ञातं, क्षणलाभद्वीपज्ञातं वा / तत्र क्षणलाभज्ञातं प्राग्वदा दीपज्ञात पुनर्यथा-"अंधयारे महाघोरे, दीवो ताणं सरीरिणं। एवमण्णागतामिस्ते, भीसमम्मि जिणाऽऽनमो॥१॥" द्वीपज्ञातं तु-"दीवो तास सरीरीण, समुहे दुतरेजहा। धम्मो जिणिंदपणत्तो, तहा संसारसागरे।।।" तथाधर्मस्य श्रुतचारित्ररूपस्य, गुणा उपकाराः, फलानीति यावत, धर्मगुणाः, तेषु चशब्दः समुचये / विविधेषु च बहुविधेष्विहलोक परलोकाऽऽश्रितेषु। यथोक्तम्-''श्रुतिगग्य फलं तावत्, सधर्मस्य शिवाऽऽदिकम् / शमजन्यसौख्यरूपं तु. साक्षादेवानुभूयते॥१॥" तथा-"निर्जितमदमदनानां, वाकायमनोविकाररहितानाम् / विनिवृत्तपराशाना महेव मोक्षः सुविहितानाम् / / 115" अथवा-धर्मरूपा गुणा धर्मगुणाः क्षेमाऽऽदयस्तेषु विविधधर्मगुणानां कारणे स्वरूपे फले च, चित्तन्यास कार्य इति हृदयमिति गाथाऽर्थः / / 48 / / वाहगदोसविवक्खे, धम्मायरिए य उज्जयविहारे। एमाइचित्तणासो, संवेगरसायणं देइ||४६|| यैर्य दोषरर्थकामरागाऽऽदिभिः स धर्माधिकारी पुरषो बाध्यते कुशलानुष्ठानतश्च्याव्यते ते बाधकदोषाः, तेषां विपक्षः तत्प्रतिपक्षभावनास पो बाधक दोषविपक्षस्तत्र / यदुक्तम् - 'जो जेणं वाहिअति, दोसेणं चेयणाइविसएणं / सो खलु तस्ल विवक्ख, तव्विसयं चे व झाइना / / 1 / / " चेतन चात्र द्रव्यम् / 'अत्थम्भि रागभावे, तरसेव उवजणाइसंकासं / भावेज धम्महे उं. अभा