________________ पइण्णा 5 - अभिधानराजेन्द्रः - भाग 5 पइदिणकिरिया ततःतह चेईहरगमणं, सक्कारो वंदणं गुरुसगासे। पचक्खाणं सवणं, जइपुच्छा उचियकरणिज / / 43 / / तथा तेन प्रकारेण विधिपूर्वकलक्षणेन। चैत्यगृहगमनं जिनबिम्बभवने यानं, प्रवेशश्च / तत्र यानविधिः- "सव्वाए इड्डीए सव्वाए दित्तीए सव्वाए जुत्तीए सव्वसमुदएण।'' इत्यादि। एवं हि प्रवचनप्रभावना कृता भवति। प्रवेशविधिस्तु- "सचित्ताण दव्वाणं विवसरणाए, अचित्ताणं दव्वाणं अविउसरणाए, एगसाडिएणं उत्तरासंगेणं, चक्खुप्फासे अंजलिपग्गहेणं, मणसो एगत्तीभावेणं त्ति / " तत्र च सत्कारो माल्याऽऽदिभिरभ्यर्चनम्, अर्हत्प्रतिमाया इति गम्यते। वन्दनं प्रसिद्धविधिना चैत्यवन्दनम्। ततो गुरुसकाशे गुरुसमीपे प्रत्याख्यानं स्वयं गृहाऽऽदिगृहीतप्रत्याख्यानस्य गुरुसाक्षिकत्वविधानमित्यर्थः। ततः श्रवणमाकर्णनं गुरुसकाश एवाऽऽगमस्येति गम्यते / एवं हिस-क्रियानिबन्धनं सद्बोधो भवति / ततो यतिपृच्छा साधुशरीर-संयमवार्ताप्रच्छनम् / एवं हि विनयः प्रयुक्तो भवति / तत्र चोचितकरणीय विहितकर्त्तव्यं, यतेग्लानत्वाऽऽदावौषधप्रदानोपदेशाऽऽदिविधेयम्। अन्यथा पृच्छाया नातिसार्थकता स्यादिति गाथाऽर्थः // 43 // प्रतिज्ञत्युक्तेः प्रथमाऽवयवः / इत्यादि।दश०१ अ०। आ० मा आव०। नियमे, सूत्र०२ श्रु०५ अ०। ('लज्जाम०" इत्यादिश्लोकः चतुर्थभागे 2000 पृष्टे गतः) पइण्णाविरोहपुं० (प्रतिज्ञाविरोध) निग्रहस्थानभेदे, स्या०। 'प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः // 4 // " गौ० सू०५ अ०२ आ० / अत्र च प्रतिज्ञाहेतुपदे कथाकालीनवाक्यपरे, तथा च कथायां स्ववचनार्थविरोधः प्रतिज्ञाविरोधः, यद्यपि काञ्चनमयः पर्वतो वह्निमान् पर्वतः काञ्चनमयवतिमान ह्रदो वह्निमान् ह्रदत्वात् पर्वतो वह्निमान् काञ्चनमयधूमादित्यादी हेत्वाभासान्तरसाइये,तथाऽप्युपधेयसरेऽप्यपाधेरसाइयन्नि दोषः।। न चासडीणस्थलाभावः पर्वतो न वह्निमान् धूमात्, यो यो धूमवान् स निरग्निरित्युदाहरणे निरग्निश्चायमित्युपनये तत्सत्त्वात् एवं निगमनेऽपि बोध्यम्।ववृ०॥ वाचा। पइण्णाविलेस पुं० (प्रतिज्ञाविशेष) अभिग्रहविशेपे, पश्चा०१८ विव०।। पइण्णासण्णास पुं० (प्रतिज्ञासंन्यास) चतुर्थे निग्रहस्थानभेदे, स्या०। "पक्षप्रतिषेधे प्रतिज्ञातापिनयनं प्रतिज्ञासंन्यासः / / 5 / / " गौ०सू० 5 अ०२ आठ पक्षस्य स्वाभिहितस्य परेण प्रतिषेधे कृते तत्परिजिहीर्षया प्रतिज्ञातस्यार्थस्यापनयनमफ्लाप इत्यर्थः / वाच०। पइण्णाहाणि स्त्री०(प्रतिज्ञाहानि) हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्युपगच्छतो निग्रहस्थानभेदे, स्या०। (अत्र 'निग्गहट्टाण' शब्दे चतुर्थ भागे पृष्ठे उदाहरणानि)। पइण्णेसणा स्त्री० (प्रकीर्णेषणा) अनभिगृहीतषणायाम, पं०चू०। पइदिअस अ०(प्रतिदिवस) अहर्निश, पञ्चा०२ दिव०। पइदिण अव्य०(प्रतिदिन) प्रत्यहमित्यर्थे, पं०व०१ द्वार। पइदिणकिरिया स्त्री० (प्रतिदिनक्रिया) प्रतिदिनं प्रत्यहं क्रिया चेष्टा प्रतिदिनक्रिया। प्रव्रजिताना चक्रवालसामाचार्याम्, पं०व०१ द्वार। अथ श्रावकस्य प्रतिदिनक्रिया। तत्रापि निवसतः प्रतिदिनकर्तव्यमाहणवकारेण विबोहो, अणुसरणं सावओ बयाई मे। जोगो चिइवंदणमो, पच्चक्खाणं च विहिपुव्वं / / 42 / / नमस्कारेण परमेष्टिपञ्चकनमस्क्रियया, आत्यन्तिकतबहुमानकार्यभूतया परमभङ्गलार्थया वा विबोधो जागरणं, कार्य इति शेषः। एवमुत्तरत्रापि / इह चाविशेषेणैक नमस्कारपाठ प्ररूपयन्ति / अन्ये आहुः''नवकारचिंतणं माणसम्मि सेज्जागरण कायव्वं / सुत्ताविणयपवित्ती, निवारिया होइ एवं तु॥१॥" तथाऽनुस्मरणमनुचिन्तनं सदसत्कर्तव्यप्रवृत्तिहेतुभुतम् / किं स्वरूपं तदित्याह-श्रावकः श्राद्धोऽहं, तथा व्रतान्यणुव्रताऽऽदिनियमाः, (मे) मम, सन्तीति शेषः / उपलक्षणं चैतत्। तेनादः-कुलोऽहमदः शिष्यश्चेत्यादिद्रव्यतः, अमुत्र ग्रामगृहाऽऽदाविति क्षेत्रतः, प्रभातमिदमित्यादि कालतः, मूत्राऽऽदिवाधानां का बाधेत्यादि भावतः / ततो योगः कायिकोत्सर्गशौचाऽऽदिरूपो व्यापारः। एवं हि देहबाधापरिहारतः समाधेश्चैत्यवन्दनाऽऽदीनां भावानुष्ठानता। ततश्चैत्यवन्दनं पूजापुरस्सरमर्हद्विम्बवन्दनम्। ओ इति निपातो गाथापूरणार्थः / ततः प्रत्याख्यानमागमप्रसिद्धं, चशब्दः समुच्चये। विधिपूर्वमागमिकविधानपुरस्सर, न तु यथाकथञ्चित् / एतच विशेषणं चैत्यवन्दने प्रत्याख्याने च संबन्धनीयम्। विधिश्च तयोस्तत्प्रकरणयोर्वक्ष्यमाण इति | गाथाऽर्थः ॥४स अविरुद्धो ववहारो, काले तह भोयणं च संवरणं / चेइहराऽऽगम सवणं, सक्कारो वंदणाई य॥४४|| अविरुद्धः प्रागुपदर्शितपञ्चदशकर्मोऽऽदानपरिहारतोऽनवद्यप्रायो व्यवहारो वृत्तिनिमित्तप्रवृत्तिः, कार्य इति शेषः / अन्यथा धर्मबाधा, प्रवचनहीला च स्यादिति। काले शरीराऽऽरोग्यानुगुणे, प्रत्याख्यानतीरितत्वसमयस्वरूपे वा। अकालभोजने हि धर्मकाययोबर्बाधा स्यादिति। तथा तेन भणितप्रकारेण। तद्यथा-"जिणपूयोचियदाण, परियरसंभालणा उचियकिच्चं / ठाणुववेसो य तहा, पचक्खाणस्स संभरणं / / 1 / / " इत्यादि। भोजनसाहाराभ्यवहारः, प्रकारान्तरभोजने ह्यधर्म एव। चशब्दः समुचये। संवरणं तदनन्तरं संभवतो ग्रन्थिसहिताऽऽदेः प्रत्याख्यानस्य ग्रहणं प्रमादपरिजिहीर्षार्हि प्रत्याख्यानं विना न युक्तं क्षणमप्यासितुम्। ततोऽवसरे चैत्यगृहाऽऽगमश्च प्रतीतः, श्रवणं च साधुसमीपे जिनाऽऽगमाऽऽकर्णनं, चैत्यगृहाऽऽगमश्रवणम्।अथवा-चैत्यगृहे आगमस्य श्रवणमिति विग्रहः / चैत्यगृहे हिप्रायः आगमव्याख्यानं भवतीत्यागमय्याख्यानस्थानान्तरोपलक्षणार्थ चैत्यगृहग्रहणम्। यदाह"जत्थ पुण अनिस्सकडं, पूरिति तहिं समोसरणं / पूरिति समोसरणं, अन्नासइ णिस्सचेइएसुं पि।।१।। इहरा लोगविरुद्धं, सड्डाभंगो सड्डाणं।"न च चैत्यगृहाऽऽगमपूर्वकमागमश्रवणं विधेयमितो ज्ञापकाच्चैत्यगृह एव साधवोऽवतिष्ठन्त इति निश्चेतव्यम्, यतो व्यवहारभाष्यवचनमेवं स्थितम् - जइ विन आहाकम्म, भत्तिकयं तह वि वजयं तेहिं (चेव) भत्ती खलु होइ कया, इहरा आसायणा परमा / / 1 / / दुव्विगंधिमलस्सावि, तणुरप्पेसऽण्हाणिया। उभओ वा उवहो चेव, तेण ठंतिन चेइए / / 2 / / तिण्णि वा कड्ढई जाव, थुईओ तिसिलोइया।