________________ पडिक्कमण 301 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण संपयं खरतरो मारुओ वायइ, जइ ते मम पुत्ता इयाणिं बल्लराणि क्षेत्राणीत्यर्थः / पलीवेज्जा तओ तेसिं वासारत्ते सरसाए भूमीए सुबहू सालिसण्या होजा, एवं मए चिंतियं / तओ आयरिएहिं वारिओ ठिओ। एवमाइ जमसुहं मणेणं चिंतेइ सो मणदंडो।" (पा०)(वाग्दण्डः वइदंड' शवे वक्ष्यते) (कायदण्डः कायदंड' शब्दे द्वितीयभागे 462 पृष्ठे गतः) तथा- (लिगरणसुद्धा त्ति) त्रीणि च तानि करणानि च मनःप्रभृतीनि त्रिकरणाने, तैः शुद्धो निर्दोषस्त्रिकरणानि वा शुद्धानि सर्वदोषरहितानि यस्य स त्रिकरणशुद्धः। आह-त्रिदण्डविरल स्त्रिकरणशुद्ध एव भवत्यतः किं तद्ग्रहणेन?। सत्यम् : सावल्योगनिवृत्तस्त्रिदण्डविरत उच्यते, निरवद्ययोग-प्रवृत्तस्तु त्रिकरणशुद्धः / अथवा-करणरूपसावद्ययोगविरतोदण्डत्रयविरत उच्यते, करणकारगनुमतिरूपसावद्ययोगविरतस्तु त्रिकरणशुद्ध इति न दोषः, अन्यथा वाऽनयोर्बहुश्रुतैर्विशेषो भावनीयः, यतो गम्भीरमिदमार्षमिति / (पा०) ('तिसल्लनीसल्ल' पदव्याख्या 'तिसल्लनीसल्ल' शब्दे चतुर्थभागे 2339 पृष्ठे गता) (तिविहेण पडिक्कतो ति) त्रिविधन त्रिप्रकारेण, करणेनेति गम्यते। प्रतिक्रान्तः सर्वातिचारप्रतिनिवृत्तो, रक्षामि महाउतानिपश्चेति। अथ महाव्रतोचारणं निगमयन्नाहइचेयं महव्वयउच्चारणं थिरत्तं सल्लुद्धरणं धिइबलयं ववसाओ साहणट्ठो पावनिवारणं निकायणा भावविसोही पड़ागाहरणं निज्जूहणा राहणा गुणाणं संवरजोगो पसत्थज्झाणोवउत्तया जुत्तया य नाणे परमट्ठो उत्तमहो एस तित्थंकरेहिं रइरागदोसमहणेहिं देसिओ पवयणस्स सारो छज्जीवनिकायसंजमं उवएसियं तेल्लोकसक्कयं ठाणं अब्भुवगया / / / इत्येतदनन्तरोक्त महाव्रतोचारणं व्रतोत्कीर्तन, कृतमिति शेषः। अत्र च को गुण इत्याह- (थिरत्तमित्यादि) अथवा-तत् कथंभूत-मित्याह(थिस्तं ति) महाव्रतेष्वेव धर्मे वा स्थैर्यहेतुत्वात् स्थिरत्वं निश्चलत्वं, भवति चाऽऽसन्नसमाधेः सत्वविशेषस्य तत्करणश्रवणाऽऽदिभ्यः संवेगातिशयान्महाव्रतेषु धर्मे वा निष्प्रकम्पतेति।शल्यानां मायाशल्या दीनामुद्धरणकारणग्वाच्छल्योद्धरणमिद-मिति / तथा-धृतेश्चित्तसमाधेबलमवाटाभो धृतिबलं, तत्कारणत्वान्महाव्रतोचारणमपि धृतिबल, स्वार्थिककप्रत्ययोपादानाद्धृतिबलकम्। धीबलं वा धृतिबलं का ददातीति धृतिबलद धीबलदं वेत्युच्यते, जायते चासकृत्तद्वासितमतेतिबलमिति। एवमन्यत्रापि भावना कार्या। तद्यथा-व्यवसायो दुष्करकरणाध्यवसायः, तथा (साहणट्टो त्ति) साध्यतेऽनेन साध्यमिति साधनं साधकतमकरणं, तल्लक्षणोऽर्थः पदार्थः साधनार्थः, मोक्षाssख्यपरमपुरुषार्थनिष्पत्त्युपाय इत्यर्थः, तथा-(पावनिवारणं ति) पापस्याऽशुभकर्मणो निवारणं निषेधकं पापनिवारणम्। तथा-(निकायण नि) निकाचनेव निकाचना, स्वव्रतप्रतिपत्तिदृढतरनिबन्ध इत्यर्थः। शुभकर्मण वा निकाचनाहेतुत्वान्निकाचनेदमुच्यते, नच सरागसंयमिनामयमों नघटत इति। तथा-(भावविसोहि ति) भावस्याऽऽत्मपरिणामस्य जलमिव वस्त्रस्य विशोधिकारणत्वाद्भावविशोधिर्भावनिर्मलत्वहेतु- | रित्यर्थः / तथा- (पडागा-हरणं ति) पताकायाश्चारित्राऽऽराधनावैजयन्त्या हरणं ग्रहणं पताकाहरणमिदम्, लोके हि मल्लयुद्धाऽऽदिषु वस्त्रमाभरणं द्रव्यं वा ध्वजाग्रे बध्यते, तत्र यो येन युद्धाऽऽदिना गुणेन प्रकर्षवान् स रङ्ग मध्ये पुरतो भूत्वा गृह्णातीति पताका हरतीत्युच्यते / एवमत्रापि पाक्षिकाऽऽदिषु महाव्रतोच्चारणतः समुपजातचारित्रविशुद्धि प्रकर्षः साधुः प्रवचनोक्तायाश्चारित्राऽऽराधनापताकायाहरणं करोतीति / तथा- (निज्जूहण त्ति) निजूंहणा निष्काशना कर्मशत्रूणामात्मनगरान्निर्वासनेत्यर्थः / तथा-राधना अखण्डनिष्पादना। केषामित्याहगुणाना मुक्तिप्रसाधकजीवव्यापाराणाम्, तथा-(संवरजोग इति) नूतनकर्माऽऽगमनिरोधहेतुःसंवरस्तद्रूपो योगो व्यापारः संवरयोगः / अथवा-संवरेण पञ्चाऽऽश्रवनिरोधलक्षणेन योगः संबन्धः संवरयोग इति। तथा / (पसत्थज्झाणोवजुत्तय त्ति) प्रशस्तध्यानेन धर्मशुक्ललक्षणशुभाध्यवसानेनोपयुक्तता संपन्नता, प्रशस्तध्याने वोपयुक्तता प्रशस्तध्यानोपयुक्तता, महाव्रतोचारणं कुर्वतः श्रृण्वतो वा नियमादन्यतरशुभध्यानसंभवादिति। तथा- (जुत्तया य नाणे ति) युक्तता च समन्वितता च, विभक्तिव्यत्ययात् ज्ञानेन तत्त्वावगमेनसद्धोधसंपन्नतेत्यर्थः / महाव्रतप्रतिपत्तेः राम्यग्ज्ञानफलत्वादिति भावः / चूर्णोतु-"जुत्तया य त्ति' पाठो व्याख्यातः। तत्र युक्तता चाष्टादशशीलाङ्गसहसैरितिद्रष्टव्यम् / तथा-(परमट्ठो त्ति) परमार्थः सद्भतार्थः, अकृत्रिमपदार्थ इत्यर्थ इति, कश्चित्पदार्थः परमार्थोऽपि परमाण्वादिवदुत्तमो न भवत्यत आहउत्तमश्चासावर्थश्चोत्तमार्थः, प्रकृष्टपदार्थः, मोक्षफलप्रसाधकत्येन महाव्रतानां सर्ववस्तुप्रधानत्वादिति भावः। तथा-[एस ति] लिङ्गव्यत्ययादेतन्महाव्रतोच्चारणं प्रवचनस्य सारो देशित इति संबन्धः / अथवा एष इत्यनेन सार इत्येतस्य लिङ्गं गृहीतमिति / कै रित्याह तीर्थकरैः प्रवचनगुरुभिः / किंविधैरित्याह-रतिश्चारित्रमोहनीय-कर्मोदयजन्यस्तथाविधाऽऽनन्दरूपश्चित्तविकारः, रागश्च ममकारो, द्वेषश्चाहङ्कारो, रतिरागद्वेषास्तान्मथ्नन्ति व्यपनयन्तीति रतिरागद्वेषमथनाः / तैः किमित्याह-देशितः के वलाऽऽलो केनोपलभ्य भव्येभ्यः प्रवेदितः प्रवचनस्य द्वादशाङ्गर्थस्य सारो निष्पन्दः महाव्रतानि तीर्थकरैः प्रवचनार्थस्य सारभूतानि कथितानीत्यतो मुमुक्षुणा तेषु महानादरो विधेय इति भावः / ते च भगवन्तस्तीर्थकराःषड्जीवनिकायसंजमं षट्सङ्ख्यपृथिव्यादिसत्त्वसमूहरक्षामुपलक्षणत्वान्मृषावादाऽऽदिपरिहारं चोपदिश्य भव्येभ्यः कथयित्वा उपलक्षणत्वात्स्वयं कृत्वा च त्रैलोक्यसत्कृतं लोकत्रयपूजित स्थान प्रदेश, सिद्धिक्षेत्रमित्यर्थः / अभ्युपगताः संप्राप्ता इत्यनेनापि महावतानामत्यन्तोपादेयता सूचयतीति / अथ महाव्रतोत्कीर्तनापरिसमाप्तौ मङ्गलार्थ प्रत्यासन्नोप कारित्वाद् विशेषतो महावीरस्य स्तुतिमाहनमोऽत्यु ते सिद्ध बुद्ध मुत्त नीरय निस्संग माणमुरण गुणरयणसागर मडणंत मऽप्पमेय असरीर ! नमोऽत्थु ते महइ महावीर वद्धमाण सामिस्स नमोऽत्थु ते अरहओ भगवओ तिकट्ठ। नमो नमस्कारोऽस्तु भवतु, कस्मै ते तुभ्यं, हे वर्धमानस्वामिन्निति प्रक्रमः। किं विशिष्ट ? सिद्ध कृतार्थ बुद्ध के वलज्ञानेनावगतसमस्त वस्तुतत्त्व, मुक्त पूर्वबद्धकर्मबन्धनै स्त्य