________________ पडिझमण 267 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण देकम् आभिग्रहिकान भिग्रहिकनिवेशिकानाभोगिकसांशयिक- | भेदात्यञ्चविधमपि, उणधिभेदतो बहुतरभेदमपि वा विपर्ययसास्याटेकप्रकारम् / तथा (एव ति) अनुस्वारलोपादेवम्, मिथ्यात्ववदेकविधमित्यर्थः। (अन्नाणं ति) नञःकुत्सार्थत्वात् कुत्सितं ज्ञानमज्ञानं संशयविपर्ययानध्यवसायाऽऽत्मकोज्ञानाऽऽवरणदर्शनाऽऽवरणकर्मोदयप्रभवो जीवस्यावबोधपरिणामः, तत्प्रभवग्रन्थविशेषाश्च तदप्युक्तक्रमेणानेकविधमप्यबोधसामान्यादेकविधमिति / किमित्याह-परिवजयन् परिहरन, गुप्तो मनोवचनशरीरैः संवृतः सन् रक्षामि सुविशुद्धानि परिपालयामि महाव्रतान्युक्तलक्षणानि पञ्चेति पञ्चसइ ख्यानीति। तथाअणवजजोगमेगं, सम्मत्तं एगमेव नाणं तु। उवसंपन्नो जुत्तो, रक्खामि महव्वए पंच / / 2 / / अनवद्ययोग कुशलानुष्ठानम्, एकं सकलकुशलानुष्ठानानामनवद्ययोगत्याव्यभिचारादेकप्रकारम्।तथा-सम्यक्त्वमिति। सम्यक्शब्दः प्रशंसार्थः, सम्रागित्येतस्य भावः सम्यक्त्वं, दर्शनमोहनीयक्षयक्षयोपशगोपशनाऽऽवि तो जिनोक्ततत्त्वश्रद्धानरूप आत्मपरिणामः, तच्चोपाधिभवादनेकप्रकारमपि श्रद्धानसामान्यादेकमेव एकप्रकारमेव, एकजोदस्य चैकदैकस्यैव भावादिति। तथा-(नाणं तु त्ति) तुशब्दस्यावर्थत्वात् ज्ञानमप्येकविधमेव, तत्रज्ञायन्ते परिच्छिद्यन्ते अर्था अनेनेति ज्ञानमावरणक्षयक्षयोपशमाऽऽदिसमुत्पन्नो मतिश्रुताऽऽदिविकल्पाSऽत्मको जीवस्यावबोधपरिणामः, तच्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा / तथाहि-लब्धितो बहूना बोधविशेषाणामेकदा संभवेऽप्युपयोगत एक एव सम्भवत्येकोपयोगत्वाज्जीवानामिति। नन्ववबोधसामान्यात्सम्यक्त्वज्ञानयोः कः प्रतिविशेषः?। उच्यते-रुचिः सम्यक्त्व, रुचिकारण तु ज्ञानम् / यथोक्तम्- "नाणमवायधिईओ, दसणमिट्ठ जहोग्गहेहाओ / तह तत्तरुई सम्म, रोइज्जइ जेणं त नाणं // 1 // एतत्किमित्याह-उपसम्पन्नः प्रतिपन्नो युक्तः श्रमणगुणैः रक्षामि पाल्यामि महाव्रतानि भणितस्वरूपाणि पञ्चेति पञ्चसड् ख्यापरिच्छिन्नानीतिः तथादो चेव रागदोसे, दुन्नि य झाणाइ अट्टरोद्दाई। परिवज्जतो गुत्तो, रक्खामि महव्वए पंच ||3|| द्वावेत द्विसङ्ख्यावेव, कावित्याह-रागश्च द्वेषश्च रागद्वेषो, तत्र अनभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्र रागः, अनभिव्यक्तक्रोधमानलक्षणभेदस्वभावं प्रीतिमात्र तुद्वेषः,तौ परिवर्जयन्नितियोगः। तथाद्वेच द्विसङ्ख्ये च ध्यायते चिन्त्यते वस्त्वाभ्यामिति ध्याने, ध्याती वा घ्याने, अन्तर्मुहूर्तमात्रकालमेकाग्रचित्ताध्यवसाने। यदाह- "अंतोमुहत्तमित्तं चित्तावत्थाणमेगवत्थुम्मि। छउमत्थाणं झाणं, जोगनिरोहो जिणाणं तु!१॥" ते एव नामग्राहमाह-आर्त्त च रौद्रं चाऽऽतरौद्रे, तत्र ऋतं दुःखं तस्य निमित्त तत्र वा भवम्, ऋते वा पीडिते प्राणिनि भवमार्त्त, तचामनोज्ञान शब्दरूपरसगन्धस्पर्शलक्षणानां विषयाणां तदाश्रयभूतवायसाऽ5दिवस्तूना वा समुपनतानां विप्रयोगप्रणिधानं, भाविनां वाऽसंप्रयोग- | चिन्तनम् 11 एवं शूलशिरोरोगाऽऽदिवेदनाया अपि विप्रयोगप्रार्थनम् / इटशब्दाऽऽदिविषयाणां सातवेदनायाश्चावियोगसंप्रयोगप्रार्थनम् 3 / देवेन्द्रचक्रवादिसम्बन्ध्यद्धिप्रार्थनं च 4 / शोकाऽऽक्रन्दनस्वदेहताडनविलपनाऽऽदिलक्षणलक्ष्यं तिर्यग्गतिगमनकारणं विज्ञेयम् / तथारोदयतीति रन्द्र आत्मैव, तस्य कर्म रौद्रं तदपि सत्त्वेषु वधवेधबन्धनदहनाङ्कनमारणाऽऽदिप्रणिधानम् 1 / पैशुन्यासत्यासद्भूतभूतघाताऽऽदिवचनचिन्तनम् 2 / तीव्रकोपलोभाऽऽकुलं भूतोपघातपरायण परलोकापायनिरपेक्ष परद्रव्यहरणप्रणिधानम् 3 / सर्वाभिशङ्कनपर परोपघातपरायणं शब्दाऽऽदिविषयसाधकद्रव्यसंरक्षणप्रणिधानम् 4 / उत्सन्नवधाऽऽदिगम्य नरकगतिगमनकारण समवसेयम् / एते च, किमित्याह-परिवर्जयन गुप्तः सन् रक्षामि महाव्रतानि पञ्चेति। तथादुविहं चरित्तधम्म, दुन्नि य झाणाइ धम्मसुक्काइं। उवसंपन्नो जुत्तो, रक्खामि महव्वएपंच // 4 // द्विविधं देशसर्वचारित्रभेदाद् द्विप्रकार, चर्यत मुमुक्षुभिरासेव्यते तदिति, चर्यत वा गम्यतेऽनेन निर्वृताविति चरित्रम् / अथवा-चयस्य कर्मणां रिक्तीकरणाचरित्रं निरुवतन्यायादिति चारित्रमोहनीयक्षयाऽऽद्याविर्भूत आत्मनो विरतिरूपः परिणामस्तल्लक्षणो धर्मः श्रेयश्चारित्रधर्मस्तं, द्वे च द्विसंख्ये च ध्याने प्रणिधाने धर्म्य शुक्लं च धर्म्यशुक्ले, तत्र श्रुतचरणधर्मादनपेतं धर्म्य,तच्च सर्वज्ञाऽऽज्ञाऽनुचिन्तनम् पारागद्वेषकषायेन्द्रियवशजन्त्वपायविचिन्तिनम् 2 / ज्ञानाऽऽवरणाऽऽदिशुभाशुभकर्मविपाकसंस्मरणम् 3 / क्षितिवलयद्वीपसमुद्रप्रभृतिवस्तुसंस्थानाऽऽदिधर्माऽऽलोचनाऽऽत्मकम् 4 / जिनप्रणीतभावश्रद्धानाऽऽदिचिगम्य देवगत्यादिफलसाधकं ज्ञातव्यम् / तथा-शोधयत्यष्टप्रकार कर्ममलं शुचं वा शोक क्लमयत्यपनयतीति निरुक्तविधिना शुक्लम्। एतदपि पूर्वगतश्रुतानुसारिनानानयमतैकद्रव्यगतोत्पत्तिस्थितिभङ्गाऽऽदिपर्यायानुस्मरणाऽऽदिस्वरूपम् अवधासंमोहाऽऽदिलिङ्गम्यं मोक्षाऽऽदिफलप्रसाधक विज्ञेयम् / शेषं प्राग्वद् ज्ञेयमिति। तथाकिण्हा नीला काऊ, तिन्नि य लेसाउ अप्पसत्थाउ। परिवजंतो गुत्तो, रक्खामि महव्वए पंच / / 5 / / (किण्ह त्ति) विभक्तिव्यत्ययात्कृष्णाम्. (एवं नील त्ति) नीलाम् (काउ त्ति) कापोतीं चेत्येतास्तिसस्त्रिसंख्याः, चशब्दो योजित एव, लिश्यन्ते श्लिष्यन्ते प्राणिनः कर्मणा यकाभिस्तालेश्याः कृष्णाऽऽदिद्रव्योपाधिका जीवपरिणामविशेषाः। आह च- "श्लेष इववर्णबन्धस्य कर्मबन्धस्थितिविधात्र्य।' तथा- "कृष्णाऽऽदिद्रव्यसाचिव्यात्, परिणामो य आत्मनः / स्फटिकस्येव तत्राय, लेश्याशब्दः प्रयुज्यते।।१।।" इति। ताः किंविशिष्टा इत्याह-अप्रशस्ता अप्रशस्तस्वरूपत्वात् क्लिष्टकर्मबन्धहेतुत्वाचारित्राऽऽदिगुणलाभविघातनिमित्तत्वाचासुन्दराः1 किमित्याह-परिवर्जयनित्यादि पूर्ववदिति। तथातेऊ पम्हा सुक्का, तिन्नि य लेसा उ सुप्पसत्थाउ।