________________ पडिक्कमण 266 - अभिधानराजेन्द्रः - भाग 5 पडिकमय त्रश्च पूर्ववदाहारो भोजनं, भुक्त इति गम्यते / दिवाऽपि हि समधिकभोजने कृते रात्री भुक्तान्नगन्धोदाराः प्रजायन्ते, वमनं वा कदाचित, तत्र च रात्रिभोजनदोषः, समुदिलितगलने च प्रभूततरा दोषा इति / सूरस्याऽऽदित्यस्य क्षेत्रम् उदयास्तलक्षण नभः खण्ड सूरक्षेत्र, तस्मिंश्व शङ्किते उदयक्षेत्रमागतो वा, न वा, अस्तदेशं प्राप्तो वा, न वा दिनकर इत्यारेकिते आहारो, भुक्त इति वर्तते / रात्रिभोजनस्य विरमणे उक्तोऽतिक्रम इति व्याख्यातमेव। दर्शिता महाव्रतेष्वतिचाराः / साम्प्रत यथा तान्येवातिचाररहितानि परिपालितानि भवन्ति तथा दर्शयितुमाहदंसणनाणचरित्ते, अविराहित्ता ठिओ समणधम्मे। पढमं वयमणुरक्खे, विरया मो पाणाइवायाओ ||1|| दंसणनाणचरित्ते, अविराहित्ता ठिओ समणधम्मे। बीयं वयमणुरक्खे, विरया मो मुसावायाओ // 2 // दंसणनाणचरित्ते, अविराहित्ता ठिओ समणधम्मे / तइयं वयमणुरक्खे, विरया मो अदिन्नदाणाओ॥३॥ दसणनाणचरित्ते, अविराहित्ता ठिओ समणधम्मे। चउत्थं वयमणुरक्खे, विरया मो मेहुणाओ य॥४| दंसणनाणचरित्ते, अविरहित्ता ठिओ समणधम्मे। पंचमं वयमणुरक्खे, विरया मो परिग्गहाओ / / 5 / / दंसणनाणचरित्ते, अविराहित्ता ठिओ समणधम्मे। छटुं वयमणुरक्खे विरया मो राइभोयणओ।।६।। दर्शनं च सम्यग्दर्शन, ज्ञानं चाऽऽभिनिबोधिकाऽऽदि, चारित्रं च सामायिकाऽऽदि दर्शनज्ञानचारित्राणि कर्मताऽऽपन्नानि, अविराध्य अखण्डितानि परिपाल्य, विराधना च ज्ञानदर्शनयोः प्रत्यनीकताऽऽदिलक्षणा पञ्चविधा / यदाह- "नाणपडिणीयनिन्हवअच्चासायणतदंतराय च / कुणमाणस्सऽइयारो, नाणविसंवायजोगं च / / 1 / / तत्र ज्ञानप्रत्यनीकता पञ्चविधज्ञाननिन्दया। तद्यथा आभिनियोधिकज्ञानमशोभनं, यतस्तदवगतं ज्ञानं कदाचिदन्यथेति, श्रुतज्ञानमपि शीलविकलस्याकिञ्चित्करत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यगोचरत्वादसाधु, मनःपर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलज्ञानमपि समयभेदेन दर्शनज्ञानप्रवृत्तेरेकसमये अकेवलत्वादशोभनमिति। दर्शनप्रत्यनीकतातु क्षायिकदर्शनिनोऽपि श्रेणिकाऽऽदयो नरकमुपगता इत्यतः कि दर्शनेनेति निन्दया। निहवो व्यपलापः; स च ज्ञानस्यान्यसकाशे अधीतमन्यं व्यपदशितो जायते, दर्शनस्यापि सम्मत्यादिदर्शनप्रभावकशास्त्राण्यधिकृत्यैवमेव द्रष्टव्यम्।अत्याशातना तु ज्ञानस्य "काया वया य ते च्चिय, ते चेव पमाय अप्पमाया य। मोक्खाहिगारियाणं, जोइसजोणीहि किं कज्ज / / 1 / / " दर्शनस्य तु किमेभिः सम्मत्यादिभिः कलहशास्वैरिति। अन्तरायंगयोरपि कलहास्वाध्याययिकाऽऽदिभिः करोति / ज्ञानविसंवादयोगोऽकालस्वाध्यायाऽऽदिना, दर्शनविसंवादयोगस्तु शङ्काकाक्षाऽऽदिनेति। चारित्रविराधना पुनः सावद्ययोगानुमत्यादिलक्षणा विचित्रेति / एतान्यविराध्य, किमित्याह स्थितः समारूढः सन्, क्वेत्याह-श्रमणधर्म श्रमणानां साधूनां धर्मः क्षान्त्यादिलक्षणः समाचारः तस्मिन, किं करोमीत्याहप्रथममाद्यं व्रतं यमम् (अणुरक्खे ति) अनुरक्षामि सर्वातिचारविरहिपालयामि, किंविशिष्ट इत्याह-(विरया मो त्ति) वचनस्य व्यत्ययाद्विरतोऽस्मि निवृत्तोऽहं, कस्मात्प्राणातिपाताज्जीववधादिति एवमन्यदपि द्वितीयाऽऽदिव्रताभिलापि सूत्रपञ्चकमेतदनुसारेण सभवसेयमिति। अथ प्रकारान्तरेणापि महाव्रतरक्षणमभिधातुमाहआलयविहारसमिओ, जुत्तो गुंत्तो ठिओ समणधम्मे। पढमं वयमणुरक्खे, विरया मो पाणाइवायाओ ||1|| आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे। बीयं वयमणुरक्खे, विरया मो मुसावायाओ / / 2 / / आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे। तंइयं वयमणुरक्खे, विरया मो अदिन्नदाणाओ||३|| आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे। चउत्थं वयमणुरक्खे, विरया मो मेहुणाओ ||4|| आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे। पंचमं वयमणुरक्खे, विरया मो परिग्गहाओ / / 5 / / आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे। छटुं वयमणुरक्खे, विरया मो राईभोयणाओ।।६।। आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे। तिविहेण अप्पमत्तो, रक्खामि महव्वए पंच / / 7 / / (आलए त्ति) सूचकत्वादालयवर्ती , सकलकलङ्कविकलनिल्लानिषेवीत्यर्थः / (एवं विहार त्ति) यथोक्तविहारेण विहरन् / तथा. ईर्याऽऽदिसमितिपञ्चकेन समितः। तथा-युक्तो नाग्न्यास्नानभूशदनदन्तपवनशिरस्तुण्डमुण्डनभिक्षाभ्रमणक्षुत्पिपासाशीताऽऽतपाऽदि. सहनगुरुकुलवसनाऽऽदिलक्षणैः श्रमणगुणैः समन्वितः। तथा-गुमित्रः गुप्तः, स्थितो व्यवस्थितः श्रमणधर्मे क्षान्त्यादिके यत्यनुष्ठाने, प्रथना व्रतं यमम् ,अनुरक्षामि सदातिचारविरहितं पालयामि, (विरया सरि वचनव्यत्ययाद्विरतोऽस्मि प्राणातिपातात् / इत्येवं शेषसूत्राप्यः द्वितीयाऽऽदिव्रताभिलापेन नेतव्यानि, नवरंसप्तमसूत्रस्योत्तरार्द्धविशेष यथा-त्रिविधेन मनोवाक्कायलक्षणेन करणेनाप्रमत्तः सुप्रणिहितः, रक्षा स्वजीवितमिवाऽऽदरेण पालयामि महाव्रतान्युक्तलक्षणानि पशे पञ्चसंख्यानीति। इदानीमेकाऽऽद्यकोत्तरवृद्धिकाना दशान्तानां शुभाशुभस्थानान परिवर्जनाङ्गीकारकरणद्वारेण महाव्रतपरिक्षणाभिधानायाऽऽहसावज्जजोगमेगं, मिच्छत्तं एगमेव अन्नाणं / परिवजंतो गुत्तो, रक्खामि महय्वए पंच ||1|| अवधं पापं, सहावद्येन यो वर्त्तते स सावद्यः, स चासौ योगश्च व्याप: तमेकमेकभेदं सकलनिन्द्यकर्मणां सावद्ययोगत्वाव्यभिचारादिति। तद. मिथ्या इत्येतस्य भावो मिथ्यात्वंमोहनीयकर्मोदयजन्यो विपर्यस्ताध्यवसयरूपो जीवपरिणामः, तन्निमित्तलौकिकदेवताऽऽदिवन्दनाऽऽदिक्रिया छ?