________________ पडिक्कमण 265 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण भूजतं वा परेहिं समणुन्नायं तं निंदामि, गरिहामि, तिविहं तिविहेणं मणेणं वायाएकाएणं अईयं निंदामि, पड़प्पन्नं संवरेमि, प्रणागय पच्चक्खामि सव्वं राईभोयणं जावजीवाए अणिस्सिओ हुनेव सयं राई भुंजेज्जा, नेवऽन्नेहिं राई भुंजावेजा, राई भुंजंते वि अन्ने न समणुजाणामि / तं जहा-अरहंतसक्खियं सिद्धसक्खियं साहसक्खियं देवसक्खियं अप्पसक्खियं एवं हवइ भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे अ, एस खलु राईभोयणस्स वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सम्वेसि सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए अणुद्दवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परिमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुतारणाए ति कट्टु उवसंपञ्जित्ता णं विहरामि। छठे भंते! वए उबढिओ मि सव्वाओ राईभोयणाओ वेरमणं / / एतत्सूत्र रूकलमपि प्राग्वत्। एतच्च रात्रिभोजनव्रतंप्रथमचरमतीर्थकर तीर्थयोः ऋजुजडवकजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थं महाव्रतोपरि पाठेलं, मध्यमतीर्थकरतीर्थे पुनः ऋजुप्राज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति। दोषाचेह रात्रिभोजिनां पिपीलिकाशलभाऽऽदिसत्त्वविनाशाऽऽदयो कच्याः / इत्युक्तं षष्टं व्रतम्। अथ समस्तवताभ्युपगमख्यापनायाऽऽहइयेयाइ पंचमहव्वयाइं राईभोअणवेरमणछट्ठाइं अत्तहियट्टयाए उपसंपज्जित्ता णं विहरामि। इत्येतान्यनन्तरोदितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्टानि, किमित्याह- (अत्तहियद्वयाए त्ति) आत्मने जीवाय हितो मोक्षस्तदर्थमात्महितार्थाय, अनेनान्याथ तत्त्वतो व्रताभावमाह, तदभिलाषनुमत्या हिंसाऽऽदावनुमत्यादिभावात् / उप सामीप्येन संपद्याङ्गकृत्योपसम्पद्य विहरामि सुसाधुविहारेण वर्तेऽहं, तदभावेऽङ्गीकृतानामपि व्रतानामभावप्रसङ्गादिति कृता महाव्रतोच्चारणा। साम्प्रतं महाव्रतानामेव यथाक्रममतिचारानुपदर्शयितुमाहअप्पसत्था य जे जोगा, परिणामा य दारूणा। पाणाइवायस्स वेरमणे, एस वुत्ते अइक्कमे / / 1 / / रूपकम्। अप्रशस्ता हिंसाहेतुत्वादसुन्दराः, चशब्दो वक्ष्यमाणपदापेक्षया समुचयार्थः / ये कंचन योगा अयतचड् क्रमणभाषणाऽऽदयो व्यापाराः, परिणामनभूतघाताध्यवसायाः, चःपूर्वपदापेक्षया समुचये, दारुणा रौद्राः, प्राणातिपातस्य प्राणि(प्राण) प्रहाणस्य, विरमणे निवृत्तावेषोऽयमुक्तो भगवद्धि प्रतिपादितोऽतिक्रमोऽतिचारः, इति मत्वा तान् परिहरेदिति भावः / एवमुत्तरत्रापि भावना काया। द्वितीयव्रतमधिकृत्याऽऽह तिव्वरागाय जा भासा, तिव्वदोसा तहेव य। मुसावायस्स वेरमणे, एस वुत्ते अइक्कमे // 2 // तीव्ररागा उत्कटविषयानुबन्धा या काचिद्भाष्यत इति भाषा भारती, तीव्रद्वेषा उग्रमत्सरा, तथैव चेति समुच्चयपूरणार्थान्यव्ययानि, मृषावादस्य वितथभाषणस्य, विरमणे विरतावेषोऽयम् उक्तो जिनैर्गदितोऽतिक्रमो देशभङ्गः सर्वभङ्गो वेति भावः। तृतीयव्रतमाश्रित्याऽऽहउग्गहं च अजाइत्ता, अविदिण्णे य उग्गहे। अदिण्णादाणस्स वेरमणे, एस वुत्ते अइक्कमे // 3 / / अवगृह्यत इत्यवग्रह आश्रयः, तमयचित्वा तस्मात् स्वामिनः स्थामिसंदिष्टाद्वा सकाशादननुज्ञाप्य, तत्रैव यदवस्थानमिति गम्यते / तथा अविदत्ते वाऽवग्रहस्यामिनाऽवितीर्णेऽवग्रहे प्रतिनियताऽवग्रहमर्यादाया बहिरित्यर्थः / यच्चेष्टनमिति वाक्यशेषः। अदत्ताऽऽदानस्य विरमणे एष उक्तोऽतिक्रमो विराधनेत्यर्थ __ चतुर्थव्रतमगीकृत्याऽऽहसद्दारूवारसागंधा-फासाणं पवियारणा। मेहुणस्स वेरमणे,एस वुत्ते अइक्कमे ||4|| आकारस्येहाऽऽगमिकत्वात् शब्दाश्च प्रक्रमाद्वेणुवीणाकामित्तीसमुत्थकलध्वनयः, एवं रूपाणि ललनाऽऽदिमनोहराऽऽकृतयः रसाश्च मधुराऽऽदिविशिष्टाऽऽस्वादाः, गन्धाश्च स्त्रक्चन्दनाऽऽदिदिव्यपरिमलाः, स्पर्शाश्च मृदुतूलीयोषिदङ्गाऽऽदिस्पर्शास्ते तथा, तेषां प्रविचारणा रागात्प्रतिसेवना, मैथुनस्याब्रह्मासेवनस्य, विरमणे एष उक्तोऽतिक्रमोऽतिचारः, तस्मादेतान्न कुर्यादिति हृदयमिति। परिग्रहव्रतमुररीकृत्याऽऽहइच्छा मुच्छा य गेही य, कंखा लोभे य दारुणे। परिग्गहस्स वेरमणे, एस वुत्ते अइक्कमे / / 5 / / इच्छा मूर्छा च गृद्धिश्च काक्षा लोभश्च दारुण इत्येकार्थानि अबुधबोधनायोपन्यस्तानि। अथवा-इच्छा अनागताऽऽन्तरार्थप्रार्थना, मूच्र्छा च हतीतीतनष्ट पदार्थशोचना, गृद्धिश्व विद्यमानपरिग्रहप्रतिबन्धः, अप्राप्तविविधार्थप्रार्थना काड्क्षा, तद्रूपो लोभः काक्षा लोभश्च, चशब्दाः समुच्चये, किं विशिष्टो? दारुणस्तीव्रः, परिग्रहस्य विरमणे एष उक्तोऽतिक्रम इति पूर्ववत्। षष्ठव्रतमुररीकृत्याऽऽहअइमत्ते य आहारे, सूरखेत्ते य संकिए। राईभोयणस्स वेरमणे, एस वुत्ते अइक्कमे // 6 // साधूना हि कवलापेक्षया भोजनमानमिदम् / यदुत- "बत्तीस किर कवला, आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए, अट्ठावीसं भवेकवला॥१॥" षड्भागकल्पितजठरापेक्षयात्विदम्-"अद्धंअसणस्स सव्वं, जणस्स कुज्जा दवस्स दो भागे। वाउपवियारणट्ठा, छठभागं ऊणगं कुजा॥१॥" ततश्चास्माच्छास्त्रीयभोजनप्रमाणादधिकोऽतिमा