________________ पडिक्कमण 268 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण उवसंपन्नो जुत्तो, रक्खामि महव्वए पंच / / 6 / / (तेउत्ति) तैजसीम (पम्ह त्ति ) पद्माम (सुक्कत्ति) शुक्ला चेत्येतास्तिसस्त्रिसंख्याः , चशब्द : प्राग्योजित एव / लेश्याः परिणामविशेषाः, सुप्रशस्ताः शुभस्वरूपत्वात् शुभकर्मबन्धहेतुत्वाचारित्राऽऽदिगुणलाभकारणत्वात् शुभगतिनिबन्धनत्वाच सुन्दराः / किमित्याह - उपसंपन्न इत्यादि पूर्ववदिति / तत्र कृष्णा वर्णतः स्निग्धजीमूतगवलव्यालभ्रमरा जनाऽऽदिस मानवर्णः, रसतो रोहिणीपिचुमन्दकटुकनुम्बकाम्बकाऽऽदिसमधि कतमरसैः गन्धतः कुथितगोकडेवराऽऽदिसमधिक्तमगन्धैःस्पर्शतःक्रकचाऽऽदिसमधिकतमस्पर्श:, सकलकर्मप्रकृतिनिष्यन्दभूतैः कृष्णद्रव्यैर्जनितत्वात्कृष्णाभिधाना / नीला तु वर्णतो नीलाशोकगुलिकावैडूर्येन्द्रनीलचाषपिच्छाऽऽदिसमवणः, रसतो मरिचपिप्पलीनागराऽऽदिसमधिकतररसेः, गन्धतो मृततुरगशरीराऽऽदिसमधिकतरगन्धैः, स्पर्शतो गोजिहाऽऽ दिसमधिकतरकर्क शस्पर्शः सकलप्रकृतिनिष्यन्दभूतैर्नीलद्रव्यैर्जनितत्वान्नीलाभिधाना / कापोती तु वणेतोऽतसीकुसुमपारापतशिरोधराफलिनीकन्दलाऽऽदिधूमद्रव्यतुल्यवर्णः, रसतः तरुणाम्रवालकपित्थाऽऽदिसमधिकरसः, गन्धतः कुथितसरीसृपाऽऽदिसमधिकगन्धः, स्पर्शतः कठोरपलाशतरुपत्रादिसमधिकस्पर्शः सकलप्रतिनिष्यन्दभूतैःकपोताऽऽभद्रव्य निष्पिन्नत्वात्कापोती संज्ञा / तैजसी तुवर्णतो वह्निज्वालशुकमुखकिंशुकतरुणार्कहिड्गुलुकाऽदिलोहितद्रव्यसमानवर्णः, रसतः परिणताऽऽमसुपक्ककपित्थाऽऽदिरामधिकरसैः, गन्धतोविचकिलपाटलाऽऽदिसमधिकगन्धेः स्पर्शतःशाल्मलीफलतूलाऽऽदिसमधिकस्पर्श : तेजोवर्णद्रव्यैर्निष्पन्नत्वात्तैजसी संज्ञा / पद्मातुवर्णतो हरिद्राहरितालाऽऽदिपीतद्रव्यसमवर्णैः, रसतो वर वारुणीमध्वादिसमधिकरसैः, गन्धनः शतपत्रिकापुटपावागन्धाऽऽदिसमधिकतरगन्धैः, स्पर्शतो नवनीतरुताऽऽदिसमधिकतरसुकुमारस्पर्शः, पनागर्भाऽऽभद्रव्यैर्निष्पन्नत्वात्पद्माऽभिधाना। शुक्ला तु वर्णतः शकुन्देन्दुहारक्षीररजताऽऽदिसदृशवण :, रसतो मृद्वीकाखण्ड क्षीरखजूरशर्कराऽऽदिसमधिकतमशुभरसैः, गन्धतःकर्पूरमालतीमाल्यादिसमधिकतमसुरभिगन्धैः, स्पर्शतः शिरीषपुष्पाऽऽदिसमधिकतमसुकु मारस्पर्शः शुक्लद्रव्यैर्जनितत्वाच्छुक्लाऽभिधाना। पा०। (विशेषता लेश्याविस्तरः स्वस्वस्थाने) मणसा मणसचविऊ वायासचेण करणसचेण / तिविहेण वि सबविऊ, रंक्खामि महव्वए पंच!।७।। अस्य प्राकृतचूर्ण्यनुसारिणी व्याख्येयम्-मनसा शुभस्वभावरू-पेण चेतसा करणभूतेन रक्षामि महाव्रतानि पञ्चेति सर्वत्र योगः। किंविशिष्टः सन्नित्याह-(मणसचविउ ति) गनसः सत्यं मनःसत्यं मनःसंयम इत्यर्थः / स चाकुशलमनोनिरोधकुशलमनः प्रवर्तनलक्षणः, तं वेधि सम्यगासेवातो जानामीति मनःसत्यविद्वान, तथा-वाक्सत्येन कुशलाकुशलवचनो दीरणनिरोधलक्षणेन वाक्संयमेन करणभूतेन, तथाकरणसत्येन क्रियातथ्येन, कायसं यमेनेत्यर्थः / स च सति कार्य उपयोगतो गमनाऽऽगमनाऽऽदिविधानं तदभावे तु संलीनकरचरणाऽऽद्यवयवस्यास्थानं यदिति / अनेन च भङ्गत्रयाभिघाने नात्यदपि द्विकसंयोगभङ्ग त्रयं सूचितम्। तद्यथा-मनोवाक्सत्येन, मनःकायसत्यन, वाक्कायसत्येन चेति। तथा-(तिविहेण वि सच्चविउ ति) त्रिविधेनाऽपि मनोवाझायलक्षणेन करणेन सत्यविद्वान् संयमज्ञः, शुद्धसंयमपालय इत्यर्थः। अनेन च त्रिकसंयोगभङ्गः प्रदर्शित इत्येवं सत्यविकल्पेन संयम्भ रक्षामि परिपालयामि, महाव्रतानि पञ्चेति / / तथाचत्तारिय दुहसेज्जा, चउरो सन्ना तहा कसाया य। परिवज्जंतो रक्खामि महव्वए पंच / / 8 / / चतसश्चतुःसङ्ख्याः, चशब्दोऽभ्युचये, शेरते आस्वितिशय्याः, दुःखटः शय्याः दुःखशय्या, ताश्च द्रव्यतोऽतथाविधस्वरूपाः, भावतस्तु दुःस्थचित्ततया दुःश्रमणतास्वभावाः प्रवचनाश्रद्धान१परलाभप्रार्थनरकामाऽऽशंसन३स्नानाऽऽदिप्रार्थनाविशेषिता मन्तव्याः। (पा०) प्रथम दुःखशय्या प्रवचनाश्रद्धानरूपा / तथा द्वितीयाप रलाभप्रार्थनरूपा तथा तृतीया-कामाऽऽशंसनरूपा ! तथा चतुर्थी स्नानाऽऽदिप्रार्थनविशेषता च / पा०1 ('दुहसेज्जा' शब्दे चतुर्थभागे 2603 पृष्ठे गत तथा-चतस्रश्चतुःसङ्ख्याकाः का इत्याह-संज्ञानानि संज्ञा असातवेदनीयमोहनीयकर्मोदय-जन्यश्चेतनाविशेषाः / ताश्चेमाः-आहारसंज्ञा भयसंज्ञा 2, मैथुनसंज्ञा 3, परिग्रहसंज्ञाच 4 / (पा०) (आहारसह 'आहार-सण्णा' शब्दे द्वितीयभागे 527 पृष्ठे गता) (भयसंज्ञास्वरूप 'भयसण्णा' शब्देद्रष्टव्यम्) (मैथुनसंज्ञा मेहुणसण्णा' शब्दे) (परिरसंड 'परिग्गहसण्णा' शब्दे वक्ष्यते) तथा-कषायांश्चेति। तेन चतुर्विधप्रकारे कषायश्चि परिवर्जयन्निति / तत्र कृषन्ति विलिखन्ति कर्मक्षेत्रं सुस दुःखफ लयोग्य कलुषयन्ति वा जीवमिति निरुक्तविधिना कषायाः, उक्त च- 'सुहदुक्खबहुसईयं, कम्मक्खेत्तं कसंति ते जम्हा। कलुसति : च जीव, तेण कसाय ति वुचंति / / 1 / / " अथवा कषति हिनस्ति दहिइति कषः कर्म, भवो वा तस्याऽऽया लाभहेतुत्वाकर्ष वा आययन्ति गमयन्ति देहिन इति कषाऽऽयाः। उक्तंच-"कम्म कसं भवो वा, कसमओसिंजओ कसाया उ / कसमाययति च जओ गमयति कसं करायी ||1 // " ते खेमे, क्रोधो, मानो,माया लोभश्च (पा.) (क्रोधकपाट 'कसाय' शब्दे तृतीयभागे 363 पृष्ठे गतः) (मानकषायः 'माणकसाय शब्दे वक्ष्यते, 'माण' शब्दे च विस्तरः) (मायाकषायः 'माणकसाय शब्दे, 'माया' शब्दे च वक्ष्यते ) (लोभकषायः 'लोभ' शब्दे द्रष्टव्यः "परिवजंतो" इत्यादि पूर्ववत् // 8 // तथाचत्तारिय सुहसिज्जा, चउव्विहं संवरं समाहिं च। उवसंपन्नो जुत्तो, रक्खामि महव्वएपंच / / 6 / चतस्रश्चतुःसंख्याः / चः समुचये / का इत्याह-सुखदाः शरयः सुखशय्याः / एता दुःखशय्याविपरीताः प्रायः प्रागियावगन्तदया, (पा०) (चत्वारोऽपि सुखशय्याः 'सुहसेञ्जा' शब्दे वक्ष्यन्ते) तथाचतुर्विध चतुःप्रकारम् / कमित्याह-संवरं संयमम (पा०) (संवरस्य बहवो भेदाः 'संजम' शब्दे संवर' शब्दे च वक्ष्यन्ते) तथा- (समाहि चेति) समाधानं समाधिः प्रशस्तभावाविरोधलक्षणः, स च दर्शनज्ञानतपश्चारित्रविषयभेदाचतुर्विधः, दर्शनाऽऽदीनां समस्ताना वा अविरोध