________________ पडिक्कमण 286 - अभिघानराजेन्द्रः - भाग 5 पडिक्कमण सक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा। एवमिति प्रामुक्तप्रत्यारस्याने संपन्ने सति, किमित्याह भवति जायते, क इत्याह-भिक्षुर्वति-आरम्भत्यागाद्धर्मकायपरिपालनाय भिक्षणशीलो भिक्षुः / एवं भिक्षुक्यपि, पुरुषोत्तमो धर्म इति कृत्वा भिक्षुर्विशेष्यते / तद्विशेषणाने च भिक्षुक्या अपि द्रव्यानीत्याह-संयतविरतप्रतिहतप्रत्याख्यातपापकर्मातत्र समस्त्येन ततः संयतः सप्तदशप्रकारसंयमोपेतस्तथा विविधमनेकधा द्वादशविधे तपसि रतो विरतस्ततश्च संयतबासौ विरतश्च संयत-विरतः। तथा प्रतिहतं स्थितिहासतो ग्रन्थिभेदेन विनाशितं प्रत्याख्यातं च त्वभावतः पुनर्वद्ध्यभावेन निराकृतं पापमशुभं कर्म ज्ञानाऽऽवरणीयाऽऽदि येन स तथाविधस्ततः पुनः पूर्वपदेन सह कर्मधारयः / दिवा वा दिवसे वा, रात्रौ वा रजन्यां वा, एकको वा कारणिकावस्थायामसहायो वा, पर्षद्गतो वा साधुसंहतिमध्यवर्ती वा, सुनो या रात्रिमध्ययामद्वये निद्रागतो वा, जाग्रता निद्रावियुक्तो वेति। साम्प्रतं प्राणातिपातविरतिमेव स्तुवन्नाहएस खलु पाणाइवायस्स वेरमणे हिए सुहे खमे निस्सेसिए अणुगामिए सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए प्रतिप्पणयाए अपीडणयाए अपरियावणयाए अणोद्दवणयाए महत्थे महागुणे महागुभावे महापुरिसाणुचिण्णे परमरिसिदेसिए पसत्थेतं दुक्खक्खयाए कम्मक्खयाए मोक्खयाए बोहिलाभाए संसारुतारणाए त्ति कटु उवसंपज्जित्ता णं विहरामि। (एस ति) लिङ्गव्यत्ययादिदमधिकृतम, खलु निश्चयेन, प्राणातिपातस्येति विभक्तिव्यत्ययात्प्राणातिपाताज्जीवहिंसायाः (वेरमणे त्ति) विस्मणं निवृत्तिर्दर्तते / किमित्याह- (हिए त्ति) हितं कल्याणं तत्कारित्वाद्धितं पथ्यभोजनवत् / तथा-सुखं शर्म तद्धेतुत्वात्सुखं पिपासितशीतलजलपानवत् / तथा-क्षम युक्तं सङ्ग तमुचितरूपमिति यावत् / तथा- (निस्सेसिए त्ति) प्राकृतत्वेन यकारलोपात् निःश्रेयसो मोक्षस्तकारणत्वान्नेः- प्रेयसं तदेव निःश्रेयसिकम् / तथा-आनुगामिकमनुगमनशीलं भवपरम्पराऽनुबन्धिसुखजनकमित्यर्थः / कथमिदमेवविधमित्याह-सर्वेषां निःशेषाणां प्राणा इन्द्रियपञ्चकमनःप्रभृतित्रिविधवलोच्यासनिः श्वासाऽऽयुर्लक्षणा असवो विद्यन्ते येषां तेऽतिशवनार्थमत्वर्थी-यात्प्रत्ययविधानात्समग्रप्राणधारिणः प्राणाः, पञ्चेन्द्रियप्राणिन इत्यर्थः / तेषाम् / तथा-सर्वेषां समस्तानामभूवन् भवन्ति भदष्यिन्ति चेति भूतानि पृथिवीजलज्वलनपवनवनस्पतयः कालत्रयव्यापिसत्तासमन्वितास्तेषाम् / तथा-निरुपक्रमजीवितेन जीवन्तीति जीवाः देवनारकोत्तमपुरुषाऽसङ्ख्येयवर्षाऽऽयुस्तिर्य नरचरमशरीरिलक्षणा यथोपनिबद्धजीवनधर्माणस्तेषाम्। तथा-सर्वेषा लोकोपकारमारहेतुसत्योपेतत्वात्सत्त्वाः सोपक्रमाऽऽयुषस्तिर्य मनुष्याः असम्पूर्णप्राणभाजो द्वित्रिचतुरिन्द्रयाश्च तेषाम् / क्वाप्यमीषां परस्परमेवं विशेषो दृश्यते। यथा- "प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः / जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्या इतीरिताः" ||1) एकाथिकानि वैतान्यत्यादररक्षणीयताख्यापनाय नानादेशज्ञविनेयानुग्रहाय प्रयुक्तानीति / एतेषां च (अदुक्खणयाए त्ति) अदुःखनतया अदुःखोत्पादनेन, मानसिकासातानुदीरणेनेत्यर्थः। तथा- अशोचनतया शोकानुत्पादनेन। तथा-अजूरणतया शरीरजीर्णत्वाऽविधानेन, दृश्यन्ते चाऽऽरम्भिणोजना भारवाहनाऽऽहारनिरोधकशलताङ्कुशारानिपाताऽऽदिभिर्वृषभमहिषाश्वकरिकरभरासभाऽऽदीनां शरीराणि जूरयन्तोऽतस्तदकरणेनेति / तथा-अतेपनतया स्वेदलालाऽश्रुजलक्षरणकारणपरिवर्जनेन। तथा-अपीडनतया पादाऽऽद्यनवगाहनेन / तथा-अपरितापनतया समन्ताच्छरीर-सन्तापपरिहारतः / तथा-अनवद्रावणतया उत्त्रासनकरणाभावेन, मारणपरिहरणेन वा / किं च-इदं प्राणातिपातविरमणपदं महाथ महान् प्रभूतोऽर्थः फलस्वरूपाऽऽद्यभिधेयं यस्य तन्महार्थ महागोचरम् / तथा-महांश्वासौ गुणश्च महागुणः, सकलगुणाऽऽधारत्वान्महाव्रतानामिति / तथा-महानतिशायी अ अनुभावः स्वर्गापवर्गप्रदानाऽऽदिलक्षणं माहात्म्यं यस्य तन्महानुभावम् / तथामहापुरुषैस्तीर्थक रगणधराऽऽदिभिरुत्तमनरैरनुचीर्ण मेक दासे - वनात्पश्चादप्यासेवितं महापुरुषानुचीर्णम्। तथा-परमर्षिभिस्तीर्थकराऽऽदिभिरेव देशितं भव्योपकाराय कथितं परमर्षिदेशितम् / तथाप्रशस्तमत्यन्तशुभं सकलकल्याणकलापकारणत्वात्, यतश्चैवमतस्तत्प्राणातिपातविरमणं दुःखक्षयाय शारीरमानसानेकक्लेशविलयाय, कर्मक्षयाय ज्ञानाऽऽवरणाऽऽद्यदृष्टवियोगाय मोक्षाय, पाठान्तरतो मोक्षताये, परमनिःश्रेयसायेत्यर्थः / बोधिलाभाय जन्मान्तरे सम्यक्त्वाऽऽदिसद्धर्मप्राप्तये, संसारोत्तारणाय महाभीमभवभ्रमणपारगमनाय, मे भविष्यतीति गम्यते, इति कृत्वा इति हेतोः, उपसंपद्य तदेव सामस्त्येनाङ्गीकृत्य, विहरामि मासकल्पाऽऽदिना सुसाधुविहारेण वर्ते, अन्यथा व्रतप्रतिपत्तेर्वैयर्थ्यप्रसङ्गादिति। अथ व्रतप्रतिपत्तिं निगमयन्नाहपढमे भंते ! महव्वर उवडिओ मि सव्वाओ पाणाइवायाओ वेरमणं। प्रथमे भदन्त ! महाव्रते, किमित्याह-उप सामीप्येन तत्परिणामाऽऽपत्त्येत्यर्थः / स्थितो व्यवस्थितोऽस्मि अहं, ततश्च इत आरभ्य मम सर्वस्मान्निःशेषात्प्राणातिपाताजीवहिंसाया विरमणं निवृत्तिरिति। अत्र च भदन्त ! इत्यनेन गुर्वामन्त्रणवचसाऽऽदिमध्यावसानोपन्यस्तेन गुरुमनापृच्छय न किञ्चित्कर्त्तव्यं कृतं च तस्मै निवेदनीयमेवंतदाराधितं भवतीत्येतदाह / दोषाश्चेह प्राणातिपातकर्तृणां नरकगमनाल्पाऽऽयुर्बहुरोगित्वकुरूपाऽऽदयो वाच्याः / इत्युक्तं प्रथमं महाव्रतम्। इदानी द्वितीयमाहअहावरे दोच्चे भंते ! महत्वए मुसावायाओ थे रमणं, सव्वं भंते ! मुसावायं पच्चक्खामि, से कोहा वा 1 लोहा वा 2 भया वा 3 हासा वा 4, नेव सयं मुसं वएजा, ने