________________ पडिक्कमण 288 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण स्य सञ्चयो धारणं यत्रासावसंनिधिसशयस्तस्य / 16 तथाअविसंवादिनो दृष्टेष्टाविरोधिनः / पाठान्तरे वा अविसंवादितस्य सद्भूतप्रमाणाबाधितस्येत्यर्थः / 20 / तथा-संसारपारं भवार्ण-वतीरं गमयति तदारूढप्राणिनः पोतवत्प्रापयतीति संसारपारगामी तस्य, कप्रत्ययोपादानात् संसारपारगामिकस्य वा / 21 / तथा-निर्वाणगमनं मुक्तिप्राप्तिः, पर्यवसाने आनुषङ्गिकसुरमनुजसुखानुभवपर्यन्ते,फलं कार्य यस्यासौ निर्वाणगमनपर्यवसानफलस्तस्य।२। एवंविधस्य धर्मस्य पूर्व प्रतिपत्तिकालात्प्राक् अज्ञानतया सामान्यतोऽवगमाभावेन / 1 / तथाऽश्रवणतया प्रज्ञापकमुखादनाकर्णनभावेन / अथवा-श्रवणेऽपि पअबोहिए तिब अबोध्या अबोधेन यथावद्धर्मस्वरूपापरिज्ञानेन / 3 / अथवा-व्यवहारतः श्रवणावगमसद्भावेऽपि पअणभिगमेणं तिब अनभिगमेन, सम्यगप्रतिपत्त्येत्यर्थः / अथवा- (अभिगमेण व त्ति)विभक्तिव्यत्ययादभिगमेवा सम्यग्ध प्रतिपत्तौ वा प्रमादेन मद्यविषयाऽऽदिलक्षणेन।१।तथा-रागद्वेषप्रतिबद्धतया रागद्वेषाऽऽकुलतयेत्यर्थः।श तथाबालतया शिशुतया अपण्डिततया वा।३। तथा-मोहतया विचित्ततया मोहनीयकम्र्माऽऽत्ततया वा / 4 / तथा-मन्दतया कायजडतया, अलसतयेत्यर्थःश तथा- (किड्डयाए त्ति) कीडतया केलीकिलतया, द्यूताऽऽदिक्रीडनपरतयेत्यर्थः / 6 / तथा-त्रिगौरवगुरुकतया ऋद्धिरससा'तलक्षणगौरवत्रिकभारिकतया / 7 / तथा-चतुःकषायोपगतेन क्रोधाऽऽधुदयवशगमनेनेत्यर्थः।।तथा-पञ्चेन्द्रियाणां स्पर्शनाऽऽदिहृषीकाणामुप सामीप्येन वश आयत्तता, वर्णलोपात्पञ्चेन्द्रियोपवशस्तेन यदा-मार्त्तध्यानं, विड्वलतेत्यर्थः, पञ्चेन्द्रियोपवशात , तेन / / / तथा- (पडुप्पन्न भारियाए त्ति) इह प्रत्युत्पन्नं वर्तमानमुत्पन्नं वोच्यते, ततश्च प्रत्युत्पन्नश्वासौ भारश्च, कर्मणामिति गम्यते। प्रत्युत्पन्नभारः, स विद्यते यस्यासौ प्रत्युत्पन्नभारी, तस्य भावः प्रत्युत्पन्नभारिता तया, कर्मगुरुतयेत्युक्तं भवति। पाठान्तरस्तुप्रतिपूर्णभारितया, भावार्थः पूर्ववत्।१०। तथासातात्सातवेदनीयकर्मणः सकाशात्सुखं शर्मसातसुखम्, अथवा-सातं च तत्सुखं च सातसुखमतिशयसुखं तदनुपालयताऽनुभवता, सुखाऽऽसक्तमनसेत्यर्थः / पाठान्तरेण तु-सदासर्वकालं सुखमनुपालयतेति व्यक्तम्।११। (इह व त्ति) विन्दुलोपात् इह वाऽस्मिन्ननुभूयमाने भवे मनुष्यजन्मनि, अन्येषु वा अस्माजन्मनोऽपरेषु भवग्रहणेषु जन्मोपादानेषु प्राणातिपातः कृतो वा स्वयं निर्वर्तितः, कारितो वाऽन्यैर्विधापितः, क्रियमाणो वा विधीयमानः परैरन्यैः समनुज्ञातोऽनुमोदितस्तं प्राणातिपातं निन्दामि स्वप्रत्यक्षमेव जुगुप्से, तथा गर्हामि गुरुसमक्षं जुगुप्से, त्रिविधं कृतकारितानुमतिभेदात्त्रिप्रकारं त्रिविधन त्रिप्रकारेण करणेन / तदेवाऽऽहमनसा वाचा कायेनेति प्रतीतमेव // (24) साम्प्रतं त्रैकालिकप्राणातिपातविरतिं प्रतिपादयन्नाह अईयं निंदामि, पड़प्पन्नं संवरेमि,अणागयं पच्च-क्खामिसव्वं पाणाइवायं। अतीतमतीतकालकृतं निन्दामि / तथा-प्रत्युत्पन्नं वर्तमानसमयसम्भविन संवृणोमि, भवन्तं वारयामीत्यर्थः। तथा अनागतं भविष्यत्कालविषयं प्रत्याख्यामीति पूर्ववत् / किं तदित्याह-सर्व समस्तं न पुनः / परिस्थूरमेव प्राणातिपातं जीवितविनाशम् / इदमेवानागतप्रत्याख्यानं विशेषयन्नाह जावज्जीवाए अणिस्सिओहं नेवसयं पाणे अइवाएजानेवेनेहिं पाणे अइवायावेजा पाणे अइवायंते वि अन्ने न समणुजाणामि। यावज्जीवं प्राणधारणं यावत् अनिश्रितोऽहम् इहपरलोकाशंसाविप्रमुक्तोऽहं ममेतो व्रतानुपालनात्किञ्चिदमरसुखं वा भूयादित्याकाङ्क्षारहित इत्यर्थः / नैव स्वयं प्राणानसून (अइवाएज्ज त्ति) उक्तहेतोरतिपातयामि विनाशयामि, नैवान्येः प्राणान् (अइवा-यावेज त्ति) अतिपातयामि, प्राणानतिपातयतोऽप्यन्यान्न समनुजानामि, क्वापि "नेव सयं" इत्यादि पदानि न दृश्यन्ते / कतिसाक्षिकं पुनरिदं प्रत्याख्यानमिति चेत् ? उच्यते-अर्हदा-दिपञ्चकसाक्षिकम्। एतदेव दर्शयतितं जहा-अरहंतसक्खियं सिद्धसक्खियं साहसक्खियं देवसक्खियं अप्पसक्खियं / तद्यथेत्युपदर्शनार्थः, अर्हन्तस्तीर्थकरास्तेसाक्षिणःसमक्ष-भाववर्त्तिनो यत्र तत्, "शेषाद्वा" // 73175 / इतिकप्रत्यय-विधानादर्हत्साक्षिक प्रत्याख्यानक्रियाविशेषणं चैतत्। एवमन्यत्रापि द्रष्टव्यम् / तथाहिइहेक्षत्रवर्त्तिनोऽन्यक्षेत्रवर्तिनो वा तीर्थकराः केवलवरज्ञानप्रधानचक्षुषा ममेदं प्रत्याख्यानं पश्यन्तीत्यतस्तत्साक्षिकमुच्यते, एवं सिद्धा मुक्तिपद प्राप्ताः साक्षिणो दिव्यज्ञानभावेन समक्षभाववर्तिनो यत्र तत्सिद्धसाक्षिकम्!आह उभयप्रत्यक्षभावेलोके साक्षिकव्यवहारो रूढः, नचात्र प्रत्याख्यानकर्तुः सिद्धाः प्रत्यक्षाः, अतीन्द्रियज्ञानगोचरत्वात्तेषां, तत्कथं ते तस्य साक्षिणः?| उच्यते -श्रुतवासितमतेस्तत्स्वरूपज्ञस्य तस्य ते भावकल्पनया प्रत्यक्षा इवेति कथं न साक्षिण इति ? / तथा-साधवो मुनयस्ते सातिशयज्ञानवन्त इतरे वा विरतिप्रतिपत्तिसमयसमीपवर्तिनः साक्षिणो यत्र तत्साधुसाक्षिकम्। तथा-देवा भवनपत्यादयस्ते जिनभवनाऽऽद्यधिष्ठायिनस्तिर्यग्लोकसञ्चरिष्णवो वा विरतिप्रतिपत्तिक्रमभाविनश्चैत्यवन्दनाऽऽद्युपचारात्समीपमुपगताः स्वस्थानस्था वा कश्चिद्वीपसमुद्रान् प्रति प्रयुक्तावधयः साक्षिणो यत्र तदेवसाक्षिकम् / यदाह चूर्णिकार:- "विरइपडिवत्तिकाले चिइवंदणाइणोवयारेण अवस्समहासंनिहिया देवया सन्निहाणम्मि भवइ अतो देवसक्खियं भणियं / अहवा-भवणवइजोइसवेमाणिया देवा सट्ठाणत्था चेव अहापवत्तोवहिणा दीवं दीवपञ्जवेहिं समुदं समुद्दपज्जावेहिं बहवे नारयतिरियमणुयदेवे य विविहभावसंपउत्ते पेच्छमाणा साहुं पि पाणाइवायविरइं पडिवजमाणं पेच्छंति, विसेसओ तिरियजम्भगा दियराओ दिसिविदिसासुं चरंति त्ति / " तथाऽऽत्मा स्वजीवःस स्वसंवित्प्रत्यक्षविरतिपरिणामपरिणतः साक्षी यत्र तदात्मसाक्षिकम् / इह च ससाक्ष्यं कृतमनुष्ठानमत्यन्तदृढं जायत इति साक्षिणः प्रतिपादिताः। पृथग्जनेऽपि प्रतीतमेवैतद्यदुत ससाक्षिको व्यवहारो निश्चलो भवतीति। एवं च कृते यत्संपद्यतेतदाहएवं हवइ भिक्खू वा भिक्खुणी वा संजयविरयपडिहयप