________________ पडिक्कमण 287 - अमिधानराजेन्द्रः - भाग 5 पडिक्कमण श्रेषु प्राणिगणेषु, संभवतीति शेषः / क्षेत्रतो, णमित्यलद्वारे प्राणतिपातः सर्वलोके तिर्यग्लोकाऽऽदिभेदभिन्ने भुवने भवतीति। कालतो, णमिति प्रास्यत्, प्राणतिपातो दिवा वासरे, वा समुच्चये। रात्रौ रजन्या,वा समुच्चय श्व स्यादिति / भावता, णमिति प्राग्वदेव, प्राणातिपातो रागेण मांसाऽऽदिभक्षणाऽऽद्यभिप्रायलक्षणेन, द्वेषेण शत्रुहननाऽऽदिपरिगामस्वरूपेण, वाशब्द समुच्चये, स्यादिति द्रव्यभावपदसमुत्था चतुर्भड्रिक चात्र / तद्यथा-द्रव्यतो हिंसा भावतश्च 1, तथा-द्रव्यतो न भावतः२. तथा-भावतो न द्रव्यतः३. तथा-न-द्रव्य-तो न भावत इति ' / तत्रयं भङ्गकभावार्थ:- द्रव्यतो, भावतश्चेति / 'जह केइ पुरिसे मियवहाए परिणते मियं पसित्ता आयन्नायड्डियकोदण्डजीवे सरं निसिरेज्जा, से य मिगे तण सरेण विखे मए सिया, एसा दव्वओ हिंसा, पात्रओ वि!' या पुनर्रव्यतो न भावतःसा खल्वीर्याऽऽदिसमितस्य साधोः कारणे गच्छत इति। उक्तं च - "उच्चालियाम्म पाए, इरियासमियस्स संकमट्ठाए। वावज्जेज कुलिंगी, मरेज्जत जोगमासज्ज / / 1 / / नउ तस्स तन्निमित्तो, बंधो सुहुमो विदेसिओ समए। अणवज्जो उवओगे-ण सव्वभावेण सो जम्हा॥२॥" इत्यादि। या पुनभावतो न द्रव्यतः सेयम् - 'जहा केइ पुरिसे मंदमंदप्पगासे पएसे संठिय ईसिं वलिपकार्य रज्जु पासित्ता एस अहि त्ति तत्थ हणणपरिणानपरिणए निकहिया सिपत्ते दुयं दुर्य छिदिज्जा, एसा भावओ हिंसा न दव्वओ। चरमभङ्गस्तु शून्य इति। एवं प्राणातिपातं भेदतोऽभिधायाऽथ तस्यैवातीतकाल-विहितस्य सविशेषनिन्दाप्रतिपादक सूत्रमाहजंमए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सबाहिट्ठियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरन्नसोवनियस्स उवसमप्पभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स मिक्खावित्तिस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निव्वियारस्स निवित्तीलक्खणस्स पंचमहव्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइयस्स संसारपारगामिस्स निव्वाणगमणपज्जवसाणफलस्स पुट्विं अणाणयाए असवणयाए अवोहिए अणभिगमेणं अभिगमेण वा पमाएक रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किडुयाए तिगारवगरुयाए चउक्क साओवगएणं पंचिं दियओवसट्टे णं पडुप्पन्नभारियाए सायासोक्खमणुपालयंतेणं इह वा भवेअन्नेसु वा भवग्गहणेसु पाणाइवाओ कओ वा काराविओवा कीरंतो वा परेहि समणुण्णाओ / तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए काएणं / / अत्र च यो मयाऽस्य धर्मस्य केवलिप्रज्ञप्ताऽऽदिद्वाविंशतिविशेषपविशेषितस्य पूर्वमज्ञानताऽऽदिभिश्चतुर्भिः प्रमादाऽऽदिभिश्चैकादशभिः कारणः प्राणातिपातः कृतस्तं निन्दामीत्यादिसंबन्धो द्रष्टव्यः (जति) | विभक्तिव्यत्ययाद्यः प्राणातिपात इति योगः / भाषामात्रे वा यदिति पदं व्याख्येयम् / मयेति प्रतिक्रामकसाधुरात्मान निर्दिशति / अस्य स्वहृदयप्रत्यक्षस्य धर्मस्य प्रक्रमात्सर्वचारित्राऽऽत्मकस्य, अत्र च- "जं पियमए इमस्स धम्मस्स" तथा "जं पिय इमं अम्हेहिं इमस्सधम्मस्स'' इत्यादि पाठान्तराण्युक्तानुसारतः स्वयं व्याख्येयानीति / किंविशिष्टस्य ? केवलिप्रज्ञप्तस्य सर्वज्ञोपदिष्टस्य / 1 / तथा-अंहिसा प्राणिसंरक्षणं लक्षणं चिहं यस्यासौ अहिंसालक्षणः सत्त्वानुकम्पानुमेयसंभव इत्यर्थस्तस्य / 2 / तथा-सत्येनावितथभाषणेनाधिष्ठितः समाश्रितः सत्याधिष्टितः सत्यवचनव्याप्त इत्यर्थस्तस्य।३।तथा-विनयो विनीतता मूल कारण यस्यासौ विनयमूलो विनयप्रभव इत्यर्थस्तस्य / 4 / तथा क्षान्तिः क्षमा प्रधाना सारभूता यस्यासौ क्षान्तिप्रधानस्तस्य 15 तथा हिरण्यं रजतं सौवर्णिकं सुवर्णमयं कनककलशाऽऽदि, न विद्यते हिरण्वसौयर्णिक यत्राऽसौ अहिरण्यसौवर्णिकः, उपलक्षणत्वात्सर्वपरिग्रहरहित इत्यर्थस्तस्य / 6 / तथोपशम इन्द्रियनोइन्द्रियजयस्तस्मात्प्रभवो जन्मोत्पत्तिर्यस्यासौ उपशमप्रभव इन्द्रियमनोनिग्रहलभ्य इत्यर्थस्तस्य। 7 / तथा-नवब्रह्मचर्याणि गुप्तिशब्दलोपात् वसतिकथाऽऽद्यानवब्रह्मचर्यगुप्तयस्ताभिर्गुप्तः सरक्षितो नवबृह्मचर्यगुप्तिगुप्तस्तस्य।८। तथा-न विद्यन्ते पचमानाः पाचका यत्रासौ अपचमानः, पाकक्रियाविनिवृत्तसत्वासेवित इत्यर्थः / अथवा-पचने पचमानो, न पचमानोऽपचमानो धर्मो , धर्मधर्मिणोरभेदोपचारात्, एवमन्यत्रापि द्रष्टव्यम्।। अत एव भिक्षावृत्तेर्भिक्षया भक्ताऽऽदेः परतो याचनेन वृत्तिर्वर्तनं धर्मसाधक.. कायपालनं यत्रासौ भिक्षावृत्तिस्तस्य / 10 / तथाकुक्षावेव बहि: सञ्चयाभावाज्जठर एव शम्बलं पाथेयं यत्रासौ कुक्षिशम्बलस्तस्य।११। तथा-निर्गतमनेः पावकाच्छरणं शीताऽऽदिपरित्राणं यत्र। अथवा-निर्गते स्वीकाराभावादग्निशरणे वह्निभवने यत्रासौ निरग्निशरणः / अथवानिर्गतमग्रेः स्मरणं यत्रासौ निरग्निस्मरणस्तस्य।१शतथा-संप्रक्षालयति कर्ममलं शोधयतीत्येवंशीलः सम्प्रक्षाली, तस्य, कप्रत्ययोपादानाद्वा सम्प्रक्षालिकस्य, सम्प्रक्षालितस्य वा सर्वदोषमलरहितस्य / 13 / अथपतथाब त्यक्ता हानि नीता अभावमापादिता इति यावद्दोषा मिथ्यात्वाज्ञानाऽऽदिदूषणानि येनासौ त्यक्तदोषः / अथवा-त्यक्तो द्वेषोऽप्रीतिलक्षणो यस्मिन्नसौ त्यक्तद्वेषस्तस्य।१४। अत एव गुणग्राहिणो गुणग्रहण-शीलस्य, कप्रत्ययविधानाद् गुणग्राहिकस्य वा पाठान्तरम्। तथाहि-प्रकृतधर्मचारिणो गुणवद्गुणोपबृंहणपरा एव भवन्त्यन्यथा धर्मस्यैवाभावप्रसङ्गात् / यदाह- "नो खलु अप्परिवडिए, निच्छवओ मइलिए व सम्मत्ते / होइ तओ परिणामो, जुत्तोणुवबूह-णाईया // 1 // " / 15 / तथा-निर्गतो विकारः कामोन्मादलक्षणो यस्मादसौ निर्विकारस्तस्य / 16 / तथा-निवृत्तिलक्षणस्य सर्वसावद्ययोगोपरमस्वभावस्य 117 / तथा-पञ्चमहाव्रतयुक्त-स्येति प्रतीतं, नवरम्-अहिंसालक्षणस्येत्याधभिधानेऽप्यस्याभिधानं महाव्रतानां प्राधान्यख्यापनार्थमनुक्तमहाव्रतसंग्रहार्थ च। तथाहि-नात्रादत्ताऽऽदानं कण्ठतः के नापि विशेषणेनाभिहितमतो युज्यते अस्य विशेषणस्योपन्यास इति / 18| तथान विधते संनिधिर्मोदकोदकखज्जूरहरीतक्यादेः पर्युषित