SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण 260- अभिधानराजेन्द्रः - भाग 5 पडिक्कमय वन्नेहिं मुसं वायावेज्जा, मुसं वयंते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि,न | कारवे मि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि॥ अथेति प्रथममहाव्रतानन्तरे अपररिमन्नन्यस्मिन् द्वितीये सूत्रक्रमप्रामाण्याद् द्विसङ्ख्ये, द्वितीयस्थानवर्तिनीत्यर्थः। भदन्त ! महाव्रते, किमित्याह-मृषावादादलीकभाषणाद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वक सर्वथा निवर्तन, भगवतोक्तमिति वाक्यशेषः / स च मृषावादश्चतुर्विधः। तद्यथा सद्भावप्रतिषेधः 1, असद्भावोदावनम् 2, अर्थान्तराभिधानम् 3, गहविचनं च 4, तत्र सद्भावप्रतिषेधो यथा- नास्त्यात्मा, नास्ति पुण्य पापं वेत्यादि।" मृषात्वं चास्याऽऽत्माऽऽद्यभावेदानध्यानाध्ययनाऽऽदिसर्वक्रियावैयर्थ्यप्रसङ्गात्, जगद्वैचित्र्याभावप्रसङ्गाच / असद्भावोद्भावन यथा- 'श्यामाकतन्दुलमात्र आत्माललाटरथो, हृदयदेशस्थः, सर्वगतो वेत्यादि।" अलीकता चास्य वचसः श्यामाकतन्दुलमात्रे ललाटस्थे हृदयदेशस्थे वाऽऽत्मनि सर्वशरीरे सुखदुःखानुभवानुपपत्तेर्निरात्मनि वस्तुनि वेदनाया अभावात्, सर्वजगह्यापित्ये सर्वत्र शरीरोपलम्भः सुखदुःखानुभवश्वाविशेषेण स्यान्न चैव दृश्यते तस्मादलीकतेति / अर्थान्तराभिधानम् ''गामश्वं बुदाणस्येत्यादि / गर्हावचनं तु-काणं काणमेव वदत्यकाणमपि वा काणमाह / एवमन्धकुब्जदासाऽऽदिष्वपि भावनीयम् / अथवा-परलोकमड्लीवृत्य गर्हि वचनं गहविचनम् / तच्च- "दम्यन्तां बलीवर्दाऽऽदयः, प्रदीयतां कन्या वरायेत्यादि।" यतश्चैवमत उपादेयमेतदिति विनिश्चित्य सर्व समस्तं भदन्त ! मृषावादमनृतवचनं प्रत्याख्यामि / (से त्ति) तद्यथा-क्रोधाद्वा कोपात्, लोभादा अभिष्वङ्गात्। आद्यन्तग्रहणाच्च मानमायापरिग्रहो वेदितव्यः / भयावा भीतेः, हास्याद्वा हसनात्सकाशात्, अनेन तु प्रेभद्वेषकलहाभ्याख्यानाऽऽदिपरिग्रहः / वाशब्दाः समुचये। अरमात्किभित्याह- (नेव सय मुसं वएज्ज त्ति) नैव स्वयमात्मना, मृपा मिथ्या, वदामि वच्मि, नैवान्यैः परै{षा वितथम्. (वायावेज्ज ति) वादयामि भाषयामि, मृषावदतोऽपि भाषमाणानप्यन्यानपरान् न नैव समनुजानामि अनुमोदयामि / कथमित्याह-यावज्जीवं या वत्प्राणधारणम्, त्रिविधं कृतकारितानुमतिभेदात् त्रिप्रकारं त्रिविधेन मनःप्रभृतिना त्रिप्रकारेण करणेन / तदेवाऽऽहमनसा, वाचा, कायेनेति। अस्य च करणस्य कर्मोक्तलक्षणो मृषावाद-स्तमपि वस्तुतो निराकार्यतया सूत्रेणेव दर्शयन्नाह-न करोमि स्वयं, न कारयाम्यन्यैः, कुर्वन्तमप्यन्यं न समनुजानामि / तथा तस्य त्रिकालभाविनोऽधिकृतमृषावादस्य संबन्धिनमतीतमवयवं भदन्त! प्रतिक्रमामि भूतान्मृषावादानिवर्तेऽहभित्युक्तं भवति / तस्माच्च निवृत्तिर्यत्तदनुमतेविरमणमिति / तथा निन्दामि गर्हामीति। अत्राऽऽत्मसाक्षिकी निन्दापरसाक्षिकी गहाँ / आह च- "मणसा मिच्छादुकाडकरणं भावेण इह पडिक्कमणं / सचरित्तपच्छयावो, निंदा गरिहा गुरुसमक्खं // 1 // " सचरित्रस्य स्वप्रत्यक्षमेव पश्चात्तापो निन्देति / किं जुगुप्से, इत्याह-आत्मानमतीतमृषावादभाषिणं स्वं, तथा व्युत्सृजामि भूतमृषा. वादं परित्यजामि, इह च क्रोधाद्वा भयाद्वेत्यादिना भावतो मृषावादोऽभिहितोऽनेन चैकग्रहणे तज्जातीयग्रहणमिति न्यायाच्चतुर्विधो मृषाया उपलक्षित इति। अतस्तदभिधानायाऽऽह से मुसावाए चउव्विहे पन्नत्ते / तं जहा-दव्वओ, खित्तओ. कालओ, भावओ।दव्वओणं मुसावाए सव्वदव्वेसु, खेत्तओ मुसावाए लोए वा अलोए वा, कालओ णं मुसावाए दियाद राओवा, भावओ णं मुसावाए रागेण वा दोसेण वा / / (से त्ति) स पूर्वाभिहितो मृषावादश्चतुर्विधः प्रज्ञप्तः। तद्यथा-द्रव्या द्रव्यप्राधान्यमाश्रित्य 1, क्षेत्रतः क्षेत्रमड़ीकृत्य 2, कालतः कालं प्रर्तक 3, भावतो भावमधिकृत्य 4 | द्रव्यतो, णमित्यलङ्कारे, मृषावर सर्वद्रव्येषु, अन्यथाप्ररूपणतो धर्माधर्माऽऽदिसमस्तपदार्थेषु। 1 / क्षेत्रन' णमिति सर्वत्रालङ्कारमात्रे मृषावादः लोके वा लोकविषये, अलोक : अलोकविषये / / कालतो मृषावादोदिवा वा दिवसे अधिकरण विषयभूते वा, रात्रौ वा रजन्यामाधारभूतायां वा / 3. भावतो मृषावादरागेण वा मायया लोभलक्षणेन वा, तत्र मायया अग्लानोऽपि ग्लाने ममानेन कार्यमिति वक्ति भिक्षाऽऽटनपरिजिहीर्षया वा पादपीडा ममें भाषते इत्यादि / लोभेन तु शोभनतराऽन्नलाभे सति प्रान्तस्यैषणीत्वेऽप्यनेषणीयमिदमिति ब्रूते इत्यादि। द्वेषेण वा क्रोधमानस्वरूपेण, क्रोधेन वदतित्वं दास इत्यादि / मानेन तु अबहुश्रुत एव बहुश्रुतेःहमित्यादि / उपलक्षणत्वाद्यहास्याऽऽदयोऽपीह द्रष्टव्याः ! न. भयात्किञ्चिद्वितथं कृत्वा प्रायश्चित्तभयान कृतमित्यादि भाषते !? हास्याऽऽदिष्वपि वाच्यमिति / 4 / द्रव्यभावपदप्रभवा चतुर्भगि का इन द्रष्टव्या। सा पुनरियम्- "दव्वओ नामेगे मुसावाए, नो भावओ। भाज नाभेगे मुसावाए, नो दव्वओ। एगे दव्वओ वि, भावओ वि। एगे नोदव्या नो भावओ। तत्थ कोइ कंचिहिं सुज्जुओ भणइइओ तए पुसमिगाइ बोलितगा दिट्ट त्ति ? / सो पुण दयाए दिवहि वि भणइ-न दिट्ट नि.. दव्वओ मुसावाओ, न भावओ / अवरो मुसं भणिहामि त्ति परि सहसा सच्चं भणइ एसो भावओ, नदव्वओ। अवरो मुसं भणिहामि परिणओ मुसं चेव भणइ, एस दव्वओ वि, भावओ वि। चरिमभंग सुन्नो ति" // जं मए इमस्स धम्मस्स के वलिपन्नत्तस्स अहिंसालक्खणस सच्चाहिट्ठियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरम सोवन्नियस्स उवसमप्पभवस्स नवबंभचेरगुत्तस्स अपय माणस्स भिक्खावित्तिस्स कुक्खीसंबलस्स निरग्गिसरणस संपक्खालियस्स चत्तदोसस्स गुणग्गहियस्स निटिवयारत निवित्तीलक्खणस्स पंचमहव्वयजुत्तस्स असंनिहिसंचयन अविसं वाइस्स संसारपारगामिस्स निव्वाणगमपपत्र वसाणफलस्स पुटिव अण्णाणयाए असवणयाए अबोनि अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धया बालयाए मोहयाए मंदयाए किडुयाए तिगाखगुरुययाएर
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy