________________ पडिक्कमण 285 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण चित) आइसघाओ अस्टविए रयणे पडिबंधो न किज्जइ, संठविए चेव किजइ। एवं पढियकहियाइाहे असाहिए सीसे न वयावरोवणं किजइ, सोहिए चेव कबइ। असोहिए य करणे गुरुणो दोसो, सोहियापालणे सीसस्सदोसो।' इति कृतं प्रसङ्गेन / प्रकृतमुच्यते-तत्र यदुक्तं सर्व भदन्त ! प्राणातिपातं प्रत्याख्य मिलदेतद्विशेषताऽभिधित्सुराह-(से सुहमं वेत्यादि) 'से' शब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थः, स चोपन्यासे / तद्यथा-सूक्ष्म वा बादरं वा वसं वा स्थावरं वा / अत्र सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकांदयात्सूक्ष्मः, तस्य कायेन व्यापादनासंभवात्, बादरोऽपि स्थूलो, वाशब्दो परस्परापेक्षया समुचये, स चैकैको द्विधात्रसः, स्थावरश्च / तत्र सूक्ष्मस्वस: कुन्थ्वादिः, स्थावरोवनस्पत्यादिः, बादरस्तुत्रसो गवादिः, स्थावरः पृथिव्यादिः। अत्रापि वाशब्दौ समुच्चये। एतान्पूर्वोक्तान् नैव स्वयमात्मन प्राणिनो जीवान (अइवाएज त्ति ) विभक्तिव्यत्ययादतिपातयामि विनाशयामि, मारयामीति यावत्, नैवान्यैरात्मव्यतिरिक्तजनैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान् परान्न समनुजानाम्यनुमोदयामि / पा० / (विशेषतः प्राणतिपातस्वरूप 'पाणाइवाय शब्दे वक्ष्यते) कथमित्याहजावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि। (जावजीवार इत्यादि) "जावज्जीवाए त्ति' प्राकृतत्वाज्जीवन जीवः प्राणधार, यावजीवो यावज्जीवम् / "यावदियत्त्वे" / / 3 / 1 / 31 / / (सिद्धहे०) इत्यनेनाव्ययीभावसमासः / ततश्च यावज्जीवं प्राणधारणं यावत् / अथवा-अलाक्षणिकवर्णलोपाद्यावज्जीवं भावो यावज्जीवता, तया यावजीवतया आ प्राणेपरमादित्यर्थः / परतस्तुन विधिर्नापि प्रतिषेधो, विधावाशंसादोषप्रसङ्गात्, प्रतिषेधे तु सुराऽऽदिषु अविरतेषूत्पन्नस्य भङ्गप्रसङ्गात् किमित्याह-तिस्त्रो विधा यस्य, प्राणातिपातस्येति गम्यते, असौ त्रिविधस्तं त्रिविधेन, एतदेव दर्शयतिमनसाऽन्तः-करणेन, धाचा वचनेन, कायेन शरीरेण / अस्य च करणस्य कर्म उक्तलक्षणः प्राणातिपातः, तमपि वस्तुतो निराकार्यतया सूत्रेणैवदर्शयन्नाह-न करोमि स्वयं, न कारयाम्यन्यैः, कुर्वन्तमप्यन्यं न समनुजानामि नानुमन्येऽहमिति। अत्राऽऽह-किं पुनः कारणमुद्देशक्रममतिलध्य व्यत्ययेन निर्देशः कृत? इति। अत्रोच्यतेकरणाऽऽयत्ता कृताऽऽदिरूपा क्रिया प्रवर्तत इति दर्शनार्थम् / तथाहि-कृताऽऽदिरूपा क्रिया मनः-प्रभृतिकरणवशा एव करणानां भावे क्रियाया अपि भावात् अभावे चाभावात्करणानामेव तथाक्रि यारूपेण परिणतेरितिभावः / अपरस्त्वाह-न करोमिन कारयामि कुर्वन्तं न समनुजानामीत्येतावता ग्रन्थेन गतेऽपि अप्यन्यमित्यतिरिच्यते, तशा चातिरिक्तेन सूत्रेण नार्थ इति ? 1 अत्रोच्यते-साभिप्रायकमिदमनुक्तस्याप्यर्थस्य संग्रहार्थ, यस्मात्संभावनार्थोऽयमपिशब्द उभयपदमध्यस्थ एतदावेदयति-यथा कुर्वन्तं नानुजानामि, एवं कारयन्तमप्यन्यमनुज्ञापयन्तमप्यन्यं न समनुजानामिति तथा यथा वर्तमानकाले कुर्वन्तमन्यं न समनुजानामि, एवमपिशब्दादतीतकाले कृतवन्तमपि अनुज्ञापितवन्तमपि, एवमनागतकालेऽपीति, तथा न क्रियाक्रियावतोर्भेद एवातो न केवला क्रिया संभवतीति ख्यापनार्थमन्यग्रहणमिति / तथा तस्य त्रिकालभाविनोऽधिकृतप्राणातिपातस्य संबन्धिनमतीतमवयवं, न तु वर्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणत्वात्, भदन्तेति गुर्वामन्त्रणं प्राग्वत्, प्रतिक्रमामि मिथ्यादुष्कृतं तत्र प्रयच्छामीत्युक्तं भवति, तच्च द्रव्यतो भावतश्च संभवति। तत्राऽऽद्ये कुलालोदाहरणम् - "किर एगया एगस्स कुंभगारस्स कुडीए साहुणो ठिया। तत्थेगो चिल्लगो चवलत्तणेण तस्स कुंभगारस्स कोलालाणि अंगुलियधणुगएणं पाहाणेहिं विधेइ / कुंभगारेण पडिजग्गिओ दिट्ठो भणिओखुड्डगा ! कीस मे कोलालाणि काणेसि? खुड्डगो भणइ-मिच्छामि दुक्कडं न पुणो विधिस्सं मणागं पमायं गओ मि त्ति / एवं सो पुणो वि केलीकिलत्तणेण विंधेऊण चोइओ मिच्छा मि दुक्कडं देइ / पच्छा कुंभकारेण सढो त्ति नाऊण तस्स खुड्डगस्स कन्नामोडओ दिन्नो / सो भणई-दुक्खविओऽहं / कुंभकारो भणइ मिच्छा भिदुक्कड। एवं सो पुणो पुणो कन्नामोडयंदाऊण मिच्छा मि दुक्कड करेइ / पच्छा चेल्लओ भणइ-अहो सुंदरं मिच्छा मि दुक्कडं ति। कुंभकारो भणइतुभ वि एरिसं चेव मिच्छा मि दुक्कडं ति। पच्छा ठिओ विधेयव्वस्स।" किच- "जं दुक्कड ति मिच्छा, तं चेव निसेवई पुणो पावं। पच्चक्खमुसावाई, मायानियडीपसंगोय।।१।।" इदं द्रव्यप्रतिक्रमणम्। भावप्रतिक्रमणे तु मृगावत्युदाहरणम् - "भगवं बद्धमाणसामी कोसंबीए समोसरिओ। तत्थ चंदसूरा भगवओ वंदगा सविमाणा ओइन्ना तत्थ मिगावई अज्जा उदयण-माया उदिवसो त्ति काउंचिरं ठिया। सेसाओ साहुणीओ तित्थगरंवन्दिऊणपडिगयाओ, चन्दसूरा वि सट्ठाणं पत्ता। ताहे सिग्घमेव वियालीहूयं मिगावई वि संभत्ता गया सोवस्सय, साहुणीओ वि कयावस्सयाओ अत्थंति। तओ मिगावई आलोएउं पवत्ता अज्जचंदणाए भन्नइ-कीस अज्जे चिर ठियासि ? जुत्तं नाम तुज्झ उत्तमकुलप्पसूयाए एगागिणीए एच्चिरं अत्थिउं ति? सा सब्भा-वेण मिच्छा मि दुक्कड़ भणमाणी अज्जचंदणाए पाएसुनिवडिया। अज्जचंदणाए वेतिविताएवेलाए संथारगगयाए निद्या आगया, मिगावईए वि तिव्वसंवेगमावन्नाए पायवडियाए चेव केवलनाणं समुप्पन्नं / सप्पो य तेण मग्गेणं समागओ, अज्जचंदणाएसंथारगाओ हत्थोलंबइ। मिगावईए मा खजिहि त्ति सो हत्थो संथारगं चडाविओ।सा विबुद्धा भणइ-किमेयं ति, अज्ज वि तुम अत्थसि ति? मिच्छा मि दुक्कडं, निद्दापमाएणं न उद्ववियासि / मिगावई भणइएस सप्पो मा भे खाहिइ त्ति अओ हत्थो चडाविओ। भणइ-कहिं सो? सा दाएइ। अज्जचन्दणा अपेच्छमाणी भणइ-अज्जे ! किं ते अइसओ। सा भणइ-आमं। तो किं छाउमत्थिओ, केवलिओत्ति। सा भणइ केवलिओ त्ति / पच्छा अज्जचंन्दणा मियावईए पाएसु पडिउ भणइ-मिच्छा मि दुक्कड, केवली आसाइओ त्ति।" इदं भावप्रतिक्रमणम्। किश- "जइ य पडि कमियटवं, अवस्स काऊण पावयं कम्म / तं चेवन कायव्यं, तो होइपए पडिक्कं तो।।१।।" तथा