SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण 277- अभिधानराजेन्द्रः - भाग 5 पडिक्कमण पडिक्कमामि त्ति) कण्ठ्यम् / इत्थं प्रतिक्रम्य पुनरकुशल प्रवृत्तिपरिहारायाऽऽत्मानमालोचयन्नाह-(समणोऽहं, संजय विरयपडिहय-पच्चक्खाय पावकम्मो, अणियाणो, दिहिसंपण्णो, मायामोसविवजिओ ति) श्रमणोऽई तत्रापि न चरकाऽऽदिः, किं ठर्हि? संयतः सामस्त्येन यतः, इदानीं विरतो निवृत्तः, अतीत स्यैष्यस्य च निन्दासंवरणद्वारेण / अत एवाऽऽह-प्रतिहत-प्रत्याख्यात-पापकर्मा प्रतिहतमिदानीमकरणतया, प्रत्याख्यातनतीतनिन्दया, एष्यमकरणतयेति, प्रधानोऽयं दोष इति कृत्वा / तच्छून्यतामात्मनो भेदेन प्रतिपादयन्नाह- (अनियाणो त्ति) निदानरहितः सकलगुणमूलभूतगुणयुक्ततां दर्शयन्नाह-दृष्टिसं-पन्नः, सम्यग्दर्शनयुक्त इत्यर्थः / वक्ष्यमाणद्रव्यवन्दनपरिहारायाऽऽहमायामृषाविवजकः, मायागर्भमृषावादपरिहारीत्युक्तं भवति। एवंभूतः सन् किम्-अत्र सूत्रम् - अड्डाइजेसु दीव-समुद्देसु पण्णरससु कम्मभूमीसु। जावंत के वि साहू, रयहरण-गुच्छ-पडिग्गहधारा ||1|| पंचमहय्वयधारा, अट्ठारससहस्ससीलंगधारा। अक्खयाऽऽयार-चरित्ता, ते सर्वे सिरसा मणसा म-त्थएण वंदामि ||2|| अड्डा.दीव. (व्याख्या 'अड्डाइजदीव' शब्दे प्रथमभागे 258 पृष्ठ) पायरस, (व्याख्या कम्मभूमि' शब्दे तृतीयभागे 340 पृष्ठे) यावन्तः कैचन साधवो रजोहरण-गोच्छ-प्रतिग्रहधारिणः / निहवाऽऽदिव्यवच्छेदायाऽऽह-पञ्चमहाव्रतधारिणः, पञ्चमहाव्रतानि प्रतीतानि, अतस्तदेकाङ्गविकलप्रत्येकबुद्धाऽऽदिसंग्रहाय आह-अष्टादशशीलाङ्गसहस्त्रधारिणः / तथाहि केचिद्भगवन्तो रजोहरणाऽऽदिधारिणो न भवन्त्यपि। तानि वाऽष्टादशशीलाङ्ग सहस्त्राणि दर्श्यन्ते-तत्रेयं करणगाथा- 'जोए करणे.' इति गाथा-('अट्ठारससीलंगसहस्स' शब्दे प्रथमभागे 251 पृष्ठे सटीका गताऽस्ति) स्थापना त्वियम्- ('गुरुकुलवास' शब्दे तृतीयमागे 140 पृष्ठे समुपन्यस्तास्ति) इयं तु भावना"मगरेण ण करेइ आहारसण्णाविप्पजढो सोइंदियसंवुडो पुढवीकायसरक्खणओ खंतिसंपण्णो 1, "एव आउक्कायसंरक्खणओ खंतिसंपण्णो 2, एवं तेऊ 3 वाऊ ४-वणस्सइ-५ बि-६ति-७ चउ-८ पंचिदिय-६ अजीवसुदस१० भेदा। एते खंतियममु-यंतेण लद्धा / एवं मुवादिसु वि इक्कि के दस 2 लभंति, एवं सयं 100, एवं सोइदियममुयंतेण लद्धा 100 / एवं चक्खुइंदियादिसु वि इक्किकसयं / जाया पंचसया 500 / एते वि आहारसन्नाअपरि-चागेण लद्धा / भयादिसन्नादिसु वि पत्तेयं, एवं पंच २सतं, जाता दो सहस्सा 2000, एए (ण करेति ति) एतेणलद्धा। ण कारवेति एतेण विदो सहस्सा 2000 / करत णाऽणुजाणाति एतेण वि दो सहस्सा 2000, जाता छसहस्सा 6000, एते मणेण लद्धा, वाया, काएहिं वि छछसहस्स त्ति (6000) (6000) जाता अट्ठारस सहस्स त्ति 18000 / " अक्षताऽऽचारचारित्रिणः अक्षताऽऽचा एव चारित्रम्, तान् सर्वान् गच्छगतनिर्गताऽऽदिभेदान् शिरसोत्तमाङ्गेन, मनसाऽन्तःकरणेन, मस्तकेन वन्द इति वाचा। इत्थमभिवन्द्य साधून पुनरोघतः सकलसत्त्वक्षामणमिति प्रदर्शनायाऽऽह खामेमि सव्वजीवे य, सव्वे जीवा खमंतु मे। मित्ती मे सव्वभूएसु, वेरं मज्झ न केणई / / 1 / / निगद सिद्धा एवेयम् / नवरम्- (इति सटीका गाथा 'खामणा' शब्दे तृतीयभागे 737 पृष्ठे गता) “सव्वे जीवा खमंतु मे त्ति" मा तेषामप्यक्षान्तिप्रत्ययः कर्मबन्धो भवत्वित्ति करूणयेदमाह। समाप्तौ स्वरूपप्रदर्शनपुरस्सरं मङ्गलमाहएवमहं आलोइय-निंदियगरहियद्रांछियं सम्मं / तिविहेण पडिक्कतो, वंदामि जिणे चउव्वीसं / / निगदसिद्धा / एवं दैवसिक प्रतिक्रमणमुक्तम् / रात्रिकमप्येवंभूतमेव / नवरम्-यत्रैव दैवसिकाऽतिचारोऽभिहितस्तत्र तस्मिन् रात्रिकातिचारो वक्तव्यः / आह-यद्येवम्- "इच्छामि पडिक्कमिउं गोयरचरियाए'' इत्यादिसूत्रं तत्रानर्थक, रात्रावस्य सम्भवादिति?, उच्यते-स्वप्रादौ संभवात्यिदोष इत्युक्तोऽनुगमः / नयाः प्राग्वत्। इति शिष्यहितायां (वृत्तौ) प्रतिक्रमणाध्ययनम् / आव० 4 अ०।ध०। (देवसिक-प्रतिक्रमणवेला च तत्परिसमाप्तिदशोपकरण-प्रत्युपेक्षणासमनन्तरभाविसूर्योदयपरिमेया। यतः- "आवस्स-यस्स समए, णिद्दामुदं चयति आयरिआ। तहतं कुणंति जह दस, पडिलेहाणंतरं सूरो।।१।।" इति! ध०३ अधि०। (16) रात्रिकप्रतिक्रमणविधिर्यथापाश्चात्यनिशायामे पौषधशालायां गत्वा स्वस्थाने वा स्थापनाऽऽचार्य्यान संस्थाप्य ईर्यापथिकीप्रतिक्रणपूर्व सामायिकं कृत्वा क्षमाश्रमणपूर्वम्- "कुसुमिणदुस्सुमिणउहडावणिराइअपायच्छित्तविसोहणत्थं काउस्सग्गं करेमि" इत्यादि भणित्वा चतुर्विंशतिस्तवचतुष्कचिन्तनरूपं शतोच्छासमान, स्त्रीसेवाऽऽदिकुस्वप्नोपलभ्भे तु अष्टशतोच्छ्रासमानं कायोत्सर्ग कुर्यात्। रागाऽऽदिमयः कुस्वप्नाः, द्वेषाऽऽदिमयो दुःस्वप्रः। एतद्विधिस्तुनमस्कारेणावबोध इति प्रथमद्वार उक्त एव / इह च-सर्व श्रीदेव-गुरुवन्दनपूर्व सफलमिति चैत्यवन्दनां विधाय क्षमाश्रमणद्वयपूर्व स्वाध्यायं विधत्ते, यावत्प्राभातिकप्रतिक्रमणबेला। तदनु चतुरादिक्षमाश्रमणैः श्रीगुर्वादीन्वन्दित्वा क्षमाश्रमणपूर्वम् - 'राइअ-पडिक्कमणइ ठाउँ' इत्यादि भणित्वा भूनिहितशिराः- "सव्वस्स वि राइअ' इत्यादिसूत्रं सकलरात्रिकातिचारबीजकभूत पठित्वा शक्रस्तवं भणति। "प्राक्तन चैत्यवन्दनं तु स्वाध्यायाऽऽदिधर्मकृत्यस्य प्रतिबद्धं, न तु रात्रिकाऽऽवश्यकस्येति / " एतदारम्भे मङ्गलाद्यर्थ पुनः शक्रस्तवेन संक्षेपदेववन्दन, ततो द्रव्यतो भावतश्चोत्थाय- "करेमि भंते! सामाइअं' इत्यादिसूत्रपाठपूर्व चारित्र-दर्शन-ज्ञानातिचरिविशुद्ध्यर्थ कायोत्सर्गत्रयं करोति / प्रथम द्वितीये -कायोत्सर्गे चतुर्विशतिस्तवमेकं चिन्तयति / "साय सावंगोसद्धमिति'' वचनात् / तृतीये तु सान्ध्यप्रतिक्रमणान्तरंक्तवर्द्धमानस्तुतित्रयात्प्रभृति निशातिचाराँश्चिन्तयति। "रातःदिवसावस्सयअंते, जं थुइतिअगंतनिसाइआरे य। जाव छियं उस्सगं, चिंतिज्जसु ताव अइयारे त्ति" इह च पूर्वोक्तयुक्त्या चारित्राऽऽचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्येऽपि यदेकस्यैव चतुर्विंशतिस्तवस्य चिन्तनं, तद्रात्रौ प्रायोऽल्पव्यापारत्वेन चारित्रातिचाराणां स्वल्पत्वाऽऽदिन संभाव्यते। ततः कायोत्सर्ग पारयित्वा सिद्धस्तवं पठित्या संदंशकप्रमाजनपूर्वमुपविशति / अत्र च प्राभातिक प्रतिक्रमणे प्रादोषिकप्रतिक्रमणवत्प्रथमे चारित्रातिचारविशुद्धिकायोत्सर्गे निशातिचारचिन्तनं यन्न कृतं, तन्निद्राभिभूतस्य सम्यग् स्मरणं न स्यादिति।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy