________________ घडिझमण 271 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण यिकः, कायकृत इत्यर्थः / वाचा निर्वृत्तो वाचिकः, वाक्कृत इत्यर्थः / मनसः निर्वृत्तो मानसः, स एव (मानसिओ त्ति) मानसिको, मनःकृत इत्यर्थः / ऊई सूत्रादुत्सूत्रः, सूत्रानुक्त इत्यर्थः। मार्गः क्षायोपशमिको मायः द्ध मार्गादन्मार्गः, क्षायोपशमिकभावत्यागेनौदयिकभावसक्रम इत्यर्थ. कल्पत इति कल्पः, न्याय्यः कल्पो विधिराचारश्चरणकरणव्यपारः न कल्पोऽकल्पः, अतद्रूप इत्यर्थः / करणीयः सामान्येन कर्तव्यः, न करीियोऽकरणीयः। हेतुहेतुमद्भावश्चात्र। यत एवोत्सूत्र अत एवेन्मान इत्यादिरुक्तस्तावत्कायिको वाचिकश्च / अधुना मानसमाहटुके ध्यातायातःआर्तरौद्रलक्षणः / एकाग्रचित्ततया, दुष्टो विचिन्तितः दुचिन्तितः, अशुभ एव चलचित्ततया।यत एव अशुभोऽत एवानाचारः, आरपीय आचारो न आचार अनाचारः, साधूनामनाचरणीयः। यत एशानावरणीय अत एवानष्टव्यः, मनागपि मनसापि न प्रार्थनीयः। यत एदेवभूतोऽनष्टेव्य अत एवासावश्रमणप्रायोग्यो न श्रमणप्रायोग्यः अश्रमणप्रायोग्यः, तपस्व्यनुचित इत्यर्थः / किं विषयोऽयमतिचारः? इत्याह च- (नाम दसणे चरित्ते) ज्ञानदर्शनचारित्रविषयः / अधुना भेदेन व्याचट - (राए त्ति) श्रुतविषयः, सूत्रग्रहणं मत्यादिज्ञानोपलक्षणं, तत्र दियरीलप्ररूपण अकालस्वाध्यायादिरतिचारः / (सामाइए त्ति) सामायिकदिषयः, सामायिकग्रहणात्सम्यक्त्वत्वसामायिकचारित्रसान्गायिकग्रहणम् / तत्र सम्यक्त्वसामायिकाऽतिचारः, शङ्कादिः / चारित्रसामायिकातिचारं तु भेदेनाह- "तिण्हं गुत्तीणं " इत्यादि / स्सूिजा गुप्तीना तत्र प्रविचाराप्रविचाररूपा गुप्तयः / चतुर्णा कषायाणां क्रोधमानम.यालोमानां / पञ्चाना महाव्रतानां प्राणातिपातादिनिवृत्तिलक्षणानां वपणां जीवनिकायानां पृथवीकायिकादीनां / सप्ताना पिण्डेषणानामससृष्टादीनां। ताश्चेमाः- "संसट्टमसंसट्ठा'' इत्यादि। (सप्त पिण्डवाना व्याख्या 'एसणा' शब्दे तृतीयभागे७१ पृष्ट द्रष्टव्या) (आव०) एष खलु समासार्थः। व्यासार्थस्तु ग्रन्थान्तरादवसेयः / सप्तानां पानैषशाना, केचित्पठन्ति, ता अपि चैवंभूता एव, नवरम्-चतुर्थ्या नानात्वं, तत्र हायाभप्तौवीरकादिनिर्लेपं विज्ञेयमिति / अष्टानां प्रवचनमातृणां / लाश्चातौ प्रवचनमातरः, तिस्रो गुप्तयः, तथा पञ्च समितयः। तत्र प्रविचारामविचाररूपा गुप्तयः / समितयः प्रविचाररूपा एव / तथा चोक्तम्"तमिओ नियमा गुत्तो, गुत्तो समियत्तणमि भइयव्यो / कुसलं वइ मुटीरतो जं च तिगुत्तो वि संमिओ वि॥१॥" नवानां ब्रह्मचर्यगुप्तीनां वसत्किधादीनाम्, आसां स्वरूपमुपरिष्टाद्वक्ष्यामः।दशविधे दशप्रकारे, श्रनणधर्मे साधुधर्म क्षान्त्यादिके, अस्यापि स्वरूपमुपरिष्टाद्वक्ष्यामः / अस्मिन् त्रिगुप्त्यादिषु च ये श्रामणा योगाः, श्रमणानामेते श्रामणास्तेषां श्रामण ना, योगाना व्यापाराणां सम्यक्प्रतिसेवनश्रद्धानप्ररूपणालक्षणाना, यत्, खण्डितं देशता भग्नं, यद्विराधितं सुतरां भगं, न पुनरकान्ततो भावमापादित, तस्य खण्डन विराधनद्वाराऽऽयातस्य चारित्रातिचारस्यैव तद्रोचरस्य ज्ञानादिगोचरस्य च दैवसिकातिचारस्यैतावता क्रियाकालमाह- तस्यैव- "मिच्छा मे दुक्कड' ति। अनेन तु निष्ठाकालमा ह-मिथ्यति प्रतिक्रमामीति दुष्कृतमेतदकर्तव्यमिदमित्यर्थः। अत्रेयं सूत्रस्पर्शिका गाथा पडिसिद्धाणं करणे, किच्चाणमकरणे अपडिक्कमणं / अस्सद्धाणे य तहा, विवरीयपरूवणाए य॥ प्रतिषिद्धानां निवारितानामकालस्वाध्वायादीनामतिचाराणा, करणे निष्पादने आसेवन इत्यर्थः / किं ? प्रतिक्रमणमिति योगः। प्रतीपंक्रमण प्रतिक्रमणमिति व्युत्पत्तेः / कृत्यानामारोवनीयानां कालस्वाध्यायादीनां योगादीनामकरणेऽनिष्पादनेऽनासेवने प्रतिक्रमणम्,अश्रद्धाने च तथा केवलिप्रणीताना पदार्थाना प्रतिक्रमणमिति वर्तते, विपरीतप्ररूपणायां च अन्यथा पदार्थकथनाया च प्रतिक्रमणमित्यर्थः / अनया च गाथया यथायोगं सर्वसूत्राण्यनुगन्तव्यानि / तद्यथा-सामायिकसूत्रे प्रतिषिद्धौ रागद्वेषौ तयोः करणे, कृत्यस्तु तन्निग्रहः तस्याकरणे, सामायिक मोक्षकारणमित्यश्रद्धाने, 'असमभावलक्षणं सामायिकं' इति विपरीतप्ररूपणायां च, प्रतिक्रमणमिति / एवं मङ्गलादिसूत्रेष्वप्यायोज्यम्। चत्वारो मङ्गलमित्यत्र प्रतिषिद्धोऽमङ्गलाध्यवसायस्तत्करण इत्यादिना प्रकारेण / एवमोघातिचारस्य समासेन प्रतिक्रमणमुक्तम्। (8) साप्रतमस्यैव विभागेनोच्यते, तत्राऽपिगमनाऽऽगमना-तिचारमधिकृत्याह-"इच्छामि पडिक्कमिउं इरियावहियाए" इत्यादि सव्याख्यं प्रतिक्रमणसूत्रम्- (द्वितीयभागे'इरियावहिया' शब्दे 630 पृष्ट द्रष्टव्यम्) इत्थं गमनाऽऽगमनातिचारप्रतिक्रमणमुक्तम् / आव० 4 अ०1०। (E) अत्रैव प्रायश्चित्तम्इरियाए अपडिक्कंताए भत्तपाणाइयं आलोएज्जा पुरिमहूँ / ससरक्खेहिं पाएहिं अप्पमजिएहिं इरिअंपडिक्कमेजा पुरिमळू / इरियं पडिक्कमे, मिच्छाकारो तिन्नि वाराओ वा / चलणगाणं हेट्ठिमं सीसभागं ण पमजेजा णिव्विइगं / कण्णेट्ठियाए वा, मुहणंतगेण वा, विणा इरियं पडिक्कमे, मिच्छाकडं, पुरिमळू वा। समुद्देसमंडलिं छिविऊण दंडापुच्छणगं च दाविऊण इरियं ण पडिक्कमेजा णिव्विइयं / एवं इरियं पडिक्कमेत्तु दिवसावसेसियं ण संवरेज्जा आयामं / महा०१ चू०। प्रतिक्रमणे आलोचनानन्तरं "ठाणे कमणे' इत्यादि कथयित्वा गमनागमनालोचनादेशो मार्यते / तत्र केचित्कथयन्ति न मार्यते। तदाश्रित्य यथा भवति तथा प्रसाद्यम् ? तथा केचित्कथयन्ति हस्तशत द्वहिर्गमने गमनागमनालोचनादेशो मार्यते, केचिच्चाप्रार्जितभूमिगमने इत्येतदाश्रित्यापि यथोचितं प्रसाद्यमिति? अत्रोत्तरम्-प्रतिक्रमणे आलोचनानन्तरं "ठाणे कमणे" इत्यादि कथयित्वा गमनागमनालोचनादेशो मार्गणीयो ज्ञायते / तथा पौषधमध्ये स्थण्डिलादिकार्ये बहिर्गत्वा आगमनानन्तरं गमना-गमनालोचनं ज्ञायत इति॥२२॥ ही०४ प्रका०। (10) अधुना त्वग्वर्तन स्थानातिचारप्रतिक्रमणं प्रतिपादयन्नाह इच्छामि पडिक्कमिउं पगामसिजाए निगामसिज्जाए उव्वट्टणाए परियट्टणाए आउंटणपसारणाएछप्पइसंघट्टणाए कूइए ककराइए छीए जंभाइए आमोसे ससरक्खामोसे आउलमाउलाए सोयणवत्तियाए इत्थीविप्परियासियाए दिडिविप्परियासियाए मणविप्परियासियाए पाणभोयणविप्परियासियाए जो मे देवसिओ अइयारो कओ, तस्स मिच्छा मे दुक्कडं।