________________ पज्जाअ 235 - अभिधानराजेन्द्रः - भाग 5 पज्जाअ तते तथा शुद्धो व्यञ्जनपर्यवः शुद्धद्रव्यव्यञ्जनपर्यायः कथ्यते परनिरपेक्षत्वेनेति। तथा-लोकस्य द्रव्यसंयोगात् लोकवर्ती द्रव्य-संयोगरूपोऽशुद्धद्रव्यव्यञ्जनपर्यायोऽपि तस्य लोकस्य द्रव्यसंयोगात् निरपेक्षत्वं कथयन् विरोधं नोत्पादयति, विरोधः कोऽपि नास्तीत्यर्थः / / 10 / / अथाऽऽकृतिः पर्यायो भविष्यति, संयोगः पर्यायो न भविष्यतीत्याशङ्का परिहरन्नाहआकृतेरिव संयोगः पर्यवः कथ्यते यतः। उत्तराध्ययनेऽप्युक्तं, पर्यायस्य हि लक्षणम् // 11|| संयोगोऽप्याकृतेरिव आकृतिवत्पर्यायः कथ्यते। यतो हेतोः पर्यायस्य लक्षणं, हीति निश्चितम्,उत्तराध्ययनेऽप्युक्तम् कथितम्। ततोऽस्य लक्षणं सभेदमपि श्रीउत्तराध्ययनादेवावसेयमिति // 11 // पुनस्तदेवाऽऽहएकत्वं च पृथक्त्वं च, संख्या संस्थानमेव च / संयोगश्च विभागश्चे-तीत्थं मनसि चिन्तय / / 12 / / एकत्वं, पृथक्त्वम् एतद् वयं तथा पुनःसंख्या संस्थानम्। एतवयं, च पुनः संयोगः विभागः-एतद् द्वयं च, इत्यादि षट्कं द्वित्वपरिणतं मनसि चिन्तय, स्वचेतोगोचरीकुरुष्वेत्यर्थः / तथा च तत्र गाथा- "एगत्तं च पुहुत्तं च, संखा संठाणमेव य / संजोगो य विभागो य, पज्जवाणं तु लक्खणं / / 1 / / " इत्येतद्गाथोक्तपर्यायभेदभावना भावयितव्या। पुनः प्रकृतमेवार्थमाहउपचारीन वाऽशुद्धो, यद्यप्यन्याऽऽश्रितो भवेत्। असद्भूता मनुष्याऽऽद्या-स्तदा नाऽशुद्धयोगकाः।।१३।। उपचारी न भवति अशुद्धो यद्यप्यन्याऽऽश्रितो भवेत् परद्रव्यसंयोगी स्यात् तथाऽप्युचारी अशुद्धता नाप्नोति। अथ च यद्येवं कथयिष्यथ यद् यदि च धर्मास्तिकायाऽऽदीनां परद्रव्यसंयोगोऽस्ति, तदुपचरितपर्याय इति कथ्यते, परं त्वशुद्धपर्याय इति न कथ्यते, द्रव्यातथात्वहेतुष्वेवाशुद्धत्वव्यवहारोऽस्तीति, तत्तस्माद् मनुष्याऽऽदिपर्यायोऽप्यशुद्ध इति न कथ्यते, असद्भूतव्यवहारनयग्राह्यत्वेनासद्भूत इति कथ्यते / तद्धि तन्त्वादिपर्यायवदेकद्रव्यजनकावयवसङ्घातस्यैवाशुद्धद्रव्यव्यञ्जनपर्यायत्वं च कथयन्तं चतुररत्रं लगेदिति / तस्मादपेक्षाऽनपेक्षाभ्यां शुद्धाशुद्धानेकान्तव्यापकत्वमेवश्रेय इति / तदेवाग्रेतने पद्ये प्रतिपादयिष्यति / पुनरक्षरार्थस्त्वेवम्-असद्भूता मनुष्याऽऽद्यास्तदा अशुद्धयोगका नेति॥१३॥ पुनः कथयतिधर्माऽऽदेरन्यपर्याये-णाऽऽत्मपर्यायतोऽन्यथा। अशुद्धताविशेषो न, जीवपुद्गलयोर्यथा / / 14 / / धर्माऽऽदेर्धर्मास्तिकायाऽऽदेरन्यपर्यायण परपर्यायेणाऽऽत्मपर्यायेणाऽऽन्मपर्यायतः स्वपर्यायादन्यथा विषमत्वं विलक्षणत्वं ज्ञातव्यम् / यतः कारणादशुद्धताया विशेषो नास्ति, यथा-जीवपुद्गलयोर्विषये अशुद्धताविशेषो नास्ति // 14 // अथ प्रकारान्तरेण चतुर्विधपर्याया नयचक्रे कथिताः, तानेव दर्शयन्नाहस्वजातेश्च विजातेश्व, पर्याया इत्थमर्थके। स्वभावाच विभावाब, गुणे चत्वार एवच / / 15 / / इत्थममुना प्रकारेण स्वजातेः पर्यायाः सजातीयद्रव्यपर्यायाः, विजातेः पर्याया विजातीयद्रव्यपर्यायाश्च, अर्थक द्रव्ये द्रव्यविषये भवन्ति स्वभावाच पुनर्विभावादिति स्वभावगुणपर्यायाः, विभावगुणपर्यायाः, इत्थं चत्वारो भेदा द्रव्यगुणभेदात्पर्यायाणां कथनीयाः, स्वजातीयद्रव्यपर्यायः, विजातीयद्रव्यपर्यायः, स्वभावगुणपर्यायः, विभावगुणा. पर्यायः, इति चत्वारो द्रव्यगुणयोभेदा भावनीया इति / / 15 / / अत्र पूर्वोक्तानां भेदानामुदाहरणमाहध्यणुकं च मनुष्याश्च, केवलं मतिचिन्मुखाः। दृष्टान्ताः प्रायिकास्तेषु, नाणुरन्तर्भवेत्कचित्॥१६॥ (यणुकं चेति) द्विप्रदेशाऽऽदिस्कन्धः स च सजातीयद्रव्यपर्यायः कः तत? द्वयोः परमाण्वोः संयोगे सतिद्व्यणुकमेतावता द्रव्यदर्थ सङ्गत्यैक्ट्रक भवतीति सजातीयद्रव्यपर्यायः 1 / मनुष्याश्च मनुजाऽऽदिपर्याया विजातीयद्रव्यपर्याय इति, जीवयुगलयोर्योगे सति मनुष्यत्वव्यवहारो जायन एतावता विजातीयद्रव्यद्वयं सङ्गत्यैकद्रव्यं निष्पन्नमिति विजातीयद्रव्यपर्यायः 2 / अथ केवलमिति केवलज्ञानं स्वभावगुणपर्यायः कथ्य कथं तत् ? कर्मणां संयागरहितत्वात् स्वभावगुणपर्यायः 3 : मतिचिन्मुखा मतिज्ञानाऽऽदयः पर्यायाः विभावगुणपर्यावाःकथ्यन्ते।क तत् ? कर्मणां परतन्त्रत्वात् विभावगुणपर्यायाः 4 इति। एते हि चत्वर दृष्टान्तः प्रायिका ज्ञातव्याः। परमार्थतस्तु परमाणुरूपद्रव्यपर्यायः, चतुषु नान्तर्भवितुमर्हति, विभागजनितपर्यायत्वात् / तदुक्तं समत. "अणु अणुएहिं दव्वे, आरद्धेति अणुअंति णिद्देसो। तत्तो अ पुण विभ अणु त्ति जाओ अणू होइ॥३६॥" (अस्या अर्थः "अणेगंतवाय र प्रथमभागे 427 पृष्ठे गतः) इत्यादिकं सर्वं विमृश्य विशेयमिति आरब्धद्रव्यपर्याय अणुद्यसंयोगे सति व्यणुकं निष्पद्यते, त्रिभिण. स्त्र्यणुक जायते, त्रिभिस्त्र्यणुकैश्चतुरणुकमुत्पद्यते, एवं महती पृष्ठ महत्थ आपो, महान्तो वायव इत्यादि नैयायिकैः प्रणीतत्वात् // 16 पुनः प्रतिपिपादयिषुराहगुणानां हि विकाराः स्युः, पर्याया द्रव्यपर्यवाः। इत्यादिकथयन् "देव-सेनो" जानाति किं हृदि ? // 17 // गुणविकाराः पर्याया एवं कथयित्वा तेषां भेदाधिकारे पर्याया देखिधःद्रव्यपर्याया गुणपर्यायाश्चेति कथयंश्च "देवसेनो' दिगम्बराऽऽचार्यनयचक्रग्रन्थकर्ता हृदि चित्ते किं जानाति ? अपि तु संभाक्ति: किमपि जानातीत्यर्थः / पूर्वापरविरुद्धभाषणादसत्प्रलापप्राय एवेदनिन्द. भिप्रायः / किं च-द्रव्यपर्याया एव कथनीयाः परं तु गुणपर्याया इतिवृत भेदोत्कीर्तनं न कर्तव्यं,द्रव्ये गुणत्वाधिरोपाद्, गुणे च गुणत्वाभावादित निष्कर्षः।।१७।। द्रव्या०१४ अध्या०। क्रम, परिपा, पर्यायः परिपरि रित्यनर्थान्तरम्। ज्ञा०१ श्रु०१अ०।