________________ पज्जा 233 - अभिधानराजेन्द्रः - भाग 5 पज्जाअ अथ पर्यायभेदानाहनत्वा जिनं प्रवक्ष्यामि, पर्यायोत्कीर्तनं मुदा। व्यञ्जनार्थविभेदेन, तद् द्विभेदं समासतः / / 1 / / जिन वीतराग, नत्वा नमस्कृत्य, पर्यायोत्कीर्तनं पर्यायाणा मुत्कीर्तन पर्यायात्कीर्तन, मुदा हर्षेण, प्रवक्ष्यामि, यदित्युत्तरापेक्षायां, तत्पर्यायोकीर्तन, समासतः संक्षेपाद्, व्यञ्जनार्थविभेदेनव्यञ्जनं चाऽर्थश्च, तयोविभेदः प्रत्येक योजना, व्यञ्जनभेदेनार्थभेदेन, तत् कीर्तनं पर्यायस्य विभेदं द्विप्रकारमित्यर्थः / / 1 // तत्र व्यञ्जनपर्यायः, त्रिकालस्पर्शनो मतः। द्वितीयश्चार्थपर्यायो, वर्तमानानुगोचरः।।२।। तत्र तयोर्दयोरुत्कीर्तनयोर्मध्ये आद्यो व्यञ्जनपर्यायः त्रिकालस्पर्शनो मतोऽनुगत्कालकलितः कथितः। यस्य हि त्रिकालस्पर्शनः पर्यायः स चव्यञ्जनपर्यायः / यथा हिघटाऽऽदीनां मृदादिपर्यायो व्यञ्जनपर्यायोमृन्मयः, सुवर्णाऽऽदिधातुमयो वा घटः कालत्रयेऽपि मृदादिपर्यायत्वं व्यत्यति / तथा द्वितीयो भेदोऽर्थपर्यायः वर्तमानानुगोचरः सूक्ष्मवर्तमानकालखती अर्थपर्यायः / यथाहि-घटाऽऽदेकस्तत्तत्क्षणवर्ती पर्यायो यस्मिन् काल वर्तमानतया स्थितस्तत्तत्कालापेक्षा कृतविद्यमानत्वेनार्थपर्याय उच्यते इत्यर्थः।।२।। अथ तयोः प्रत्येकं द्वैविध्यं दर्शयन्नाहद्रव्यतो गुणतो द्वेधा, शुद्धतोऽशुद्धतस्तथा। शुद्धद्रव्यव्यञ्जनाऽऽख्य-श्वेतने सिद्धता यथा / / 3 / / द्रव्यतो प्रव्यपर्यायो भवति, तथा गुणतो गुणपर्यायोऽपि भवति, एवं द्वेधा द्विप्रकारः स्यात्। तथाहि-द्रव्यव्यञ्जनपर्यायो, गुणव्यञ्जनपर्याय इति / तथा-पुनस्तेनैव प्रकारेण शुद्धतः शुद्धद्रव्यव्यञ्जनपर्यायः, अशुद्धतोऽशुद्धद्रव्यव्यञ्जनपर्यायश्च द्विप्रकारः / तत्र तेषु भेदेषु शुद्धद्रव्यव्यञ्जनाऽऽख्यः शुद्धद्रव्यव्यञ्जनपर्यायः, कस्मिन् भवति? चेतने, यथा सिद्धताचेतनद्रव्यस्य यथा सिद्धपर्यायः। अय हि केवलभावात्ज्ञेयः॥३॥ पुनर्भेदापदेशमाहअशुद्धद्रव्यव्यञ्जनो, नराऽऽदिर्बहुधा मतः। गुणतोऽपीत्थमेवात्र, केवल्यं मतिचिन्मुखः ||4|| अशुद्ध द्रव्यव्यञ्जनपर्यायोऽशुद्धद्रव्यव्यञ्जनो नराऽऽदिः, आदिशब्दात् देवनारकतिर्यगादयो बहुधा मताः, तदपेक्षया नराऽऽदिर्बहुधा मतः / अत्र हि द्रव्यभेदः पुद्गलसंयोगजनितोऽस्ति, मनुप्याऽऽदिभेदेनैवं भेदः / गुणतोऽपीत्थमेव / गुणव्यञ्जनपर्यायो द्विप्रकारः / तत्र प्रथम शुद्धगुणव्यञ्जनपर्यायः कैवल्यं केवलज्ञानाऽऽदिरूपः, द्वितीयोऽप्यशुगुणव्यञ्जनपर्यायो मतिचिन्मुखः मतिश्रुतावधिमनः पर्यायरूप इति॥४॥ पुनः कथयतिऋजुसूत्रमतेनार्य-पर्यायः क्षणवृत्तिमान्। आभ्यन्तरः शुद्ध इति, तदन्योऽशुद्ध ईरितः / / 5 / / ऋजुसूत्रमतेन ऋजुसूत्राऽऽदेशेनाऽर्थपर्यायः, आभ्यन्तरः शुद्धोऽधेपर्यायः क्षणवृत्तिमान् क्षणपरिणतः / तदन्यस्तदतिरिक्तोऽशुद्धह ईरितः, यो यस्मादल्पकालवी पर्यायः स च तस्मादल्पत्वविवक्षया अशुद्धार्थपर्यायः कथ्यते / / 5 / / अत्र वृद्धवचनसंमति दर्शयतिनरो हि नरशब्दस्य, यथा व्यञ्जनपर्ययः। बालाऽऽदिकोऽर्थपर्यायः, सम्मतौ भणितस्त्वयम्॥६॥ नरो हि नरशब्दस्य यथा व्यञ्जनपर्याय इति / यथा पुरुवशब्दवाच्यजन्ममरणकालपर्यन्त एकोऽनुगतनरत्वपर्यायः, स च पुरुषस्य व्यञ्जनपर्यायोऽस्ति, संप्रतिविषये बालाऽऽदिकस्तु पुनरर्थपर्यायः कथितः। अयमिति इदमः प्रत्यक्षत्वे साक्षात्संमतौ दृष्टः इति / अत्र गाथा"पुरिसम्मि पुरिससद्दो, जम्माइमरणकालपजंतो। तस्स उ बालाईया, पज्जवभेया बहुविगप्पा // 32 // " // 6 // अथ केवलज्ञानाऽऽदिकः शुद्धगुणव्यज्जनपर्याय एव भवति, तत्रार्थपर्यायो नास्तीत्येतादृशी कस्यचिद् दिग्पटाऽऽभासस्याऽऽशड्काऽस्ति तां निराकरोतिषड्गुणहानिवृद्धिभ्यां, यथाऽगुरुलघुस्तथा। पर्यायः क्षणभेदाच, केवलाऽऽख्योऽपि संमतः / / 7 / / षड्गुणहानिवृद्धिभ्यामगुरुलघुपर्यायाः यथा कथिताः षड्गुणहानिवृद्धिलक्षणा अगुरुलघुपर्यायाः सूक्ष्मार्थपर्याया इतिवत् पर्यायः क्षणभेदात् केवलाऽऽख्योऽपि संमतः क्षणभेदात् केवलज्ञानपर्यायोऽपि भिन्न एव दर्शितः। यतः- ''पढमसमयेऽयोगिभवत्थकेवलनाणे अपढमसमये सयोगिभवत्थकेवलनाणे।'' इत्यादिवचनात्। तदृजुसूत्राऽऽदेशेन शुद्धगुणस्याप्यर्थपर्याया मन्तव्याः / / 7 / / सहव्यव्यञ्जनोऽणुश्च, शुद्धपुद्रलपर्यवः। द्यणुकाऽऽद्या गुणाः स्वीय-गुणपर्यायसंयुताः ||8|| सद्व्यव्यञ्जनोऽणुः शुद्धद्रव्यव्यञ्जनपरमाणुः शुद्धपुद्गलपर्यवः तस्य नाशो नाऽस्ति / तथा व्यणुकाऽऽदिका अशुद्धद्रव्यव्यञ्जनपर्यायाः संयोगजनितत्वात् / कीदृशाः? स्वीयगुणपर्यायसंयुताः पुगलद्रव्यस्य अशुद्धगुणव्यञ्जनपर्यायास्ते निजनिजगुणाऽऽश्रिता मन्तव्याः / यतः परमाणुगुणो यः स च शुद्धगुणव्यञ्जनपर्यायः, तथा-द्विप्रदेशाऽऽदिगुणो यः स चाशुद्धगुणव्यञ्जनपर्यायः॥८॥ सूक्ष्मार्थपर्यवाः सन्ति, धर्माऽऽदीनामितीव ये। कथयन्ति न किं तेऽमुं, जानन्त्यात्मपरार्थतः ||6|| धर्माऽऽदीना धर्मास्तिकायाऽऽदीनां सूक्ष्मार्थपर्यवाः शुद्धद्रव्यव्यजनपर्यायाः सन्ति, इतीव ये कथयन्त्येतादृशं हठ कुर्वन्ति तेजना हठ त्यक्त्वा आत्मपरार्थतः निजपरप्रत्ययादृजुसूत्राऽऽदेशेन चाऽमु क्षणपरिणतिरूपं पूर्वोक्तमर्थपर्यायमपि केवलज्ञानाऽऽदिवत् न किं, किमित कथं न जानन्ति, हठं त्यक्त्वा कथं नाङ्गीकुर्वन्ति? किं च-तेषु धर्मास्तिकायाऽऽदिष्वपेक्षयाऽशुद्धपर्यायोऽपि भवति, न चेत्तदा परमाणुपर्यन्तविश्रामः पुद्गलद्रव्येऽपि न भवतीत्यभिप्रायेण कथयन्नाहयथाऽऽकृतिश्च धर्माऽऽदेः, शुद्धो व्यञ्जनपर्यवः।। लोकस्य द्रव्यसंयोगा-दशुद्धोऽपि तथा भवेत्॥१०॥ धर्मास्तिकायाऽऽदेराकृतिर्लोकाऽऽकाशमानसंस्थानरूपा यथाव