________________ पज्जाअ 232- अमिधानराजेन्द्रः - भाग 5 पज्जा शक्रेन्द्राऽऽदिशब्दभेदागीर्वाणनाथस्येव रूपाऽऽदिशब्दभेदाद्वस्तुभेदो युक्तः, तदा द्रव्याद्वैतैकान्तस्थितेः कथञ्चित् भेदवादो द्रव्यगुणयोमिथ्यावाद इति // 18 // अस्य निराकरणायाऽऽहहोज्जा हि दुगुणमहुरं, अणंतगुणकालयं तु जं दव्वं / न उडहरओ महल्लो, होई संबंधओ पुरिसो॥१६॥ यदि नामाऽऽम्राऽऽदिद्रव्यमेव रसनसंबन्धाद्रस इति व्यदेशमासादयेत् द्विगुणमधुररसः कुतो भवेत् ? तथा नयनसंबन्धाद्यदि नाम कृष्णमिति भवेदनन्तगुणकृष्णं तत् कुतः स्यात्? वैषम्यभेदावगतेनयनाऽऽदिसंबन्धभानादसंभवात् / तथा पुत्राऽऽदिसंबन्धद्वारेण पित्रादिरेव पुरुषो भवेत्, न त्वल्पो महान्वेति युक्तः, विशेषप्रतिपत्तेरुपचितत्वे मिथ्यात्वे वा सामान्यप्रतिपत्तावपि तथा प्रसक्तेरिति भावः। अत्राऽऽह भेदैकान्तवादीभण्णइ संबंवसा, जइ संबंधित्तणं अणुमयं ते। नणु संबंधविसेसे, संबंधिविसेसणं सिद्धं ? / / 20 / / सबंन्धिसामान्यवशात् यदि संबन्धित्वसामान्यमनुमतं तव, ननु संबन्धविशेषद्वारेण तथैव संबन्धिविशेषोऽपि किं नाभ्युपगम्यते? सिद्धान्तवाद्याहजुज्जइ संबंधवसा, संबंधिविसेसणं ण पुण एयं / णयणाइविसेसगओ,रूवाइविसेसपरिणामो॥२१।। संबन्धविशेषवशात् युज्यते संबन्धिविशेषः यथा-दण्डाऽऽदि-संबन्धविशेषजनितसंबन्धिविशेषसमासादितः संबन्धिविशेषोऽवगतः / द्रव्याद्वैतवादिनस्तु संबन्धिविशेषनाऽपि संबन्धिविशेषः संगच्छते इति कुतो रसनाऽऽदिविशेषसंबन्धजनितो रसाऽऽदिविशेषपरिणामः (1) / नन्वनेकान्तवादिनोऽपि रूपरसाऽऽदेरनन्तद्विगुणाऽऽदिवैषम्यपरिणतिः कथमुपपन्नेत्याहभन्नइ विसमपरिणयं, कह एवं होहिइ ति उवणीयं / तं होइ परणिमित्तं, न व त्ति एत्थ स्थि एगंतो॥२२॥ शीतोष्णस्पर्शवदे कत्रैकदा विरोधात् भण्यते एकत्राऽऽम्रफलाऽऽदौ विषमपरिणतिः कथं भवतीति परेण प्रेरिते उपनीतं प्रदर्शितमातेन, तद्भवति परनिमित्तं द्रव्यक्षेत्रकालभावानां सहकारिणां वैचित्र्यात् आसादयति तदाऽऽम्रादि वस्तु विषमरूपतया परनिमित्तं भवति, न वा परनिमित्तमेवं तत्राप्येकान्तोऽस्मि, स्वरूपस्याऽपि कथञ्चिन्निमित्तत्यात्, तन्न द्रव्याद्वैतैकान्तः संभवी, द्रव्यगुणयोर्भेदैकान्तवादिना प्राक् प्रदर्शिततल्लक्षणस्यैकत्वप्रतिपत्त्यध्यक्षबाधितत्वाल्लक्षणान्तरं वक्तव्यम्। तदाहदव्वस्स ठिई जम्म वि-गमो य गुणलक्खणं तु वत्तव्वं / एवं सइ केवलिणो, जुज्जइ तं णो उ दवियस्स // 23 // द्रव्यस्य लक्षणं स्थितिः, जन्म विगमो लक्षणं गुणानाम, एवं सति केवलिनो युज्यत एतल्लक्षणं, तत्र किल केवलाऽऽत्मना स्थित एव चेतनाचेतनरूपा अन्येऽथा ज्ञेयभावनोत्पद्यन्ते अज्ञेयरूपतश्चा ऽऽदिवत् (?) कथंवा केवलिनः सकलज्ञेयग्राहिणो नैतल्लक्षणं युज्यते नचाऽपि द्रव्यस्याचेतनस्य गुणगुणिनोरत्यन्तभेदे असत्याऽऽपत्तेरसतोश्च खरविषाणाऽऽदेरिव लक्षणासंभवात् इति द्रव्यार्थान्तरभूतगुणवादिनः। दव्वत्थंतरभूया, मुत्ताऽमुत्ता व ते गुणा होज्जा? | जइ मुत्ता परमाणु, णत्थि अ सुत्तेसु अग्गहणं // 24|| द्रव्यादर्थान्तरभूता गुणा मूर्ता अमूर्ता वा भवेयुः? यदि मूर्ताः, परमाद न तर्हि परमाणवो भवन्ति, मूर्तिमद्रूपाऽऽद्याधारत्वात्. अनेकप्रदेशकस्कन्धद्रव्यवत्। अथाऽमूर्ताः, अग्रहणं तेषां, कथञ्चित् भेदः, यथाक्रसमेकानेक प्रत्ययावसे यत्वात्, कथशिदभेदोऽपि, रूपाऽऽहद्यात्मनः स्वरूपस्य रूपाऽऽदीनां च द्रव्याऽऽत्मकतया प्रतीतेरन्यथा तदभावऽऽपत्तेः। ततःसीसमईवित्थारण-मित्तत्थोऽयं को समुल्लवो। इहरा कहामुहं चे-व नत्थि एवं ससमयम्मि / / 25 / / शिष्यबुद्धिविकाशनमात्रार्थोऽयं कृतः प्रबन्धः, इतरथा कथनं चैत्रनास्ति स्वसिद्धान्तकिमेते गुणाः गुणिनो भिन्ना आहोश्विदभिन्ना इति' अनेकान्ताऽऽत्मकत्वात्सकलवस्तुनः। एवंरूपे च वस्तुतत्त्वे अन्यथारूपं तत्प्रतिपादयन्तो मिथ्याटादिन भवन्तीत्याहन वि अत्थि अन्नवादो, नवितव्वाओ जिनोवएसम्मि / तं चेव य मन्नता, अवमन्नंता नयाणं ति // 26 // नैवास्त्यन्यवादो गुणगुणिनो प्यनन्यवादो, जिनोपदेशे द्वादशाई प्रवचने, सर्वत्र कथचिदित्याश्रयणात् तदेवान्यदेवेति वा मन्यमान आगममेवावमन्यमाना वादिनोऽभ्युपगतविषयावज्ञावधायित्वादनाभवन्ति, अभ्युपगमनीयवस्त्वस्तित्वप्रतिपादकोपायनिमित्तापरे. ज्ञानात्, मृषावादिवदिति तात्पर्यार्थः / सम्म० 3 काण्ड। परस्परं द्रव्यपर्याययोरत्यन्तं भेदः ? इत्यत्र युक्तिमाहउप्पायाइसहावा, पज्जाया जंच सासयं दव्वं / ते तप्पभवा न तयं, तप्पभवं तेण ते भिन्ना / / 2652 // (उप्पायेत्यादि) यस्मादुत्पादव्ययपरिणामस्वभावाः पर्यायाः, शाका नित्यं पुनर्द्रव्यम्। अपरं च-ते गुणास्तत्प्रभवा द्रव्यालब्धाऽऽत्मलाभः न पुनस्तद्रव्यं तत्प्रभव गुणेभ्यो लब्धाऽऽत्मस्वरूपम् तेन तन्मादनन्यायेन परस्परं भिन्नस्वभावत्वात् भिन्नास्ते द्रव्यपर्याया अन्योऽन्टव्यतिरेकिण इति // 2652 // द्रव्यपर्यायार्थिकनयप्रस्तावे, विचक. एकार्थके, आ०म० 1 अ० / विशे०। अथ पर्यायाभिधानं किमर्थमा उच्यते-असम्मोहप्रतिपत्त्यर्थम्। तथा चन्द्रः शशी निशाकरो रजनिक उडुपतिरित्येवमादिषु चन्द्रपर्यायेषु,आदित्यः सविता भास्करो दिनका इत्येवमादिषु सूर्यपर्यायष्वभिहितेषु चन्द्रसूर्यपर्यायाभिज्ञःसन् एकस्मिन शशिपर्याय केनाप्युक्ते समस्तसूर्यपर्यायव्युदासेन चन्द्रपर्यायेषु सर्वपुरी वा सूर्यपर्याय एकस्मिन् केनाप्युक्ते समस्तचन्द्रपर्यायपरित्यागेन सर्व सूर्यपर्यायेषु संप्रत्ययो भवति, न तु मुह्यति / आ०म० 1 अ० ! भदे, आव० 4 अ०। पर्यायो भेदो भाव इत्यनर्थान्तरम्। विशे० / आ० :