________________ 231 - अभिधानराजेन्द्रः - भाग 5 पज्जाअ का पर्यायो विशेषो धर्म इत्यनर्थान्तरम्। स्था० 4 ठा०२ उ०। अनु०। विश० / स्वपरपर्यायाऽऽदयोऽनेकप्रकाराः पर्यायाः।विशे। ते चे पर्याया द्विविधा:-रूपरसाऽऽदयो युगपद्भाविनो, नवपुराणाऽऽदयस्तु क्रमभाविनः / पुनः शब्दार्थपर्यायभेदात्सर्वेऽपि द्विविधाः। तत्र इन्द्रो दुश्च्यवनो हरिरित्यादिशब्दैथेऽभिलप्यन्त ते सर्वेऽपि शब्दपर्यायाः। ये त्वमिलापयितुं न शक्यन्त शृतज्ञानविषयत्वादतिक्रान्ताः केवलाऽऽदिज्ञानविषयास्तेऽर्थपर्यायः / पुनरेत द्विविधाः-स्वपर्यायाः, परपर्यायाश्च / पुनस्तेऽपि केचिस्वाभाषिकाः, केचित्पूर्वापराऽऽदिशब्दतयाऽपेक्षिकाः। पुनरेते सर्वेऽप्यतोतानागतवर्तमानकालभेदात्त्रिविधाः / विशे० / नं० / आ०म०। (अक्षरस्य के स्वपर्यायाः के परपर्याया इति 'अक्खर' शब्दे प्रथमभागे 141 पृष्ठे उक्तम्) गुणपर्याययोर्भेदः-सहवर्तिनो गुणाः, क्रमवर्तिनस्तु पर्यायाः / अ०म० 1 अ०। सहवर्तिनो गुणाः शुक्लत्वाऽऽदयः। क्रमवर्तिनः पर्याय नवपुराणाऽऽदयः। आ०म०१ अ०। (इति 'गुण' शब्दे तृतीयभागे 106 पृष्ठे विन्तरः) दूरे ता अण्णत्तं, गुणसद्दे चेव जाव पारिच्छं। किं पज्जवाहिए हो-ज्ज पज्जवे चेव गुणसण्णा ||6|| दूरे तादल गुणगुणिनोकरेकान्तेनान्यत्वम्, असंभावनीयमिति, यावदगुणाऽऽत्मकद्रव्यप्रत्ययबाधितत्वादेकान्तगुणगुणिभेदस्य। न च समवायनिमित्तोऽयमभेदपारोक्ष्यमस्ति / किं पर्यायादधिक गुणशब्द उत पर्याय एव प्रयुक्त इति अभिप्रायश्चन पर्यायादन्यो गुणः, पर्यायश्च कंथश्चिद् द्रव्याऽऽत्मकम् इति विकल्पः कृतः। यदि पर्यायाः गुणसंज्ञाः ततः / दो पुण नया भगवया, दव्वट्ठियपज्जवट्ठिया नियया। एतो य गुणविसेसे, गुणट्ठियणओ वि जुजंतो।।१०।। द्रायेव मूलनयौ भगवता द्रव्यार्थिकपर्यायार्थिको नियमितौ तत्रातः पर्यायादधिके गुणविशेष ग्राह्ये सति तद्ग्राहकगुणास्तिकनयोऽपि नियमितुं युज्यमानः स्यात्, अन्यथा अव्यापकत्वं नयानां भवेत्, अर्हतो वा तदपरिज्ञानं प्रसज्येत। नच भगवताऽसावुक्त इत्याहजं च पुण अरिहया ते-सु तेसु सुत्तेसु गोयमाईणं / - पज्जवसण्णा णियया, वागरिया तेण पज्जाया // 11 // यतः पुनर्भगवता तस्मिस्तस्मिन्सुत्रे "वण्णपज्जवेहिं गंधपञ्जवेहि'' इत्यादिना पर्यायसंज्ञा नियमिता वर्णाऽऽदिसुगौतमाऽऽदिभ्यो व्याकृता, ततः पर्याया एव वर्णाऽऽदयो गुणा इत्यभिप्रायः। अथ तत्र गुण एव पर्यायशब्देन कस्तुल्यार्थत्वादागमाच्चय एव पर्यायःस एव गुण इत्यादिकात्॥११॥ एतदेवाऽऽहपरिगमणं पज्जाओ, अणेगकरणं गुणो त्ति एगत्थं / तह वि न गुण त्ति, भण्णइ, पज्जवणयदेसणं जम्हा / / 12 / / परि समन्तात्सहभाविभिः, क्रमभाविभिश्च भेदैर्वस्तुतः परिणतस्य गमनं परिच्छेदो यः सपर्यायो विषयविषयिणोरभेदेनैकरूपतया वस्तुनः करणं करोतेानार्थत्वाज्ज्ञानं, विषयविषयिणोरभेदादेव गुण इति तुल्यार्थी गुणपर्यायशब्दौ तथाऽपि न गुणार्थिक इत्यभिहितस्तीर्थकृता, | पर्यायनयद्वारेणेव देशनायस्मात कृता भगवतेति। गुणद्वारेणाऽपि देशनायां भगवतः प्रवृत्तिरुपन्यस्यते, न गुणाभाव इत्याहजंपति अस्थि समये, एगगुणो दसगुणो अणंतगुणो। रूवाईपरिणामो, भण्णइ तम्हा गुणविसेसो।।१३।। जल्पन्ति द्रव्यगुणान्यत्ववादिनो-विद्यत एव सिद्धान्ते "एगगुणकालए दुगुणकालए" इत्यादि रूपाऽऽदौ व्यपदेशस्तस्माद् रूपाऽऽदिर्गुणविशेष एवेत्यस्ति गुणाथिको नय उद्दिष्टश्च भगवतेति। ___ अत्राऽऽह सिद्धान्तवादीगुणसद्दमंतरेण वि, तंतु पज्जवविसेससंखाणं / सिज्झइ णवरं संखा-ण सत्थधम्मो न य गुणो ति॥१४|| रूपाऽऽद्यपि गुणशब्दव्यतिरेकेणाप्येकगुणकाल इत्यादि (?) तत्तु पर्यायविशेषसंख्यावाचकं वचः सिध्यति, न पुनः गुणास्तिकनयप्रतिपादकत्वेन,यतः संख्यानं न गुणः शास्त्रधर्मत्वादस्येत्यर्थः। दृष्टान्तद्वारेणामुमेवार्थ दृढीकर्तुमाहजह दससु दसगुणम्मिय, एगम्मिय दसत्तणं समं चेव / अहियम्मि वि गुणसद्दे, तहेव एयं पिदट्ठध्वं // 15|| यथा दएसु द्रव्येषु एकस्मिन् वा द्रव्ये दशगुणिते गुणशब्दातिरेकेऽपि दशत्वं सममेव तथैवैतदपि न विद्यते परमाणुरेकगुणकृष्णाऽऽदिरित्येकाऽऽदिशब्दाऽऽधिक्ये गुणपर्यायशब्दयोः, वस्तु पुनस्तयोः तुल्यमिति भावः, न च गुणानां पर्यायत्वे वाचकमुख्यसूत्रं गुणपर्यायवद् द्रव्यमिति विरुध्यते, युगपदयुगपत्भाविपर्यायविशेषप्रतिपादनार्थत्वात् तस्य / न चैवमपि मतुब्योगाव्यविभिन्नपर्यायसिद्धिर्नित्ययोगेऽत्र मतुविधानात्, द्रव्यपर्यययोस्तादात्म्यात् सदा विनिर्भागवर्तित्वात्। अन्यथा प्रमाणबाधोपपत्तेः संज्ञासंख्यास्वलक्ष्णार्थक्रियाभेदादा कथञ्चित्तयोरभेदेऽपि भेदसिद्धर्न मतुबनुपपत्तिः। एवं द्रव्यपर्याययोर्भदैकान्तप्रतिषेधे अभेदैकान्तवाद्याहएगंतपक्खवाओ, जो पुण दव्वगुणजाइभेयम्मि। अह पुट्वं पडिकुट्ठो, उ आहरणमेत्तमेयं तु // 16 // एकान्तव्यतिरिक्ताभ्युपगमवादो यः पुनद्रव्यगुणजातिभेदेषु स यद्यपि पूर्वमेव प्रतिक्षिप्तोऽभेदैकान्तग्राहकप्रामाण्यात, अभेदग्राहकस्य च सर्व पिअपुत्तनत्तिभज्जय-भाऊणं एगपुरिससंबंधो। ण य से एगस्स पिउ, त्ति सेसयाणं पिया होइ।।१७।। पितृपुत्रनतृभागिनेयभ्रातृभिर्य एकस्य पुरुषस्य संबन्धस्तेनासावेक एव पित्रादिव्यपदेशमासादयति / न चासावेकस्य पितापुत्रसंबन्ध इति शेषाणामपि पिता भवति। जह संबंधिविसिट्ठो, सो पुरिसो पुरिसमावणिरइसओ। तह दध्वमिंदियगयं, रूवाइविसेसणं लहइ / / 18 / / यथा प्राग दर्शितइतिसंबन्धविशिष्ट : पित्रादिव्यपदेशमाश्रित्याऽसौ पुरुषः पुरुषरूपतया निरतिशयोऽपि संस्तथा द्रव्यमपि इन्द्रियगतं घ्राणरसनचक्षुस्त्वक् श्रोत्रसंबन्धभवाप्य रूपरसगन्धस्पर्शशब्दव्य पदैशमात्र लभते द्रव्यस्वरूपेणाविशिष्ट मपि, न हि