________________ पज्जवट्टिय 229 - अमिधानराजेन्द्रः - भाग 5 पज्जवट्ठिय पज्जवट्ठिय पुं० (पर्यवार्थिक) पर्येत्युत्पादविनाशौ प्राप्नोतीति पर्यायः, स एतार्थः, सोऽस्ति यस्यासौ पर्यायार्थिकः / रत्ना०७ परि० / सर्वेषां भावानामनित्यताऽभ्युपगन्तरि मूलनयभेदे, सम्म०१काण्ड। ("मूलणियमंण पज्जवणयस्स्उज्जुसुयवयणविच्छेदो / तस्स उ सद्दाईया, साहपसाहा सुहुमभेया // 5 // " इति गाथा 'दव्वट्ठिय' शब्दे चतुर्थभागे 2468 पृष्ठ व्याख्याता) (तथा 'ण य दव्ववियपक्खे, संसारो णेव परवणयस्स / सासयवियत्तिवाई,जम्हा उच्छेअवाई य।।१७।।" इयं 'गाय' शब्दे चतुर्थभागे 1860 पृष्ठे व्याख्याता) पर्यायार्थिक प्रपञ्चयन्तिपर्यायार्थिकश्चतुर्धा-ऋजुसूत्रः,शब्दः, समभिरूढः, एवंभूतबेति // 27 // रत्ना०७ परि०। (ऋजुसूत्राऽऽदीनां घ्याख्यातु स्वस्वस्थाने) पर्यायार्थिक एवापि, मुख्यवृत्त्याऽत्र भेदताम्। उपचारानुभूतिभ्यां, मनुतेऽभेदतां त्रिषु / / 3 / / (पर्यायेति) पर्यायार्थिकनयः एवाऽपि एवमेवंप्रकारेणोक्तलक्षणेन, मुखवृत्त्या प्रधानव्यापारेण,अत्र द्रव्यगुणपर्यायेषु, भेदतां भेदभावं ज्ञापयति, यतश्चैतस्य नयस्य मते मृदादिपदस्य द्रव्यमित्यर्थः 1, रूपाऽऽदिपदस्य गुण इत्यर्थः२, घटाऽऽदिपदस्य कम्बुग्रीवपृथुबुध्नाऽऽदिपर्याय इत्यर्थः 3, इत्थं त्रयाणामपि मिथो नामाऽनन्तरकल्पना भिन्नाऽभिन्ना प्रदर्शिता, अतो द्रव्यगुणपर्यायाणां प्राधान्येन भेदोऽस्तीति ध्येयम्। तथा उनः-उपचारानुभूतिभ्यामुपचारो लक्षणा, अनुभूतिरतुभवः, उपचारश्चानुभूतिश्च ताभ्यां पर्यायार्थिकनयोऽपि अभेदताम् अभेदभावं द्रव्याऽऽदिषु त्रिषु मनुते। यतः घटाऽऽदिमृद्रव्याऽऽद्यभिन्नमेवाऽऽस्ते, लक्षणयाज्ञानेन चेति इमां प्रतीति घटाऽऽदिपदानां मृदादिद्रव्येषु लक्षणाप्रवृत्त्याऽङ्गीकुर्वता न कदाऽपि क्षतिरिति भावार्थः // 3 / / द्रव्या०५ अध्या०॥ पर्यायार्थिकषड्भेदानाहपर्यायार्थिकषड्भेद-स्तत्राऽऽद्योऽनादनित्यकः। पुद्गलानां तु पर्यायो, मेरुशैल इवाऽचलः // 2 / / (पति) पर्यायार्थिवश्वाऽसौ षड्भेदश्च पर्यायार्थिकषड्भेदः, पर्यायार्थिको नयः षटप्रकार इत्यर्थः / तत्र तेषु षट्सु भेदेषु, आद्यः प्रथमो भेदः, अनादिनित्यकः शुद्धहपर्यायार्थिकः कथ्यते। न विद्यते आदिर्यस्यानादिः पूर्वकल्पनारहितः, उत्पत्त्यभावात्, नित्य एव नित्यकः, स्वार्थे कः, सदैकम्वभावः, अनश्वरत्वात्, अनादिश्च नित्यकश्चेति द्वन्द्वः / अयं च शुद्धपर्यायार्थिकः प्रथमः। क इव ? अचलो मेरुगिरिवि यथा मेरुः पुद्गलपर्यायण प्रवाहतोऽनादिनित्यकोऽस्तिअसङ्ख्यातकाले अन्योऽन्यपुद्गलसंक्रनेणाऽपि संस्थानतः स एव मेरुर्वर्तते, एवं रत्नप्रभाऽऽदीनामपि पृथ्वीपर्याया ज्ञातव्या इति।। अथ द्वितीयः पर्यायार्थिकस्य कथ्यतेपर्यायार्थिकः सादि-नित्यः सिद्धस्वरूपवत्। (पर्यायेति) पर्यायार्थिको द्वितीयः साऽऽदिः आदिसहितः, पुनर्नित्यः, किंवत् ? सिद्धस्वरूपवत्, यथा-सिद्धस्य पर्यायः सादिरस्ति, उत्पत्तिमत्वात्, सर्वकर्मक्षयात्सिद्धपर्याय उत्पन्न, परंतु नित्योऽविनश्वरत्वात् सिद्धपर्यायः सदाकालावस्थितो लभ्यते, राजपर्यायसमं सिद्धपर्यायद्रव्यं भावनीयम्। अथ तृतीयं पर्यायार्थिकं श्लोकार्द्धन, पुनरग्रेतनश्लोकार्द्धनाऽऽहसत्तागौणतयोत्पाद-व्यययुक् सदनित्यकः // 3 // सत्तागौणतयाऽध्रुवत्वेन उत्पादव्ययग्राहकः सदनित्यकः संश्वासावनित्यकश्च अनित्यशुद्धपर्यायार्थिकः कथ्यते,सद्शब्देन यदा शुद्धमित्यर्थस्तदा अनित्यशुद्धपर्यायार्थिको भवति / कीदृशः? उत्पादव्यययुक्उत्पादश्व व्ययश्च उत्पादव्ययौ ताभ्यां युक् सहिताः-सतो हि वस्तुन उत्पादव्ययौ पर्यायेण भवतः, तस्मात्सत्तागौणतया सत्ताया अप्राधान्येन उत्पादव्यययोः प्राधान्येन अनित्यशुद्धपर्यायार्थिकः / / 3 / / तत्र दृष्टान्तमाहएकस्मिन्समये यदत्, पर्यायो नश्वरो भवेत्। एकस्मिन्समये पर्यायो नश्वरः पर्यायो विनाशी भवेत् यद्वद्, शब्दो यथा पर्यायवाचकः, अत्र हि नाशं कथयतः पर्यायस्य उत्पादोऽपि आगतः परं ध्रौव्यं तु गौणत्वेन निदर्शितं,"प्राधान्याप्राधान्ययोः प्राधान्यविधिर्बलीयान।" तस्माद्यस्य प्रधानत्वं तस्यैवोत्पत्तिनाशयोः समावेशः, सत्ता हि ध्रुवे नाशे च विचरन्ती आत्मनो गौणत्वव्यपदेशि वर्तमानत्वमुभयत्र निक्षिपति इति। अथ चतुर्थभेदमुपदिशन्नाहसत्तां गृह्णन् चतुर्थाऽऽख्यो, नित्योऽशुद्ध उदीरितः॥४।। (सत्तेति) दत्तां ध्रुवत्वं गृह्णन् अङ्गीकुर्वन् चतुर्थाऽऽख्यश्चतुर्थो भेदो नित्योऽशुद्धपर्यार्थिक उदीरितः कथित इति श्लोकार्थः / / 4 / / अथामुमेव दृष्टान्तेन द्रढयतियथोत्पादव्ययध्रौव्य-रूपैः शुद्धः स्वपर्यवः। एकस्मिन्समयेऽथातः, पर्यायार्थिकपञ्चमः॥५।। (यथेति) यथा एकसमयमध्ये स्वपर्यायो रूपत्रययुक्त उत्पादव्ययध्रौव्यलक्षणैः शुद्धः / किं च-कोऽपि पर्यव उत्तरचरो रूपाऽऽदिः पाकानुकूलघटे श्यामवर्णः पूर्वचरो नष्टस्तत उत्तरो रक्तवर्ण इति प्रश्नः-रूपी घटः श्यामो वा रक्तो वेति / वितळमाण:सत्तया तथाऽऽकारपरिणतपर्यवः प्राप्यते इति / अत्र हि पर्यायस्य शुद्धरूपं सत्ता, सा यदि गृह्यते तदा नित्याशुद्धपर्यायार्थिको भवति, सत्तादर्शनमेवाशुद्धमिति / अथ पञ्चम भेदीत्कीर्तनं करोति (अथेति) अथातः परंपर्यायार्थिकः पञ्चमो ज्ञेयः / / 5 / / कर्मोपाधिविनिर्मुक्तो, नित्यः शुद्धः प्रकीर्तितः। यथा सिद्धस्य पर्यायैः, समो जन्तुर्भवी शुचिः।।६।। नित्यशुद्धपर्यायार्थिकोऽस्ति। कीदृशः? कर्मोपाधिविनिर्मुक्त:-कर्मण उपाधिकानामन्यद्रव्याणां कुतश्चित्संगतानामुपधिः साहचर्य, तेन विनिर्मुक्तो रहितः कर्मोपाधिविनिर्मुक्तः। (यथेति) यथाशब्देन दृष्टान्तविषयीकरोति-यथाभवीभवः संसारोऽस्तीति भवी संसारी, जन्तुःप्राणी, सिद्धस्य कर्मोपाधिविनिर्मुक्तस्य सिद्धस्य, पर्यायैः समः शुचिर्निर्मल: संसारे संसरतः प्राणिनोऽष्टापि कर्माणि सन्ति, तानि च विचार्यमाणान्युपाधिरूपाणि वर्तन्ते, यद्वत् अग्नेः शुद्धद्रव्यस्थाऽऽर्दैन्धनसंयोगजनितो धूम औपाधिक एव संभाव्यते तद्वदिहापि विद्यमानान्यपि कर्माणि अनात्मगुणत्वेनौपाधिकानि सन्ति, अतस्तेभ्यो युक्तोऽपि अयुक्ततया विचिन्त्यमानः प्राणी सिद्ध एवेति कर्मोपाधिभावः सन्नपिन विवक्षणीयः। अथ च ज्ञानदर्शनचारित्राणि छन्नान्यपि बहिः प्रकटतया विवक्षितानि ततो नित्यशुद्धपर्यायार्थिकभेदस्य भावना संपद्यते।।६।।