________________ पज्जव 227- अभिधानराजेन्द्रः - भाग 5 पज्जव धिकः / एवमेकै कप्रदेशपरिवृद्ध्या चतुःप्रदेशाऽऽदिषु स्कन्धेष्ववगाहनामधिकृत्य हानिवृद्धिर्वा तावद्वक्तव्या यावद्दशप्रदेश कस्क-न्धः / तस्मि दशप्रदेशकस्कन्धे एवं वक्तव्यम्- "जइ हीणे पएसहीणे वा दुपएसहीण वा० जाउ नवपएसहीणे वा, अह अब्भहिए पएसमभहिए वा दुपएसमभहिए वा० जाव नवपएसमभहिए इति।" भावना पूर्वोक्तानुसारेण स्वयं कर्तव्या। सङ् ख्यातप्रदेशकस्कन्धसूत्रे-(ओगाहणट्ठयाए दुट्टाणवडिढ इति) सङ्ख्येयगुणेन वेति / अयङ्ख्यातप्रदेशकस्कन्धे(ओगहणट्टयाए चउट्ठाणवडिए इति) असङ्ख्यातभागेन सङ्ख्यातभागेन सङ्ग्यातगुणेनाऽसङ्ख्यातगुणेनेति / अनन्तप्रदेशस्कन्धेऽप्यगाहनार्थत्यः चतुःस्थानपतितता, अनन्तप्रदेशावगाहनयाऽसम्भवतोऽनन्तभागानन्तगुणाभ्यां वृद्धिहान्यसम्भवात्, (एगपएसोगाढाणं पोगलाप भंते ! इत्यादि) अत्र-(दव्यठ्ठयाए तुल्ले पदेसट्टयाए छट्ठाणवडिए इति) इदमपि विवक्षितैकप्रदेशावगाढपरमाण्वादिकं द्रव्यमिदमध्यपरेकप्रदेशावगाद द्विप्रदेशाऽऽदिकं द्रष्टव्यमिति / द्रव्यार्थतया तुल्यता प्रदेशार्थतया षट्स्थानपतिता, अनन्तप्रदेशकस्याऽपि स्कन्धस्यैकस्मिन्नाकाशप्रदेशेऽवगाहसंभवात्। शेषं सुगमम्। एवं स्थितिभावाऽऽथवाण्यपि सूत्राणि उपयुज्य भावनीयानि (जहन्नोगाहणाणं भंते ! दुधरसियाणमित्यादि) जघन्या द्विप्रदेशकस्य स्कन्धस्यावगाहना एकप्रदेशाऽऽत्मिका, उत्कृष्टा द्विप्रदेशाऽऽत्मिका / अत्र अपान्तरालं नास्तीति मध्यमान लभ्यते। तत उक्तम्-(अजहन्नुक्कोसोगाहणओनत्थि इति) त्रिप्रदेशकस्य जघन्याऽवगाहना एकप्रदेशरूपा, मध्यमा द्विप्रदेशरूपा, उत्कृष्टा त्रिप्रदेशरूपा / चतुःप्रदेशस्य जघन्या एकप्रदेशरूपा, उत्कृष्टा चतुःप्रदेशाऽऽत्मिका, मध्यमा द्विविधा-द्वैविध्यप्रदेशाऽऽत्मिका च, त्रिप्रदेशाऽऽस्मिका / एवं च सति मध्यमावगाहनश्चतुःप्रदेशको मध्यमावगाहनचतुःप्रदेशापेक्षया यदि हीनस्तर्हि प्रदेशतो हीनो भवति, अथान्यधिकस्वतः प्रदेशतोऽधिकः / एवं पञ्चप्रदेशाऽऽदिषु स्कन्धेषु मध्यमाव-गाहनामधिकृत्य प्रदेशपरिवृद्ध्या वृद्धि निश्च तावद्वक्तव्या यावद्दशप्रदेशके स्कन्धे सप्तप्रदेशपरिवृद्धिः / सा चैव वक्तव्या"अजहन्नमणुक्कोसोगाहणए दसपएसिए अजहन्नमणुक्कोसोगाहणस्स दसपएसियस खंधस्स ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अ०भहिए, जइ हीणे पएसहीणे दुपएसहीणे०जाव सत्तपएसहीणे, अह अभहिए पएसअब्भहिए दुपएसअन्भहिए०जाव सत्तपएसअब्भहिए।" इति। शेष सूत्र स्वयमुपरि भावनीय, सुगमत्वात्, नवरमनन्तप्रदेशकोत्कृक्षवगाहनाचिन्तायाम्-(ठिईए वि तुल्ले इति)। उत्कृष्टावगाहनः किलानन्तप्रदेशकः स्कन्धः स उच्यते यः समस्तलोकट्यापी स चाचित्तमहास्कन्धः, केवलिसमुद्धातकर्मस्कन्धो वा, तयोश्चोभयोरपि दण्डकपाट-मन्थान्तरपूरणकलक्षणश्चतुःसमयप्रमाणवेतितुल्यकालता। शेषसूत्रमापादपरिसमाप्तेः प्रागुक्तभावनानुसारेण स्वयमुपयुज्य परिभावनीयम्। प्रज्ञा०५ पद। (संहननानां पर्यायद्वारम्। निर्ग्रन्थानां परिहारविशुद्धिकस्य च पर्यायद्वारं स्वस्वथाने) आभिनिबोधिकाऽऽदिज्ञानपर्यायाःकेवइया णं भंते ! आभिणिबोहियनाणपञ्जवा पण्णता? गोयमा! अणंता आभिणिबोहियनाणपज्जवा पण्णत्ता। केवइया णं भंते ! सुयनाणपज्जवा पण्णत्ता? एवं चेव, एवं०जाव केवलनाणस्स, | एवं मइअन्नाणस्स सुयअणाणस्स य / केवइया णं भंते ! विमंगनाणपज्जवा पण्णत्ता ? गोयमा! अणंता विभमनाणपज्जवा पण्णत्ता। आभिनिबोधिक ज्ञानस्य पर्यवाः विशेषधर्मा आभिनियोधिकज्ञानपर्यवाः, ते च द्विविधाः, स्वपरपर्यायभेदात्। तत्र येऽवग्रहाऽऽह-यो मतिविशेषाः क्षयोपशमवैवित्र्यात्ते स्वपर्यायाः ते चाऽनन्ताः / कथम्? एकस्मादवग्रहादेरन्योऽवग्रहाऽऽदिरनन्तभागवृद्ध्या विशुद्धोऽन्यस्त्वसंख्येयभागवृद्ध्याऽपरः संख्येयभागवृद्ध्या अन्यतरः संख्येयगुणवृद्ध्या तदन्योऽसंख्येयगुणवृद्ध्याऽपरस्त्वनन्तगुणवृद्ध्येति। एवं चसंख्यातस्य संख्यातभेदत्वादसंख्यातस्य चाऽसंख्यातभेदत्वादनन्तस्य चानन्तभेदत्वादनन्ता विशेषा भवन्ति, अथवा-तज्ज्ञेयस्थानन्तत्वात्प्रति ज्ञेयं च तस्य भिद्यमानत्वात्, अथवा मतिज्ञानमविभागपरिच्छेदैर्वृद्ध या छिद्यमानमनन्तखण्ड भवतीत्येवमनन्तास्तत्पर्यायाः,तथायेपदार्थान्तरपर्यायास्तेतस्य परपर्यायाः,तेचस्वपर्यायभ्योऽनन्तगुणाः, परेषामनन्तगुणत्वादिति। ननु यदि ते परपर्यायास्तदा तस्येति न व्यपदेष्टु युक्तं, परसम्बन्धित्वात् / अथ तस्य ते, तदा न परपर्यायास्ते व्यपदेष्टव्याः स्वसम्बन्धित्वादिति? अत्रोच्यतेयस्मात्तत्रासम्बद्धास्ते तस्मात्तेषां परपर्यायव्यपदेशो, यस्माच ते परित्यज्यमानत्वेन तथा स्वपर्यायाणां स्वपर्याया एतदित्येवं विशेषणहेतुत्वेन च तस्मिन्नुपयुज्यन्ते, तस्मात्तस्य पर्यवा इति व्यपदिश्यन्ते, यथा असम्बरूमपि धनं स्वधनमुपयुज्यमानत्वादिति। आह च"जइ ते परपज्जाया, न तस्य अह तस्सन परपज्जाया।" आचार्य आहजं तम्मि असंबद्धा, तो परपज्जावववएसो।।१।। चायस्रपज्जायविसे-सणाइणा तस्स जमुवजुजंति। सधणमिवासंबद्धं, हवंति तो पज्जवा तस्स / / 2 / / " इति। (केवइयाणं भंते ! सुयनाणेत्वादौ) (एवं चेव त्ति) अनन्ताःश्रुतज्ञानपर्यायाः प्रज्ञप्ता इत्यर्थः, तेच स्वपर्यायाः परपर्यायाश्च / तत्र स्वपर्याया ये श्रुतज्ञानस्य स्वगता अक्षरश्रुताऽऽदयो भेदाः, ते चाऽनन्ताः, क्षयोपशमवैचित्र्यविषयाऽसनन्त्वाभ्यां श्रुतानुसारिणां बोधानामनन्तत्वाद विभागपलिच्छेदानन्त्याच्च, परपर्यायास्त्वनन्ताः सर्वभावानां प्रतीता एव। अथवा-श्रुतग्रन्थानुसारिज्ञानां श्रुतज्ञानं, श्रुतग्रन्थश्चाक्षराऽऽत्मकोऽक्षराणि चाऽऽकाराऽऽदीनि,तेषां चैकैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदात्सानुनासिकनिरनुनासिक भेदात् अल्पप्रयत्नमहाप्रयत्नभेदाऽऽदिभिश्च संयुक्तसंयोगासंयुक्तसंयोगभेदात् ट्यादि संयोगभेदाद भिधेयाऽऽनन्त्याच भिद्यमानमनन्तभेदं भवति, तेच तस्य स्वपर्यायाः परपर्यायाश्चान्ये अनन्ता एव। एवं चाऽनन्तपर्यायं तत्। आह च"एक्वेक्कमक्खरं पुण, सपरपज्जायभेयओ भिण्ण। तंसव्वदव्यपज्जा-यरासिमाण मणेयव्वं // 1 // जे लभइ केवली से-सवण्णसहिओ य पज्जवेगारो। ते तस्स सपज्जाया, सेसा परपज्जवा तस्स / / 2 / / " इति। एवं चाक्षराऽऽत्मकत्येनाक्षरपर्यायोपेकतत्यादनन्ताः श्रतज्ञानस्यपर्याया इति। एवं "जाव" त्ति करणादिददृश्यम्- "केवइयाणं भंते! ओहिनाणपजवा पण्णत्ता ? गोयमा ! अणंता ओहिनाणपज्जवा पण्णत्ता ? गोयमा ! अणताओहिनाणपज्जवा पण्णत्ता। केवइयाणभंते!मणपज्जवताणपज्जवा