________________ पजव 213- अभिधानराजेन्द्रः - भाग 5 पज्जव ख्येयभागप्रमाणेऽवगाहे वर्तमानः परिपूर्णः पञ्चधनुःशतप्रमाणा–पेक्षया असंख्येयगुणहीनः, पञ्चधनुःशतप्रमाणस्तु तदपेक्षया असंख्येयगुणामाधिकः / ( ठिइए सिय हीणा इत्यादि) यथाऽवगाहनया हानौ वृद्धौ चतुःस्थानपतित उक्तस्तथा स्थित्याऽपि वक्तव्य इति भावः / एतदेवाह- (जइ हीणे असंखेज्जइभागहीणे वा इत्यादि) तत्रैकस्य किल नारकस्य त्रयस्त्रिंशत्सागरोपमाणि स्थितिः, अपरस्यतुतान्योव समयाऽऽऽदिन्यूनानि / तत्र यः समयाऽऽदिन्यूनस्त्रयस्त्रिंशत्सागरोपमप्रमाणस्थितिकः स परिपूर्णस्त्रयस्त्रिंशत्सागरोपमस्थितिकनारकापेक्षया असख्येयभागहीन परिपूर्णः, त्रयस्त्रिंशत्सागरोपमस्थितिकस्तु तदपेक्षया असंख्येयभागऽभ्यधिकः / समयादेः सागरोपमापेक्षया असंख्ययभागमात्रत्वात्। तथा ह्यसंख्येयैः समयैरेकाऽवलिका, संख्याताभिरावलिकाभिरेक उच्चासनिःस्वासकालः, सप्तभिरुच्छासनिःश्वासरेकः स्तोकः, सप्तभिस्तोकैरेको लवः, सप्तसप्तत्या 77 लवानामेको मुहूर्तः, त्रिंशता मुहूर्त रहोरात्रः, पञ्चदशभिरहोरात्रैःपक्षौ, द्वाभ्यां पक्षाभ्यां मासो द्वादशभिर्मासः संवत्सरः, असंख्येयैः संवत्सरैः पल्योपमसागरोपमाणि / सनयावलिकोच्छासमुहूर्तादेवसाहोरात्रपक्षमाससंवत्सरयुगीनः परिपूर्णस्थितिकनारकापेक्षयाऽसंख्येयभागहीनो भवति / तदपेक्षण वितरोऽसंख्येयभागाऽभ्यधिकः। तथा एकस्यत्रयस्त्रिंशत्सागरोपमाणि स्थितिः, परस्य तान्येवपल्योपमैन्यूँनानि, दशभिश्च पल्योपमकोटाकाटीभिरेकं सागरोपमं निष्पद्यते ततः पल्योपमैन्यूँनस्थितिकः परिपूर्णस्थितिकनारकापेक्षया संख्येभागहीनः परिपूर्णस्थितिकस्तु तदणेक्षयाऽसंख्येयभागाभ्यधिकः / तथाएकस्य सागरोपममेकं स्थितिरपरस्य परिपूर्णानि त्रयस्त्रिंशत्सागरोपमाणि / तत्रैकसागरोपमस्थितिकः पारेपूर्णस्थितिकनारकापेक्षया सङ्ख्येयगुणहीनः, एकस्य सागरोपमस्य त्रयस्त्रिंशता गुणने परिपूर्णस्थितिकत्वप्राप्तेः। परिपूर्णस्थितिकस्तु तदपेक्षया सख्येयगुणाभ्यधिकः ।तथा एकस्य दशवर्षसहस्त्राणि स्थितिरपरस्य त्रयस्त्रिंशत्सागरोपमाणि दशवर्षसहस्त्राएयसख्येयरुपेण गुणकारेण गुणितानि त्रयस्त्रिंशत्सागरोपमाणि भवन्ति / तलो दशवर्षसहस्त्रस्थितिकस्त्रयस्त्रिंशत्सागरोपमस्थितिकनारकापेक्षया असङ्ख्येयगुणहीनः, तदपेक्षया तु त्रयस्त्रिंशत्सागरोपमस्थितिकोऽसङ्ख्येयगुणाभ्यधिक इति। तदेवमेकस्य नारकस्याऽपरनारकापेक्षया द्रव्यतो द्रव्यार्थतया प्रदेशार्थतया चतुल्यत्वमुक्तम्। क्षेत्रतोऽवगाहनं प्रति हीनाधिकत्वेन चतुःस्थानपतितत्वम् / कालतोऽपि स्थितितो हीनाधिकत्वेन चतुःस्थानपतितत्वम्। इदानीं भावाऽऽश्रयं हीनाधिकत्वं पतिपाद्यतेयतः सकलमेव जीवद्रव्यमजीवद्रव्यं वा परस्परतो द्रव्यक्षेत्रकालभार्विनज्यते, यथा घटः / तथाहि-घटो द्रव्यत एको मार्तिकोऽपरः काश्चनौरानताऽऽदिर्वा। क्षेत्रत एक इहत्यः, अपरः पाटलिपुत्रकः / कालत एकोऽद्यतनोऽन्यस्त्वैषमः परुतनो वा / भावत एकः श्यामोऽपरस्तु रक्ताऽऽदिः / एवमन्यदपि / तत्र प्रथमतः पुद्धलविपाकिनामकर्मोदयनिमित्तजीवौदयिकभावाऽऽश्रयेण हीनाधिकत्वमाह-(कालवण्णमज्जवेहि सिय हीणे सिय तुल्ले सिय अब्भहिए) अस्याक्षरघटना पूर्ववत्। तत्र यथा हीनत्वमभ्यधिकत्वंवा तथा वष्स्थानकेच यत्यदपेक्षया अनन्तभागहीनं तस्य सर्वजीवानन्तकेन भागे हते यल्लभ्यते तेनानन्ततमेन भागेन हीनं, | यश्च तदपेक्षया सख्येयभागहीनं तस्यापेक्षणीयस्यासङ्ख्येयलोकाऽऽकाशप्रदेशप्रमाणेन राशिना भागे हते यल्लभ्यते तावता भागेन न्यूनम्।यच तदधिकृत्य सङ्घयेयभागहीनं तस्यापेक्षणीयस्योत्कृष्टसङ्घयेयकेन भागे हृते यल्लभ्यते तावता हीनम् / गुणनसङ्ख्यायां तु यद्यतः सङ्खयेयगुणं तदवधिभूतसुत्कृष्टन सङ्ख्येयकेन गुणितं सत् यावद्धवति तावत्प्रमाणमवसातव्यम्। यच्च यतोऽसङ्खयेयगुणं तदवधिभूतमसङ्घयेयमलोकाऽऽकाशप्रदेशप्रमाणेन गुणकारेण गुण्यते, गुणितं सत् यावद्भवति तदवसेयम् / यच यस्मादनन्तगुणं तदवणिभूतं सर्वजीवानन्तकरुपेण गुणकारेण गुण्यते, गुणितं सत् यावद्भवति तावत्प्रमाणं द्रष्टव्यम् / तथा चैतदेव कर्मप्रकृतिसंग्रहिण्यांष्स्थानकप्ररुपणावसरे भागहारगुणकारस्वरुपमुपवर्णितम्- "सव्वजीवाणंतमसंखलोगसंखेज्जगस्स जेट्ठस्स भागो तिसु गुणणातिसु इति।" सम्प्रत्यधिकृतसूत्रोक्तस्थानपतितत्वं भाव्यतेतत्रकृष्णवर्ण पर्यायवरिमाणं तत्त्वतोऽनन्तसंख्याऽऽत्मकप्यसद्धावस्थापनया किल दशसहस्त्राणि १००००।तस्य सर्वजीवानन्तकेन शतपरिमाणपरिकल्पतेन भागो हियते,लब्धेशतम् १००।तत्रैकस्य किल नारकस्य कृष्णवर्णपर्यायपरिमाणं दशसहस्त्राणि, अपरस्य तान्येव शतेन हीनानि 6600 / शतं च सर्वजीवानन्तभागीरलब्धत्यादनन्ततभो भागः, ततो यस्य शतेन हीनानि दश सहस्त्राणि सोऽपरस्य परिपूर्णदशसहस्त्रप्रमाणकृष्णवर्णपर्यायस्य नारकसयापेक्षयाऽनन्तभागहीनः, तदपेक्षया तु सोऽपरः कृष्णवर्णपर्यायोऽनन्तभागीयधिकः / तथा कृष्णवर्णर्यायपरिमाणस्य दशसहस्त्रसंख्याकस्यासंख्येयलोकाऽऽकाशप्रदेशप्रमाणपरिकल्पितेन पश्चाशत्परिमाणेन भागहारेण भागो ह्रियते, लब्धे द्वे शते। एषोऽसंख्येयतमो भागस्तत्रैकस्य किल नारकस्य कृष्ण-वर्णपर्याया दशसहस्त्राणि शतद्वयेन हीनानि 1800 / अपरस्य परिपूर्णानि दशसहस्त्राणि 10000 / तत्र यः शतद्वयहीनदशसहस्त्रप्रमाणकृष्णवर्णपर्यायः स परिपूर्णकृष्णवर्णपर्यायनारकापेक्षयाऽसंख्येयभागहीनः / परिपूर्णकृष्णवर्णपर्यायस्तुतदपेक्षयाऽसंख्येयभागाधिकः 2 / तथा तस्यैव कृष्णवर्णपर्याय राशेर्दशसहस्त्रसंख्याकस्योत्कृष्टसंख्येयकपरिमाणकल्पितेन दशकपरिमाणेन भागहारेण हियते, लब्धं सहस्त्रम् / एष किल संख्याततमो भागः / तत्रैकस्य नारकस्य किल कृष्णवर्णपर्यायपरिमाणं नवसहस्त्राणि 6000 / अपरस्य दशसहस्त्राणि 10000 / नवसहस्त्राणि तु दशसहस्त्राणि सहस्त्रेण हीनानि / सहस्त्रं च संख्येयतमो भाग इति नवसहस्त्रप्रमाणकृष्णवर्णपर्यायपारपूर्णकृष्णवर्णपर्यायनारकापेक्षया संख्येयभागहीनः, तदपेक्षया त्वितरः संख्येयभागाधिकः तथैकस्य नारकस्य किल कृष्णवर्णवर्यायपरिमाणं सहस्त्रम्, अपरस्य दशसहस्त्राणि, तत्र सहस्त्रदशकेनोत्कृष्टसंख्यातककल्पनेन गुणितं दशसहस्त्रसंख्याकं भवतीति सहस्त्रसंख्यकृणवर्णपर्यायो नारको दशसहस्त्रसंख्याककृष्णवर्णपर्यायनारकापेक्षया संख्येयगुणहीनः, तदपेक्षया परिपूर्णकृष्णवर्णपर्यायः संख्येयगुणाभ्यधिकः / एकस्य किल नारकस्य कृष्णवर्णवर्यायाग्रं द्वे शते, अपरस्य परिपूर्णानि दश सहस्त्राणि द्वे च शते संख्येयलोकाकाशप्रदेशपरिमाणप्रकल्पितेन पञ्चाशत्परिमाणेन गुणकारगुणितेन दशसहस्त्राणि जायन्तेोप्रतिपादयति-(जइहीणेत्यादि) इह भावापेक्षया हीनाधिकत्वचिन्तायां हानौ वृद्धौ च प्रत्येकं स्थानपतितत्वमवप्तयते।