________________ पच्छित्त 162 -- अभिधानराजेन्द्रः - भाग 5 पच्छित्त - तदपि कृत्स्नं परिहारतपसि उह्यमाने आरोहयितव्यमातोषणाय स्यात्। स्यादित्यव्ययभत्रावधारणे / आरोहयितव्यं केवलं, तत्कृत्स्नमारोहयितव्यमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन तस्य प्रतिसे-वितस्य गुरुसमक्षमालोचनायां चतुर्भङ्गी। तामेवाऽऽह-(पुव्वं पडिसेवियमित्यादि) पूर्वमिति पदैकदेशे पदसमुदायापचारात् पूर्वानुपूर्येति द्रष्टव्यम् / ततोऽयमर्थः-गुरुलघुपर्यालोचनायामानुपूा लघुपञ्चकाऽऽदिक्रमेण प्रतिसेवितं पूर्व पूर्वानुपूर्व्या, प्रतिसेवनानुक्रमेणेति भावः / आलोचितम्। एष प्रथमो भगः / तथा पूर्व गुरुलघुपयलो चनया पूर्वानुपूर्त्या मासलघुकाऽऽदि प्रतिसेवितं, तदनन्तर च तथाविधाल्पप्रयोजनोत्पत्ती गुरुलघुपर्यालोचनयैव लघुपञ्चकाऽऽदि प्रतिसेवितम्। आलोचनाकाले तु पश्चात् पश्चानुपूर्व्या आलोचितम्। पूर्व लघुपञ्चकाऽऽद्यालोचित पश्चात् लघुमासाऽऽदीति भावः / एष द्वितीयो भङ्गः / तथा पश्चात् अनुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनामन्तरेण पूर्व गुरुमासाऽऽदि प्रतिसेवित पश्चात् लघुपञ्चकाऽऽदीति भावः / आलोचनावेलायां तु पूर्वानुपूर्त्या आलोचितं पश्चात् गुरुमासाऽऽदीत्यर्थः / एष तृतीयो भङ्गः / तथा पश्चादनुपूर्त्या प्रतिसेवितं, गुरुलघुपर्य लोचनाविरहतो यथाकथञ्चन प्रतिसे वितमिति भावः / पश्चात् पवादनुपूया आलोचित, प्रतिसेवनाऽनुक्रमेण वाऽऽलोचितम्। अथवा स्मृत्वा स्मृत्वा यथाकथञ्चनाप्यालोचितमित्यर्थः / एष चतुर्थो भङ्गः / इह प्रथमचरमभङ्गावप्रतिकुञ्चनाया, द्वितीयतृतीयभनौ प्रतिकुशनाऽप्रतिकुञ्चनाभ्यां चतुर्भङ्गी कृता / तामेवाऽऽह-(अपलि-उंचिए अपलिउचियमित्यादि) यदा अपराधानापन्न आलोचनाभिमुखस्तदैव कश्चित् सकल्पितवान्यथा सर्वऽप्यपराधा मया आलोचनीयाः / एवं पूर्व संकल्पकलि अप्रतिकुश्चिते आलोचनावेलायामप्य प्रतिकुचितमालोचयति। एष प्रथमो भङ्गः / तथा पूर्व संकल्पकाले अप्रतिकुञ्चितम्। आलोचनावेलाया तु प्रतिकुञ्चितमालोचयतीत्येष द्वितीयः / पूर्व संकल्पकाले केनाऽपि प्रतिकुञ्चितं यथा मया सर्वेऽपराधा आलोचनीयाः। एवं पूर्व संकल्पकाले प्रतिकुञ्चिते आलोचनावेलायां भावपरावृत्तेः सर्वमप्रतिकुचितमालोचयति / एष तृतीयो भङ्गः। तथा पूर्व संकल्पकाले केनाऽपि प्रतिकुञ्चितयथा मया सर्वेऽपराधा आलोचनीयाः। तत एवं संकल्पकाले प्रतिकुञ्चित आलोचनावेलायामपि प्रतिकुञ्चित-मेवालोचयति / एष चतुर्थो भङ्गः। तथा प्रतिकुञ्चितमप्रतिकुञ्चितमालोचयतो वीप्सा कल्प्येन व्याप्ता भवति। ततोऽयमर्थः-निरवशेषमालोचयतः सर्वमेतत् यदापन्नमपराधजातम्, यदिवा-कथमपि प्रतिकुञ्चना कृता स्यात्, ततः प्रतिकुचनानिरुपन्नम्। यच गुरुणा सहाऽऽलोचनावेलायां समासेनोचाऽऽसननिष्पन्नं, या चाऽऽलोचनाकाले असमाचारी तन्निष्पन्न च, सकलमेतत्स्वयमात्मना अपराधकारिणा कृतं स्वकृतम्। (साहणिया इति) संहत्य एकत्र मीलयित्वा, यदि संचयितं प्रायश्चित्तस्थानमापन्नस्ततः पाण्मासिक प्रायश्चित्तं दद्यात् / यत्पुनः षण्मासातिरिक्तं तत्सर्व झोषयेत् / अथ मासादिकं प्रायश्चित्तस्थानमापन्नस्ततस्तद्देपमिति वाक्यशेषः / (जे एयाए इत्यादि) यः साधुरेतया अनन्तरोदितया पाण्मासिक्यादिकया वा | प्रस्थापनया प्राक् कृतस्थापराधस्य विषये स्थापना प्रायश्चित्तदानप्रस्थापना तया प्रस्थापितः प्रायश्चित्तकरणे प्रवर्ति तो निर्विशमानस्तर प्रायश्चित्तमुपभुञ्जानः, कुर्वाण इत्यर्थः। यत् प्रमादतो विषयकषायाऽऽदिभिर्वा प्रतिसेवते, ततस्तस्यां प्रतिसेवनायां यत्प्रायश्चित्त सेवते, तदपि कृत्स्नमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा तत्रैव पूर्वप्रस्थापिते प्रायश्चित्ते आरोहयितव्यं स्यात्। चढापयितव्यमित्यर्थः / एष संक्षेपतः सूत्रार्थः / व्यासार्थ तु भाष्यकारोवदन्- "जे भिक्खू'' इत्यादिसूत्रावयवस्य व्याख्यामतिदेशत आहजे चिय सुत्तविभासा, हेट्ठिलसुयम्मि वणिया एसा। स चिय इह पिनेया, नाणत्तं ठवणपरिहारे // 346 / / यैवैषा सूत्रविभाषा- 'जे भिक्खू" इत्यादिसूत्र वयवव्याख्या एककद्विकाऽऽदिसंयोगोपदर्शनरूपा अधस्तनसूत्रे अनन्तरोदितसूत्रे वर्णिता, सैव इहापि अस्मिन्नपि सूत्रे वर्णयितव्या, यदि सैव वर्णयितव्या ततः के विशेष? तत आह नानात्वं पूर्वसूत्राद्विशेषः स्थापनापरिहारे / व्य० 1 उ०२ प्रक० / नि० चू०। (परिहारत-पोव्याख्याऽन्यत्र) (१४)ततःएवं च कीरमाणे, अणुसट्ठाईहिं वेयवच्चयए। को विय पडिसेवेजा, सेविय कसिणेऽऽरुहेयव्यो // 385 / / एवमपि यथागममनन्तरोदितेनापि प्रकारेण अनुशिष्ट्यादौ त्रिविधे वैयावृत्त्ये क्रियमाणे कोऽपि प्रतिसेवेत, प्रायश्चित्तस्थानमापद्येत इति भावः / (से विय कसिणेऽऽरुहयव्वो इति)तदपि कृत्स्नमारोपायतव्यम् / कृत्स्न नाम निरवशेषम्। एतेन "ठविए पडिसेवित्ता स विकसिणे तत्थेव आरुहियव्वे सिया।" इति सूत्रपद व्याख्यातम्। कृत्स्नमित्युक्तम्। तत्र कृत्स्नप्ररूपणार्थमाहपडिसेवणा य संचय, आरुवण अणुग्गहे य बोधव्वे / अणुघाय निरवसेस, कसिणं पुण छविहं होइ॥३८६॥ पारंचियमासीयं, छम्मासा रुवण छविणगएहिं। कालगुरु निरंतरं वा, अणुणमहियं भवे छटुं // 387 / / अनयोथियोर्यथासंख्येन पदयोजना। सा चैवम्-कृत्स्नं, पुनः शब्बे वाक्यभेदार्थः, स च वाक्यभेद एवम्-वैयावृत्त्ये क्रियमाणे प्रतिसेवते ततस्तत् कृत्स्नमारोपयेत्। तत्पुनः कृत्स्नंषड्विधं षट्प्रकारं भवतिः तद्यथा-प्रतिसेवने प्रतिसेवनाकृत्स्नम्, एवं संचयकृत्स्नम्, अरोपणाकृत्स्नम्, अनुग्रहकृत्स्नम्, अनुद्धातकृत्स्नम्, निरवशेषकृत्स्नमिति: तत्र पराञ्चितं प्रतिसेवनाकृत्स्नम्, ततः परस्यान्यस्य प्रतिसेवनास्थानस्यासंभवात् / संचयकृत्स्नम्आशीतं मासशत, ततः परस्य संचयस्याभावात्। आरोपणाकृत्स्नम्-षाण्मासिकं, ततः परस्य भगवत वर्द्धमानस्वामिनस्तीर्थे आरोपणस्याभावात् / अनुग्रहकृत्स्नम्- यत् षण्णां मासानामारोपितानां षट् दिवसा गतास्तदनन्तरमन्यान्षण्मासान आपन्नस्ततो यत् अव्यूढ तत्समस्तं झोषितं पश्चात्यदन्यत्पाण्मासिकमापन्नस्तद्वहति। तथा चाऽऽह-(छघिणग एहिं ति) अत्र तृतीया सप्तम्यर्थे। पूर्वषण्माससंबन्धिषु षट्सु दिनेषु गतेषु यदन्यत् पाण्मासिकमारोपितमुह्यते, यत्र यस्मात् पञ्चमासाश्चतुर्विशतिदिवसाचारोपितास्तत एतद्