________________ पच्छित्त 184 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त "छेयाई हुंति निगमणं" इत्यस्य व्याख्यानमाहतेण परं सरियादी, गंतुं सोहिंति बहुतरमलं तु / मलनाणत्तेण भवे, आयंचणजत्तनाणत्तं // 325 / / तस्मादनन्तरोदितात् पटात् परं बहुतरमलं पटं सरिदादि। सरित्नदी। आदिशब्दात्- हृदकूपतडागाऽऽदिपरिग्रहः। तत् गत्वा शोधयन्ति / एवं साधूनामप्यपराधपदानि छेदाऽऽदिभिः पर्यायमण्डल्यादि-रूषाद् गृहाद् निष्काशनेन जिनाऽऽदयः शोधयन्ति। (मलनाणत्तेणेत्यादि) द्वितीयाऽऽदिपटेषु यथा यथा मलनानात्वं तथा तथा आदञ्चनयत्ननानात्वमपि। आदञ्चनं नामगोमूत्रअजालिण्डिकोरवाऽऽदि यत्न आच्छोटनपिट्टनाऽऽदिषु प्रयत्नः। तन्नानात्वमपि। तथाहि-यथा यथा मलस्योपचयस्तथा तथा बहुतरगोमूत्राऽऽदिप्रक्षेपो, बहुतर आच्छोटनपिट्टनाऽऽदिषु प्रयत्नस्ततो भवति। मलनानात्वे आदञ्चनयत्ननानात्वमिव साधनामप्यपराधपदेषु रागद्वेषोपचयवृद्धौ मासादिवृद्धिस्तपःक्रियाविशेष - वृद्धिश्चेति। चरमतृतीयभङ्गव्याख्यानार्थमाहवहुएहिँ जलकुडे हिं, बहूणि वत्थाणि काणि वि विसुज्झे। अप्पमलाणि बहूणि वि, काणि चि सुज्झंति एक्केणं / 326|| कानिचिद्दस्वाणि तथाविधगाढमलानि बहूनि बहुभिर्जलकुटैर्विशुध्यन्ति। एवमपराधपदान्यपि तथाविधानि बहूनि साधूना बहुभिर्मासैः शुद्धिमासादयन्ति / एतेन चतुर्भङ्गो व्याख्यातः। तथा कानिचिदल्पमलानि वस्त्राण्येकेन जलकुटेन शुद्ध्यन्ति। एवं मन्दानुभावे कृतानि बहून्यपि साधूनामपराधपदान्येकेन मासेन शुद्ध्यन्ति। एष तृतीयो भङ्ग उपदर्शितः। अत्र शिष्यः प्राह-यथा रागद्वेषवृद्धिवशतः प्रायश्चित्तवृद्धिरुपलब्धा, तथा किं रागद्वेषहानिवशतःप्रायश्चित्तहानिरप्युपलब्धा? आचार्याः प्राऽऽहउपलब्धा। तथा चैतदेव प्रयच्छतिजह मन्ने दसमं से-विऊण निग्गच्छए उ दसमेणं / तह मन्ने दसमं से-विऊण नवमेण निग्गच्छे // 327|| अहमेवं मन्ये-यथा दशमं प्रायश्चित्तं पाराश्चितं प्रतिसेव्य दशमेन पाराञ्चितेन प्रायश्चित्तेन निर्गच्छति। तथा एतदपि मन्येदशमं पाराञ्चित सेवित्वा नवमेन अनवस्थाप्येन प्रायश्चित्तेन निर्मच्छति शुद्ध्यति। आचार्य आह-सत्यमेतत्। दशमं सेवित्वा दशमेन शुद्धयति, कदाचिन्नवमेनाऽपि अनया गाथया सर्वेऽधोमुखा गमाः सूचिताः / ते चाऽमीदशमं सेवित्वा मूलेन, मूलं सेवित्वा छेदेन निर्गच्छति। एवंषाण्मासिकेन पाश्चमासिकेन चातुर्मासिकेन त्रैमासिकेन द्वैमासिकेन मासिकेन च वक्तव्यम् / दशमं सेवित्वा भिन्नमासेन निर्गच्छति / दशम सेवित्वा विंशत्या रात्रिन्दिवैर्निर्गच्छति। दशमं सेवित्वा पञ्चदशमी रात्रिन्दिवैर्निर्गच्छति। दशमं सेवित्या दशमभक्तेन निर्गच्छति। दशम सेवित्वा अष्टमेन निर्गच्छति।। दशमं सेवित्वा षष्ठेन निर्गच्छति / दशमं सेवित्वा चतुर्थेन निर्गच्छति। दशमं सेवित्वा आचामलेन निर्गच्छति / दशमं सेवित्वकाशनकेन निर्गच्छति / दशमं सेवित्वा पूर्वार्द्धन निर्गच्छति / दशमं सेवित्वा निर्विकृतिकेन निर्गच्छति। तथा- अनवस्थाप्यं सेवित्वा अनवस्थाप्येन | निर्गच्छति / अनवस्थाप्यं सेवित्वा मूलेन निर्गच्छति / एवं यावन्निर्विकृतिकेन निर्गच्छति। एवं मूलेऽपि नेतव्यं यावन्मूलं सेवित्वा निर्विकृतिकेन निर्गच्छति। एवं छेदे,एवंषाण्मासिके,एवं पाश्चमासिके, एवं चातुर्मासिके। एवं त्रैमासिके, एवं मासिके, भिन्नमासे, विंशतिरात्रिन्दिवे, पञ्चदशरात्रिन्दिवे, दशरात्रिंदिवे, पञ्चरात्रिन्दिवे, दशमे, अष्टमे, षष्ठे, चतुर्थ, आचामाम्ले, एकाशनके, पूर्वार्द्ध , निर्विकृतिके च गमा वक्तव्याः, त? एतेऽपि रामा द्रष्टव्याः, सूत्रस्य सूचकत्वात्। निर्विकृतिक सेवित्वा तेनैः निकृतिकेन शुध्यति / निर्विकृतिकं कृत्वा पूर्वार्द्धन निर्गच्छति / एवं यावच्चरमेण पाराशितेन निर्गच्छति / तथा-पूर्वार्द्ध सेवित्वा पूर्वार्द्धन निर्गच्छति। पूर्वार्द्धसेवित्वा एकाशनेन निर्गच्छति।याव-चरमेण एकापान सेवित्वा एकाशनेन निर्गच्छति / एकाशनं सेवित्वा आचामाम्लेन निर्गच्छति यावचरमेण / एवमाचामाम्लाऽऽदिष्व-प्यूर्द्धगमा वक्तव्याः' अत्र शिष्यः प्राऽऽहजह मण्णे बहुसो मा-सियाई सेविय एगेण निग्गच्छे। तह मन्ने बहुसो मा-सियाइ सेविय बहूहिँ निग्गच्छे / / 328 // अहमेवं मन्ये-यथा बहुशो बहून वारान् मासिकाऽऽदीनि परिहारस्थानानि सेवित्वा एकेन मासेन सोऽपराधकारी निर्गच्छति, अपराधपदान्निर्याति, मन्दानुभावेन प्रतिसेवनायां कृतत्वात्। तथा एतदपि मन्दबहुशो बहूनि मासिकानि सेवित्वा कदाचिद् बहुभिर्मासैनिर्गच्छति, यदि तीव्रानुभावेन प्रतिसेवनां कृत्वा स्यादिति भावः / अत्रार्थे आचार्याणामिति वक्तव्यम्, रागद्वेषवृद्धिहानिवशत एकैकस्मिन्नापत्तिस्थाने सर्वप्रायश्चितानामारोपणाभावात्। तत्र यदुक्तं दशमं प्रायश्चित्तं स्थानं सेवित्वा दशमेन शुध्यति दशमं सेवित्वा नवमेन शुध्यति, तत्र दृष्टान्तं प्रागुक्तमेव दर्शयतिएगुत्तरिया पडछ-क्कएण छेयाई हॉति निग्गमणं / तेहिं तु दोसवुड्डी, उप्पत्ती रागदोसेहिं // 326 / / एकोत्तरिका जलकुटस्य वृद्धिर्घटषट्केन नियमयितव्या। कि मुल भवति?कोऽपि तथाविधाऽल्पमलः पट एकेन जलकुटेनगृहे प्रक्षाल्यात, कोऽपि बहुतरमलो द्वाभ्यां कुटाभ्याम्। ततोऽपि बहुतरमलस्विभिः कुरैः एवं यावद् बहुतमः षद्भिः कुटैः / एवं किमपि साधूनामपराधपदनतिप्रभूतरागद्वेषाध्यवसायोपचितं स्वपर्यायमण्डल्यादिरूपे गृह एवाऽदस्थितानां षड्भर्मासैःशुद्ध्यति। किमपि स्तोकरागद्वेषाध्यवसायोपचिन पञ्चभिर्मासैः / ततोऽपि स्तोकरागद्वेषाध्यवसायोपचितं चतुर्भिसि एवमेकैकहानिस्तावद्वक्तव्या यावत्किमप्यल्पतररागद्वेषाध्यवसाहे. पचितमेकेन शुद्ध्यतीति / (छेयादी होति निग्गमणं) यथाकेऽपि घट अतिप्रभूतकठिनमला गृहान्निर्गत्य वहिः सरित्तडागाऽऽदि गत्व बहुभिर्गोमूत्राऽऽदिभिर्बहुभिश्चाऽऽच्छोटनपिट्टनप्रकारैः शुध्यन्ति / तय निर्गमतुल्याः छेदाऽऽदयो भवन्ति। तथाहि-किश्चिदतिप्रबलरागद्वेषाध्य. वसायोपचितमपराधपदं साधूनां दशमेन पाराञ्चिताभिधानेन शुध्यतिः किञ्चित्ततो हीनरागद्वेषाध्यवसायोपचितमनवस्थाप्येन। ततो हीनत. ररागद्वेषाध्यवसायोपचितं मूलेन। ततो हीनतमरागद्वेषाध्यवसायोपचित छेदेन / छेदाऽऽदयश्च पर्यायाऽऽदिगृहान्निष्काशनेन भवन्ति / तर निर्ममनतुल्याश्छेदाऽऽदयः। कस्मादेवं प्रायश्चित्तहानिः? (अत आ