________________ पच्छित्त 185 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त ह-(तेहिं तु इत्यादि) तैरागद्वेषैस्तीव्रतीव्रतरवैराऽऽदिदोषवृद्धः कर्मोपचयवृद्धरुत्पत्तिरतो यथा यथा रागद्वेषध्यवसायवृद्धिस्तथा तथा प्रायश्चित्तस्याऽपि वृद्धिः, यथा यथा च रागद्वेषहानिस्तथा तथा प्रायश्चित्तस्यापि हानिरिति। एतदेवाऽऽहजिण निल्लेवणकुडए, मासे अपलिउंचमाणे सट्ठाणं / मासेण विसुज्झिहिई, तो दें ति गुरूवएसेणं * / / 330 / / जिनाः केवल्यवधिमनः पर्यायज्ञानिप्रभृतयः ते केवलाऽऽदिबलतो यथाऽवस्थितरागद्वेषाऽध्यवसायहानिवृद्धीरुपलभमाना निर्लेपनकुटान प्राणुरूप्रकारेण दृष्टान्तीकृत्य यो यथा शुध्यति तस्मै तथा प्रायश्चित्त प्रयच्छन्ति / तथाहि- मासाहे रागद्वेषाध्यवसायासे प्रतिसे विते तदनन्तरमालोचनायामप्रतिकुञ्चति जिनाः केवलाऽऽदिबलतः श्रुतव्यवहामिण गरूपदेशतः, पाठान्तरं- "जिनोपदेशेन' मासेनैष विशोत्स्यनीति विज्ञाय स्वस्थानं मासिकमेव प्रायश्चित्तं ददति प्रयच्छन्ति / यदि पुनमारिसकं यावत्पाराञ्चितं वा मासाऽऽदिरेव रागद्वेषाध्यवसायैस्ततो हीनतर्वा प्रतिसेवितम्। यदि वा-पश्चात् हा दुष्टकृतमित्यादिभिर्निन्दनैः प्रतनकृतं तदा जिनाः केवलाऽऽदिबलतः, श्रुतव्यवहारिणो गुरूपदेशतस्तथा विज्ञाय तस्मै मासं भिन्नमासं यावदन्ते निर्विकृतिकमपि प्रयच्छन्ति ततो न कश्चिद्दोषः। पुनरप्याह चोदकःपत्तेयं पत्तेयं, पए पए भासिऊण अवराहे। तो केण कारणेणं, हीणऽभहिया व पट्ठवणा ||331|| पदे पदे सूत्रगते प्रत्येकं प्रत्येकमपराधान् भाषित्वा ततस्तदनन्तसमर्थतः केन् कारणेन हीना अभ्यधिका वा प्रस्थापना भणिता? यथा स्तोके प्रायश्चित्तस्थाने बहु प्रयच्छथ, बहुके वा स्तोकम्, यदि वा सर्वथा झोष कुरु थेति? अत्राऽऽचार्य आहमण पर मोहि जिणं वा, चउदस दसपुट्वियं च नवपुट्विं। थेरे च समासज्जां, ऊणऽभहिया च पट्टवणा / / 332 / / मनःपर्यायज्ञानिनं परमावधिं प्रभूतावधि जिनं वा केवलज्ञानिनं चतुर्दशपूर्विणं दशपूर्विणं नवपूर्विण च स्थविराश्च समासाद्याऽऽश्रित्य हीना अभ्यधिका वा प्रस्थापना भवति। इयमत्र भावनामनःपरमावधिजिनाऽऽदयः प्रत्यक्षज्ञानिनः, ततः तेप्रतिसेवकेषु रागद्वेषाऽध्यवसायस्थानाना हानि वृद्धि वा साक्षादवेक्षमाणाः, तुल्येऽप्यपराधपदे रागद्वेषानुरूपं होनमधिकं वा प्रस्थापयन्ति; ददतीत्यर्थः। अथ ये मनः परभावधिजिनाऽऽदयः प्रत्यक्षज्ञानिनस्तेषामेतत् युक्तम्, रागद्वेषाध्यवसायवृद्धिहान्या साक्षादवेक्षणात्। ये पुनः स्थविरास्ते कथं रागद्वेषाणां हानि वृद्धिं वा जानीयुः ? उच्यते बाह्यपश्चात्तापाऽऽदिलिङ्ग तः, तत्र हानिपरिज्ञानलिङ्ग पश्चात्तापाऽऽदिकमाहहा दुठु कयं हा दु-ठु कारियं दुट्ठमणुमयं मे त्ति। अंतो अंतो मज्झइ, पच्छातावेण वेवंतो // 333 / / प्राणातिपाताऽऽदि कृत्वा, कारयित्वा, अनुमोद्य च तदुत्तरकालं हा इति विषादे, दुष्ठ अशोभनं मया कृतम्, हा दुष्टु का रितम्, हा दुष्टु अनुमतम् *"जिणावएसेणं" इतिपाठान्तरम्। मे ममेत्येबलक्षणेन पश्चात्तापेन पश्चात्तापवहिना वेपमानः पश्चात्तापकरणत एव कम्पमानोऽन्तरन्तश्चित्तमध्ये दह्यते ततो ज्ञायते स्थविरैरेतस्य रागद्वेषहानिरिति तदनुरूप प्रायश्चित्तं प्रस्थाप्यते। वृद्धिपरिज्ञानलिङ्गमाहजिणपण्णत्ते भावे, असद्दहंतस्स तस्स पच्छित्तं / हरिसमिव वेदयंतो, तहा तहा वड्डए उवरि // 334|| तस्य प्रायश्चित्तप्रतिपत्तुजिनैः सर्वज्ञैः प्रकर्षेण ज्ञप्ताः प्रज्ञप्ता भावा जीवाऽऽदिकास्तान जिनप्रज्ञप्तान् भावान् अश्रद्दधानस्य / तथा प्राणातिपाताऽऽदि कृत्वा आस्तां तदुत्तरकालं किं त्यालोचनायामपि निधिलाभे हर्षमिव वेदयमानस्य यथा यथा हर्षगमनं तथा तथा प्रायश्चित्तमुपर्युपरि वर्द्धते। किमुक्तं भवति? स्थविरा अपि जिनप्रज्ञप्तभावाश्रद्धानेन तथा तथा हर्षगमनेन च प्रतिसेवकस्य रागद्वेषवृद्धिमवगच्छन्त्यवगत्य च तदनुरूपमुपर्युपरि प्रायश्चित्तं प्रयच्छन्ति। सूत्रम्जे भिक्खू चाउम्मासियं वा सातिरेगचाउम्मासियं वापंचमासियं वा सातिरेगपंचमासियं वा एएसिं परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं पडि से वित्ता आलो एज्जा, अपलिउंचिय आलोएमाणस्स चाउम्भासियं वा सातिरेगचाउम्भासियं वा पंचमासियं वा सातिरेगपंचमासियं, पलिउंचिय आलोएमासस्स पंचमासियं वा सातिरेगपंचमासियं छमासियं वा, तेण परं पलिउंचिए वा अपलिउंचियए वा ते चेव छम्मासा।१३(५) यो भिक्षुश्चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा पाञ्चमासिकं वा सातिरेकपाञ्चमासिकं वा एतेषां परिहारस्थानानामन्यतरत् परिहारस्थानमालोचयेत्, तस्याप्रतिकुञ्च्याऽऽलाचयतः चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा पाश्चमासिकं वा सातिरेकपाश्चमासिकं वा, दद्याद् इति शेषः / यत्प्रतिसेवितं तद्दद्यादिति भावः। तद्योग्यैरेवाध्यवसानैस्तस्य तस्य प्रतिसेवनात्, आलोचनायां वा तत्प्रतिकुञ्चनात् / प्रतिकुञ्च्याऽऽलो चयतश्चातुर्मासिक प्रतिसे वक स्य पाशमासिक सातिरेकचातुर्मासिकप्रतिसेवकस्य सातिरेकपाश्चमासिकं, मायानिष्पन्नस्य गुरुमासस्याधिकस्य दानात् / पाश्चमासिकप्रतिसेवकस्य सातिरेकपाश्चमासिकप्रतिसेवकस्य च पाण्मासिकं, षण्मासात्परस्य भगवद्वर्द्धमानस्वामितीर्थे तपोदानस्यासंभवात्। (तेण परमित्यादि) ततः पाश्चमासिकात्स्थानात्परस्मिन्षाण्मासिके सातिरेके वा पाण्मासिके प्रतिसेविते आलोचनाकाले प्रतिकुञ्चितेऽप्रतिकुञ्चते वा त एव स्थिताः षण्मासाः प्रदातव्याः, परतस्तपोदानस्य निषेधनात् / तदेवं पञ्चमसूत्रमुक्तम्। इदानीं षष्ठ सूत्रमाहएवं बहुसो विनेयव्वं / एवममुना प्रकारेण बहुशोऽपि बहुशःशब्देन विशिष्टमपि सूत्रं षष्ठ वक्तव्यम् / तचैवम् "जे भिक्खू बहुसो चाउम्मासिय वा बहुसोसातिरंगचाउम्मासियं वा बहुसो पंचमासियं वा बहुसो सातिरंगपंचमासिय वा एएसिंपरिहारट्ठाणाणं अण्णयर परिहारट्ठाण पडिसेवित्ता आलोएज्जा, अपलिउचिय आलोएमाणस्न चाउम्मासियं वा साइरेगचाउमासियं वा पंचमासियं वा सातिरेगपंचमासिय वा