________________ पच्छित्त 153 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त तह मन्ने मासियं से- विऊण चरमेण निग्गच्छे // 321 // बोदको वाक्त-अहमेवं मन्ये-यथा मासिक परिहारस्थानं सेवित्वा सोऽधिकृतः प्रायश्चित्तप्रतिपत्ता एकेन, मासेनेति गम्यते / निर्गच्छति शुद्धयति / तथा आस्तामन्येन द्वैमासिकाऽऽदिना / एतदप्यहं मन्ये / अतिशयख्यापनार्थ भूयो मन्ये इत्युपादानम्। मासिकं सेवित्वा चरमेण पाराधितेन निर्गच्छति शुद्ध्यति / एवं चोदकेनोक्ते सत्याचार्य आहसत्यमेतत्, यदा मासिक सेवित्वा कदाचिचरमेण शुद्ध्यति ; इह मासिक सेधित्वा मासेन शुद्ध्यतीत्यादिगमो गृहीतो, मासिक सेवित्वा चरमेण शुद्ध्यतीत्यन्तगमः / आद्यन्तग्रहणे मध्यमन्यापि ग्रहणमिति शेषा अपि गमाः सूचेिताः, मासिकग्रहणेन तद् द्वैमासिकाऽऽदीन्यपि। तद्यथा-यथा मास सेवित्या मासेन निर्गच्छति, तथा मास सेवित्वा द्वाभ्यां मासाभ्यां निर्गच्छति, मासं सेवित्वा त्रिभिमसैनिर्गच्छति, मासं सेवित्वा चतुर्भिर्मासैनिगग्छति, मास सेवित्वा पञ्चभिमॉसैर्निर्गच्छति मासं सेवित्वा षभिर्मासैर्निर्गच्छति, मासं सेवित्वा छेदेन निर्गच्छति, मासं सेवित्वा मूलेन निर्गच्छति, मासं सेवित्वा अनवस्थाप्येन निर्गच्छति, मासं सेवित्वा चरमेण पाराञ्चितेन निर्गच्छति / तथा द्वैमासिकं सेवित्वा द्वाभ्यां निगच्छति, द्वैमासिक सेवित्वा त्रिभिर्मासैर्निर्गच्छति। एवं यावद्द्वैमासिक सेविल्या चरमेण निर्गच्छति। तथा त्रैमासिकंसेवित्या त्रिभिर्मासैर्निर्गच्छति, त्रैमासिक सेवित्वा चतुर्भिर्मासैर्निर्गच्छति। एवं यावत्त्रैमासिकं सेवित्वा चरमेण निर्गच्छति। तथा चातुर्मासिकं सेवित्वा चतुर्भिर्मासैर्निर्गच्छति, यावच्चरमेण निर्गच्छति। तथा पञ्चमासिकं सेवित्वा पञ्चभिर्मासैर्निर्गच्छति। एवं यावच्चरमेण निर्गच्छति। तथा षाण्मासिकं सेवित्वा षभिर्मासैनिगच्छति, यावच्चरमेण निर्गच्छति।तथा छेदंसेवित्वा छेदेन निर्गच्छति, यावचरमेण निर्गच्छति / मूलं सेवित्वा मूलेन निर्गच्छति, यावचरमेण निर्यच्छति / अनवस्थाप्यं सेवित्वा अनवस्थाप्येन निर्गच्छति, अनवस्थाप्यं सेवित्वा चरमेण निर्गच्छति। अत्र शिष्यः प्राऽऽह-यस्मिन्नापन्ने यत्तदेव दीयते तत् आपत्तिसम दानमुचितम्, अन्यादृशे त्वासेविते यदन्यादृशं दीयते तत्र को हेतुः? आचार्य आहजिण निल्लेवणकुडए, मासे अपलिउंचमाण सट्ठाणं। मासेण विसुज्झिहिई, तोदेंति गुरूवएसेणं / / 322 / / जिनाः केवलिनो, जिनग्रहणादवधिमनःपर्यायज्ञानिनःचतुर्दशनवपूर्वधरा गृहीताः / एते यथावस्थिताः संक्लेशविशोधिपरिज्ञाने अपराधनिष्पन्नं मासिकाऽऽदि, भावनिष्पन्नं च द्वैमासिकाऽऽदि यथा विशुध्यति तदा तद्विशोधिनिमित्तं प्रायश्चित्तं ददति। तत्राध्यवसानेन मासे प्रतिसेविते यद्यप्रतिकुञ्चतमालोचयति ततस्तस्मिन्नालोचनायामप्रतिकुशतः स्वस्थानं मासमेव प्रयच्छन्तिा अथवा-यानि द्वैमासिकाऽsदीनां प्रायश्चित्तानामहर्हाण्यध्यवसा-यस्थानानि तैर्मासः प्रतिसेवितः, तत एष द्वैमासाऽऽदिभिर्मासैर्विशोत्स्यतीति जिनाः केवलाऽऽदिबलतः, श्रुतव्यवहारिणो वा गुरूपदेशेनाधिकमपि प्रायश्चित्तं प्रयच्छन्ति / अत्र चार्थे -(निल्ले-वणकुडए इति) निर्लेपनकुटदृष्टान्तः। निर्लेपको रजकः, कुटो जलभृतो घटः। यथा जलकुटैर्वस्त्राणि रजकः प्रक्षालयति, तथा ऽपराधपदानि जिनाऽऽदयो मासाऽऽदिभिः शोधयन्ति। अथवा-निर्लेपनं लेपस्य मलस्याभावः, कुटो जलकुटः, स दृष्टान्तः।अत्र चत्वारो भङ्गाः। एकं वस्त्रमेकेन जलकुटेन निर्लेपनं क्रियते 1 / एकं वस्त्रमनेकैर्जलकुटैः 2 / अनेकानि वस्वाणि एकेन जलकुटेन 3 / अनेकानि वस्त्राण्यनेकैर्जलकुटैः / / तत्र प्रथमद्वितीयभङ्ग व्याख्यानार्थमाहएगुत्तरिया घडछ-कएण छेयादि हों ति निग्गमणं / एएहिँ दोसवुड्डी, कप्पिज्जइ दोहिँ ठाणेहिं / / 323|| एकोत्तरिका घटस्यावृद्धिर्घटषट्केन परिसमापयितव्या / इयमत्र भावना-कोऽप्यल्पमलः पट एकेन जलकुटेन शुध्यति, स गृह एव प्रक्षाल्यते। एष प्रथमभङ्गः। ततो मलिनतरः कठिनमलो वा पटो द्वाभ्यां कुटाभ्यां शुद्धिमासादयति, सोऽपि गृह एव प्रक्षाल्यते। ततोऽपि मलिनतररित्रभिः कुटैः, सोऽपि गृहे प्रक्षाल्यते। एवमेकोत्तरिका वृद्धिस्तावन्नेया यावत्कोऽपि मलिनतरः षड्भिर्जलकुटैः शुद्धयति, सोऽपि गृह एव प्रक्षाल्यते / अत्र वस्वस्थानीयान्यपराधपदानि मलस्थानीयानि रागद्वेषाध्यवसायस्थानानि, तज्जनितो वा कर्मसचयः, जलकुटस्थानीयानि मासिकाऽऽदीनि प्रायश्चित्तानि / तथाहि-अल्पमपराधपदमेकेन मासेन शुद्धयति, ततो गुर्वपराधपदं द्वाभ्यां मासाभ्यां, गुरुतरमपराधपदं त्रिभिर्मासैः, ततोऽपि गुरुतरं चतुर्भिर्मासैर्यावत् गुरुतरमपराधपदं षड्भिर्मासैः। (छेयादि होंति निग्गमणमिति) ये गाढगाढतराऽऽदिमलाः पटास्ते गृहान्निर्गत्य बहिः सरित्तडागाऽऽदि गत्वा प्रभूतप्रभूततरैः क्षारगोमूत्राऽऽदिभिर्बहुवहुतरैराच्छोटनपिट्टनाऽदभिर्महन्महत्तमप्रयत्नैः शद्धिमासादयन्ति / तथाऽपराधपदान्यपि गाढगाढतराध्यवसायानिर्वतितानि छेदमूलानवस्थाप्यपाराश्चितैः पर्यायाऽऽदिभ्यो निष्काशनेन शुध्यन्ति। ततो निर्गमतुल्याः छेदाऽऽदयो भवन्ति / अथ कथं जलकुटबहिनिर्गमतुल्यो मासाऽऽदिछेदाऽऽदय इति। अत्राऽऽह-(एएहिं इत्यादि) एताभ्यामनन्तरोदिताभ्यां द्वाभ्यां स्थानाभ्यां मासाऽऽदिछेदाऽऽदिलक्षणाभ्यांदोषवृद्धिस्तीव्रतीव्रतररागद्वेषाध्यवसायवृद्धिः, तजनिता कर्मोपचयवृद्धि, कल्प्यते छिद्यते, ततो मासाऽऽदिच्छेदा ऽऽदयो जलकुटनिर्गमसमानाः। साम्प्रतम् "एगुत्तरिया घडछक्कएणं त्ति" व्याख्यानयतिअप्पमलो होइ सुई, कोइ पडो जलकुडेण एक्केण / मलपरिवुड्डीऍ भवे, कुडपरिवुड्डी तु जा छन्नू // 324|| कोऽपि पटोऽल्पमलः सन् एकेन जलकुटेन शुचिर्भवति शुद्ध्यति। एष प्रथमभङ्ग उक्तः / मलपरिवृद्धौ कुटपरिवृद्धिर्भवति। सा च तावत्यावत्। तुशब्दो विशेषणार्थः। स चैतद्विशिनष्टि-एकेन यावत् पटस्य शुद्धिर्गृह एव क्रियते / इयमत्र भावना-बहुमलपटो द्वाभ्यां जलकुटाभ्यां शुद्ध्यति / बहुमलतरस्थिभिर्जलकुटैः / एवं मलपरिवृद्ध्या जलकुटपरिवृद्धिस्तावदवसेया यावबहुमलतमः षडिभर्जलकुटैः। एतेच गृह एव प्रक्षाल्यन्ते। एवमपराधपदान्यपि मासिकाऽऽदीनि साधूनां स्वपर्यायमण्डल्यादिरूपे गृहे एव स्थितानि मासिकाऽऽदिभिः प्रायश्चित्तैः शोध्यन्ते। एतेन द्वितीयो भङ्ग उपदर्शितः।