________________ पच्छित्त 182 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त यते। तउः परं भूयो भूय आपत्तौ चतुर्वारं लघुकं चतुर्मासं, ततः परं छेदत्रिक, तदनन्तरं मूलत्रिकं, ततोऽनवस्थाप्यात्रकं, तत एकवारं पाराधितं, यदि पुनः पूर्व प्रस्थापितमनुद्धात वहन् स्तोकं बहु वाऽन्यदापद्यते भूयो भूयस्ततः पञ्चवारान् गुरुमासिक दीयते, ततः परं त्रीन वारान् चतुर्गुरुकं, वारत्रयं छेदः, तदनन्तरं वारत्रय-मनवस्थाप्यं, तत एकवारं पाराञ्चितम्। एतदेवाऽऽहआयतरमाइयाणं, नासा लहु गुरुग सत्त पंचेव। चउ तिग चाउम्मासा, तत्तो य चउव्विहो भेओ।।३१६।। आत्मतरो नाम-यस्य वैयावृत्त्यकरणे लब्धि स्ति। आदिशब्दात्परतरपरिग्रहः / आत्मतर आदिर्येषां ते आत्मतराऽऽदयः, आत्मतराः, परतराश्चेत्यर्थः / तेषामात्मतराऽऽदीनां प्रायश्चित्तदानविधिरुच्यते / तत्राऽऽत्मताराणामयम् / उद्धातं पूर्वप्रस्थापितं वहतां सप्त वारान् लघुमासा दीयन्ते / तदनन्तरं चतुरो वारान् चतुर्मासा लघवः / ततश्चतुर्विधो भेदः छेदमूलानवस्थाप्यपाराञ्चितलक्षणो दातव्यः / अनुद्धातं पूर्वप्रस्थापितं वहत्तां पञ्चवारान् गुरुमासो दीयते। तदनन्तरं श्रीन वारान गुरवश्चतुर्मासाः। ततो यथोक्तरूपश्चतुर्विधो भेदः। संप्रति परतरस्य प्रायश्चित्तदानविधिरभिधीयतेपरतरो नामयस्य वैयावृत्त्यकरणे लब्धिरस्ति, नतपसि, ततः स यदा तपः करोति न तदा वैयावृत्त्यं कर्तु समर्थ इति। अत्रापि एकस्कन्धेन कापोतीद्वयं बोदन शक्यमिति दृष्टान्तो वक्तव्यः / यच प्रायश्चित्तं संचयितमसंचयितं वाऽऽपन्नस्तत् यावद् वैयावृत्यं करोति तावन्निक्षिप्त क्रियते, वैयावृत्त्यं च कुर्वन् यदन्य-दापद्यते तत्सर्वं झोष्यते, वैयावृत्त्ये च समाप्ते तत् पूर्वनिक्षिप्त प्रस्थाप्यते, तच वहन् यदि भूयो भूय इन्द्रियाऽऽदिभिरन्यदापद्यते तत उद्धात पूर्वप्रस्थापितं वहतः सप्त वारान् लघुमासिक दीयते। तदनन्तरं पञ्च वारान् चतुर्लघुकम्। ततः परं वारत्रयं मूलं, ततः परंवारत्रयमनवस्थाप्यम्। तत एकवारं पाराञ्चितमिति / अनुद्धातं पूर्वप्रस्थापितं वहतः षड् वारान् गुरुमासिकं दीयते। तदनन्तरं चतुरो वारान् चतुर्गुरुकम्।ततः परं वात्रयं छेदः, तदनन्तरंवारत्रयं मूलं,ततः परंवारत्रयमनवस्थाप्यम्, तत एकवारं पाराश्चितम्। एतदेव सुव्यक्तार्थमाहआवण्णे इंदिएहिं, परतरए झोसणा तउ परेण / मासलहुगा य सत्त य, छच्चेव य हुति मासगुरू / / 317 / / चउलहुगाणं पणगं, चउगुरुगाणं तहा चउकं च / तत्तो छेदादीयं, होइ चउकं मुणेयव्वं // 318|| परतरको वैयावृत्त्यं कुर्वन् यदीन्द्रियाऽऽदिभिः स्तोकं बहु वा आ-पद्यते प्रायश्चित्तं, ततस्तस्मिन्परतरके ततो वैयावृत्त्यकरणादारभ्य यावद्वैयावृत्त्यं करोति तावत्परोपकारीति स्तोक बहु वा यदन्यदापद्यते तस्य सर्वस्थ झोषणता परित्यागः / ततो वैयावृत्त्यसमाप्त्यनन्तरं पूर्वनिक्षिप्तं प्रायश्चितमुद्धातं वहतो भूयो भूय आपत्तौ मासलघुकाः सप्त भवन्ति दातव्याः, सप्त वारान् लघुमासो दीयते इति भावः / अनुद्धातं वहतः षट् भवन्ति मासगुरवो देयाः, षट् वारान् गुरुमासो दीयते इत्यर्थः / (चउलहुगाणमित्यादि) उद्घातं वहतःसप्तवारलघुमासिकदानानन्तरं भूयो भूय आपत्तौ __ चतुर्लघुकानां पञ्चकंदातव्यम्, पञ्चवारान् चत्वारोमासा लघुका दातव्या इत्यर्थः / अनुद्धातं वहतः षड्वारगुरुमासिकदानानन्तरं चतुर्गुरुकाण चतुष्कं चतुरो वारान् गुरुकं देयं, ततः परमुभयस्यापि छेदाऽऽदिचतुष्कं छेदमूलानवस्थाप्यपाराञ्चितलक्षणं भवति पूर्वप्रकारेण ज्ञानबुद्ध्या ज्ञातव्यम्। साम्प्रतं 'झोसणा तउ परेणं,' एतस्य व्याख्यानार्थमाहतं चेव पुथ्वभणियं, परतरए णत्थि एगखंधादी। दो जोए अचयंते, वेयावच्चट्ठया झोसो॥३१॥ यत्पूर्वमन्यतरके भणितं यथा नास्त्येतत् यत् (एगखंधाई) एकेन स्कन्धेन एककालं द्वे कालं द्वे कापोत्यौ न उह्येते इति तदेव परतरकेऽपि सर्वं भणनीयम्। ततो द्वौ योगौ तपःकरणवैयावृत्यलक्षणौ युगपदशक्नुवन वैयावृत्यर्थं झोषः, त्यागः। स्यादेवमुच्यतेतवतीयमसद्दहिए, तवबलिए चेव होइ परियाए। दुव्वले अप्परिणामे, अत्थिर अबहुस्सुए मूलं / / 320 / / यो मास्राऽऽदिकं षण्मासमर्यन्तं तपोऽतीतो व्युत्क्रान्तः / कि मत भवति ?- मासाऽऽदिना षण्मासपर्यन्तेन तपसायो न शुद्ध्यति, तपोग्रहणमुपलक्षणम् / देशच्छेदमपि योऽतीतो, देशच्छेदेनापि यो न शुद्ध्यतीति भावः / तस्य मूलं दीयते इति सर्वत्र संबध्यते। तथा (असद्दहिए इनि तपसा पापं शुद्ध्यतीति एतद्यो न श्रद्दधाति तस्मिन्नप्यश्रद्दधाने मूलम् अथवा-अश्रद्दधानो नाममिथ्यादृष्टिः, ततो योऽश्रद्दधान एव सन् छतेषु स्थापितं पश्चात्सकम्यत्वं प्रतिपन्नः सन् सम्यगावृत्तो भवति तस्य मूल देयम् यथा गोविन्दवाचकस्य दत्तमिति। (तवयलिए त्ति) तप सा बलियो बलिष्ठस्तपोबलिकः। किमुक्तं भवति? महताऽपितपसायो नक्लान्या यत्र तत्र वा स्वल्ये प्रयोजने तपः करिष्यामि इति विचिन्त्य प्रतिसेवते, यदि वाषाण्मासिके तपसि दत्ते वदति-समर्थोऽहमन्यदपि तपः कर्तुतदारी मे देहीति तस्मिन् तपोबलिके मूलम् / (परियाए इति) यस्य छेदेन छिद्यमानः पर्यायो न पूर्यते, स्तोकत्वात्। अथवा छेदपर्यायं वो न सम्य श्रद्दधाति-यथा कोऽयमर्द्धजरतीयो न्यायः / कियत्पर्यायस्य छिद्यारे, कियन्नेति। यदि छिद्यते तर्हि मूलत एव छिद्यताम्, यदि वान किमपीति यदि वा वक्तिरत्नाधिकोऽहं बहुकेऽपि परिच्छिन्ने पर्याये अस्ति मे दीर्घः पर्याय इति न किमपि छेत्स्यति, तस्य सर्वस्यापि पर्याय हीनस्य पर्याय श्रद्धानरहितस्य पर्याये गर्वितस्य मूलम् / तथा यो बहुप्रायश्चित्तमापन्नोऽथ च धृतिसंहननाभ्यां दुर्बलत्वात्तपः कर्तुमसमर्थस्तस्मिन् दुर्बल मूलम् / तथा योऽपरिणामत्वात् ब्रूते-यदेतत्तपः पाण्मासिक युष्माभिर्मे दत्तमेतेनाहं न शुद्धयामि, प्रायश्चित्तस्य बहुत्वात् / तस्मिन्नप्यपरिणामे मूलम्। तथा यो धृतिदुर्बलतया पुनः पुनः प्रतिसेवते तस्मिन्नस्थिरे धृत्यवष्टम्भरहिते मूलम्। तथाऽबहुश्रुतोऽगीतार्थः / अथवाअनवस्थाप्यं पाराञ्चितंवा आपन्नः, तस्य चाबहुश्रुततया तहानायोग्यल, तस्मिन्नप्यबहुश्रुते मूलं दातव्यमिति। साम्प्रतमाचार्यों विशेष दर्शयितुकामो यदेवाधस्तात्तावदुक्तं तदेव पृच्छन्नाहजह मन्ने मासियं से-विऊण एगेण सो उ निग्गच्छे।