________________ पच्छित्त 181 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त तथा द्वौ चेटौ / तद्यथा-मासजातः, चतुर्मासजातश्च / तत्र यदि नारजातस्य चेटस्य चतुर्मासचेटाऽऽहारो दीयते तदा सोऽजीर्णेन / विद्राति / चतुर्मासजातस्य मासजातवदाहारो दीयते तदा स तेमहारण नाऽऽत्मानं सन्धारयितुमलम्। एवं यो दुर्बलस्तस्य यदि बलिष्ठ प्रायश्चित्तं दीयते तदा स विद्राति, दुर्बलत्वात्, मासिकचेटवत् / अलिष्ठस्यापि यदि दुर्बल प्रायश्चित्तं दीयते तदा स तावता न विशुद्धिनासादयतीत्यशुद्ध्या विषीदति / ततो यथा भिन्नाग्नौ प्रभूतमिन्धनं, तथा मासजाते चेटे स्तोकमाहारं चतुर्मासजाते प्रभूतमाहारं प्रयच्छतो न रागद्वेषवत्ता, योग्यताऽनुरूपं प्रवृत्तेः। तथा दुर्बले बलिष्ठे च यथोक्तरूपं प्रायश्चित्तं ददाना न वयं रागद्वेषवन्तः / इति उक्त उभयतरकः / (10) इदानीमात्भतरकाऽऽदयो वक्तव्याः , परमुभयतरसदृशोऽन्यतर इति रु एवोत्कर्मण प्रथमतो भण्यते / तस्य स्वरूपमिदम्-यथा एकेन स्कन्धेन द्वे कापोत्यौ युगपत् वोढुं न शक्नोति, तथा सोऽप्यन्यतरकः प्रायश्चित्तव्यावृत्त्ये युगपत्कर्तुं न शक्नोति; स च संचयितमसंचयितं या प्रायश्चित्तमापन्नः / अथ च तदा गुरूणामन्यो वैयावृत्यकरो न विद्यते ततस्तदापन्न प्रायश्चित्तं निक्षिप्त क्रियते। एतेन यदुक्तमधस्तान्निक्षिप्तमिति तद् भादितमवसेयम् / गुरूणां वैयावृत्यं कार्यते, तच्च वैयावृत्यं कुर्वन् यदीन्द्रियाऽऽदिभिरन्यदापद्यते तत्सर्व तु झोष्यते / यदा तु वैयावृत्यं समाप्तं भवति तदा तत्प्राग्निक्षिप्त प्रायश्चित्तमुत्क्षिप्यते। तच्च वहन् यदीन्द्रियाऽऽदिभिरन्यदापद्यते तदाऽनेन विधि नादातव्यम्सत्त चउक्का उग्घा-इयाण पंचेव होंतऽणुग्घाया। पंच लहु पंच गुरुगा, गुरुगा पुण पंचगा तिण्णि // 314|| सत्तारस पण्णारस, निक्खेवा हुंति मासियाणं तु। वीसऽद्वारस मिन्ने, तेण परं निक्खिवणया उ॥३१५।। सोऽन्यतरः पूर्वप्रस्थापितं प्रायश्चित्तं वहन् यदि स्तोकं बहुउद्घातं वा प्रायश्चित्तस्थानमापन्नः, ततो यदि पूर्वप्रस्थापितं प्रायश्चित्त-मुद्घातस्तत उद्घातो भिन्नमासो दीयते / यदि पुनरापद्यते तद् भूयोऽपि भिन्नमासदानम् / एवं भूयो भूय आपत्तौ विंशतिवारान् भिन्नमासा दातव्याः 20 / तदनन्तरं सप्तदश वारा लघुमासाः 17 / एवं द्विमासत्रिमासा अपि वक्तव्याः / तदन्तरमपि भूयो भूय आपत्तौ सप्त वाराश्चतुर्मासाः 7 / ततः परं पञ्च वाराः पञ्च लघु-मासाः 5 / तदनन्तरं त्रीन्वारान् छेदः। ततः परंवारत्रयं मूलम्। तदनन्तरं वारत्रयमनवस्थाप्यम्। तदनन्तरमेकं वारं पाराशितमिति। अथ तस्य पूर्वस्थापितमनुद्घातितं, ततोऽष्टादश वारा गुरुभिन्नमासा दातव्याः 18 / तदनन्तरं पञ्चदश वारा गुरुमासाः 15 / एवं द्विमासास्त्रिमासा अपि वक्तव्याः। तदनन्तरं पञ्च वाराश्चत्वारो गुरुमासाः; शततोऽपि परं त्रिवाराः पञ्च गुरुमासाः 3 / ततो वारत्रयं छेदः 3 / तदनन्तरं वारत्रय मूलम्। ततः परं वारत्रयमनवस्थाप्यम्। एवं संचयितेऽप्युद्घाते अनुदाते च वक्तव्यम्, नवरमादिमास्तपोभेदा वक्तव्याः। किन्तु प्रथमत एवषाण्मासिक, तदनन्तरं छेदत्रिकाऽऽदि अष्टकापहाराऽऽदिकं पूर्ववद्वतव्यम् / अधुनाऽक्षरगमनिका-इह विचित्रा व्याख्याप्रवृत्तिरिति | पश्चादानुपूर्व्या व्याख्या विधेया। पूर्वप्रस्थापितमुद्घातमनुद्घातं च वहतो यथाक्रमं भिन्ने भिन्नमासविषये दानं विंशत्यष्टादशवारान् / किमुक्तं भवति? -पूर्वप्रस्थापितमुद्धातं प्रायश्चित्त वहतो विंशतिवारान् भिन्नमासा दातव्याः / अनुद्धात वहतोऽष्टादश वारा भिन्नमासाः। (तेण परमित्यादि) ततो भिन्नमासदानात् पश्चादानुपूर्व्या परं, प्रागिति भावार्थः / निक्षेपणता निक्षिप्तता आसीत् विंशत्यष्टादशवाराननन्तरं च उद्धातं पूर्वप्रस्थापितं वहतो मासिकानां लघूनां मासिकत्रैमासिकानां सप्तदश निक्षेपा भवन्ति; सप्तदशवारं दानं भवतीत्यर्थः / अनुद्धातं पूर्वप्रस्थापितं वहतो मासिकानां निक्षेपाः पञ्चदश भवन्ति, पञ्चदशवारं मासिकानां दानमित्यर्थः। तथाउद्धातितानां चतुष्का मासचतुष्टयानि सप्त भवन्ति / अनुद्धाताश्चतुष्काःपञ्च भवन्ति,तेषां पञ्च मासा लघुकाः पञ्च गुरुकाः पञ्च भवन्ति। गुरुकाः पुनः पञ्चकाः पञ्च मासास्त्रयः / इदमुक्तं भवति-पूर्वप्रस्थापितमुद्धातं वहतस्त्रिमासदानानन्तरं सप्तवाराश्चत्वारो लघुमासा दातव्याः, तदनन्तरं पञ्च वाराः पञ्चमासा लघवः / अनुद्धातं पूर्वप्रस्थापितं वहतो गुरुमासत्रिमासदानानन्तरं पञ्चवारा लघवश्चतुर्मासा दातव्याः, ततः परं गुरवः पञ्चमासास्विवारा इति / तदेवमेकेषामाचार्याणां व्याख्यानमुपदर्शितम्।। अन्ये पुनरेवं व्याख्यानयन्ति-अन्यतरो नाम द्विधाआत्मतरः, पर-तरश्च। तत्र आत्मतरस्य प्रायश्चित्तदानविधानमिदम् (सत्त चउक्का उग्धाइयाणमित्यादि) यदि पूर्वप्रस्थापितमुद्धातं वहन् भूयो भूयोऽन्यदापद्यते प्रायश्चित्तं तदा प्रथमत एव सप्त वारा उद्धातितानां लघूनां मासानां च तुष्का दातव्याः / सप्तवारा लघवश्चतुर्मासा देयाः, तदनन्तरं पञ्चवारा लघवः पञ्चमासाः, तदनन्तरंवारत्रयं छेदः, ततः परं वारत्रिक मूलं, ततो वारत्रिकमनवस्थाप्यं तत एकवारं पाराञ्चितम्। अथानुद्धातं पूर्वप्रस्थापितं वहन् पुनः पुनरापद्यते प्रायश्चित्तं तत आदौ पञ्चवारा अनुद्धाता गुरवश्चत्वारो मासा दोन भवन्ति, तदनन्तरं त्रीन् वारान् पञ्चमासा गुरवः, ततोवारत्रयं छेदः, तदनन्तरंवारत्रयं मूलं, ततो वारत्रयमनवस्थाप्यम्, तत एकवारं पाराञ्चितम् / यस्त्वन्यतरेतरतस्तस्येदं प्रायश्चित्तविधानम्। (सत्तारस पण्णारसेत्यादि) पूर्वप्रस्थापितमुद्धातं प्रायश्चित्तं वहन् यदिभूयो भूयः स्तोक बहु वा अन्यत् प्रायश्चित्तमापद्यते, ततस्तस्य सप्तदश त्रैमासिकानां निक्षेपा भवन्ति, सप्तदशवारं त्रैमासिक दीयते इति भावः / तदनन्तरं भूयो भूय आपत्तौ सप्तदश निक्षेपा द्वैमासिकानाम् / तदनन्तरं सप्तदश निक्षेपा मासिकानाम् / ततः परं निक्षेपणं दानं भिन्ने भिन्नमासस्य विंशतिवारान्, ततः परं वारत्रयं छेदः, तदनन्तरंवारत्रयं मूलम्, तदनन्तरं वारत्रयमनवस्थाप्यम्। तत एकवारं पाराञ्चितम्। अनुद्धातं पूर्वप्रस्थापितं वहन् यदिभूयो भूयः स्तोकं बहु वा प्रायश्चित्तमन्यदापद्यते तस्य पञ्चदश गुरूणां द्वैमासिकानां निक्षेपा भवन्ति, पञ्चदशवारं द्वैमासिकं गुरु दीयते इत्यर्थः / ततः परं निक्षेपणता भिन्नमासानां गुरूणामष्टादशवारान्, ततः परं वा-रत्रयं मूलं, ततोऽनवस्थाप्यत्रिक, तत एकवारं पाराञ्चितमिति उक्तोऽन्यतरः ।साम्प्रतमात्मतरस्य प्रायश्चित्तदानमुच्यते संचयितमसंचयितं वा प्रत्येक मुद्धातमनुद्धातं वा वहन् यदि भूयो भूयः स्तोकं बहु वाऽन्यदिन्द्रियाऽऽदिभिः प्रायश्चित्तमापद्यते तदा सप्तवारं लघुमासिकं दी