________________ पच्छित्त 176 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त द्धातो भिन्नमासो दीयते / यदि पुनरप्यापद्यते, ततो भूयोऽपि भिन्नमासो दीयते। एवं विंशतिवारान् भिन्नमासो दातव्यः 20 / यदि विंशतेवरिभ्यः परतोऽपि भूय आपद्यते, ततः स्तोके बहुके वो प्रायश्चित्ते प्राप्ते लघुमासो दीयते एवं भूयो भूयस्तावद्द्यावत् सप्तदश वाराः 17 / नवरमत्र स्तोकं पशाऽऽदिकं भिन्नमासान्तं, बहु द्विमासाऽऽदि पाराश्चितान्तं, ततः परतो यदि पुनरपि भूयो भूय आपद्यते, ततोऽन्यत् सप्तदशवारान् द्वैमासिक दातव्यम् / अत्र स्तोकं पञ्चकाऽऽदि लघुमासपर्यन्तं, बहु त्रिमासाऽऽदि पारा चतान्तम् / एवं त्रैमासिकाऽऽदिष्वप्यधस्तनानि स्थानानि स्तोकमुपरितनानि बहु वेदितव्यानि।ततः सप्तदशवारेभ्यः परतो यदि भूयः पुनः पुनरापद्यते. ततस्वैमासिक सप्तदशवारान् दीयते 17 / ततोऽपि परतो यदि पुनः पुनरापद्यते, ततः सप्तवारान् लघु चातुर्मासिकं दीयते 7 / ततोऽपि परतो यदि पुनर्भूयो भूय आपद्यते, ततः पञ्चवारान् लघुपाञ्चमासिक दीयते / यदि ततोऽपि परतो भूय आपत्तिः, तत एकवारं लघुषामासिक दीयते तदनन्तरं यदि पुनरपि भूयो भूय आपत्तिः, ततस्त्रीन् वारान् छेदो दीयते 3 / यदि ततः परमपि पुनः पुनरापत्तिस्ततस्त्रीन्वारान् मूलं दीयत 3 // ततोऽपि परतो भूयो भूय आपत्तौ त्रीन्वाराननवस्थाप्यदानं, तदनन्तरं यदि पुनरापद्यते तत एकं वारंपाराञ्चितदानमिति। एवमसंचयितमुद्धा तितं गतम् / अथासंचयितमनुद्धातितं प्रस्थापितं ततोऽल्पं बहु वा यदि प्रायश्चित्तस्थानमापद्यते, तर्हि गुरुको भिन्नमासो दीयते, ततः पुनः पुनरापत्तौ सोऽष्टादश वारान् दीयते 18 ततः परं भूयो भूय आपत्ती पञ्चदश वारान गुरुमासिकम् 15 / ततः परंपञ्चदश वारान् गुरुद्वैमासिकम् 15 / ततः परं पञ्चदश वारान् गुरुत्रैमासिकम् 15 / ततो भूयोऽपि परं पञ्चयारान् गुरुचातुर्मासिकम् 5 / ततः परं यदिभूयो भूय आपत्तिस्ततस्त्रीन वारान गुरुपाञ्चमासिकम् 3 / तदनन्तरमकवारं षड्गुरु १।ततः परं छेदत्रिक, ततोऽनवस्थाप्यत्रिक, ततः परमेकं वारं पाराञ्चितम् / संप्रत्यक्षरार्थो विव्रियते-यदि पूर्वप्रस्थापितमुद्धातमनुद्धातं च प्रायश्चित्तं वहन वैयावृत्त्यं च कुर्वन्नुभयतरः स्तोकं बहु वा भूयो भूयः प्रायश्चित्तस्थानमापद्यते, ततो यथासंख्यमुद्धातं प्रायश्चित्तं बहतो लघुभिन्नानां मासिकाना विंशतिवारान् प्रदानम् / अनुद्धातं प्रायश्चित्तं बहतो गुरुभिन्नानां मासिकाना मष्टादश वारान्। तदनन्तरं भूयो भूय आपत्तावुद्धात प्रायश्चित्तं बहतः सप्तदश वारान् लघुमासिका भवन्ति, अनुद्धातं प्रायश्चित बहतः पञ्चदश वारान् गुरुमासिकाः। उग्धाइयमासाणं, सत्तरसेव य अणुम्मुयंतेणं। णायव्वा दोणि तिण्णि य, गुरुया पुण हो ति पण्णरस // 305 / / सत्त चउका उग्धा-इयाण पंचेव होतऽणुग्घाया। पंच लहुया उपंच उ, गुरुगा पुण पंचगा तिण्णि // 306 / / उद्धातितमासानामनुद्धातितमासिकानां ये सप्तदश वारास्तानमुञ्चता ज्ञातव्यो द्वौ मासौ, त्रयश्च मासा ज्ञातव्याः ये पुनर्गुरुका द्वौ त्रयश्च मासास्ते पञ्चदश वारान् ज्ञातव्याः / किमुक्तं भवति? - उद्धातितं प्रायश्चित्तं बहतो मासिकानन्तरं भूयो भूय आपत्तौ द्वौ मासौ सप्तदश वारान् दीयेते ! ततोऽपि भूयो भूय आपत्तौ सप्तदश वारान् त्रीन् मासान्। अथानुवातित प्रायश्चित्तं वहति तर्हि गुरु-मासिकानन्तरं भूयो भूय | आपत्तौ द्वौ गुरुको मासौ पञ्चदश वारान् दीयेते, तदनन्तरं पञ्चदश वारान् त्रीन् गुरुकान्मासानिति / (सत्तचउक्केत्यादि) उद्घातितानां चतुष्काः सप्त भवन्ति। अनुद्धातितानाम्, अत्र गाथायां प्रथमा षष्ट्यर्थे / चतुष्काः पञ्च भवन्ति / लघुकाः पञ्च मासाः पञ्च वारान् भवन्ति / गुरुकाः पुनः पञ्चकाः पञ्च मासाः त्रीन्वारान् भवन्ति। इदमुक्तं भवतिउद्धातं प्रायश्चित्तं वहतः त्रैमासिकानन्तरं भूयो भूय आपत्तौ सप्त वारान् लघुकाश्चत्वारो मासा दीयन्ते ; तदनन्तरं पञ्च वारान् लघुकाः पञ्च मासाः। अनुद्धातितं प्रायश्चित्तं बहतः त्रैमासिकानन्तरं पुनः पुनरापत्तौ पञ्च वारान गुरुकाः पञ्च मासाः,तदनन्तरं त्रीन् मासान्पञ्च गुरुमासाः / साम्प्रतमत्रैवासंचये उद्धातानुद्धाताऽऽपत्तिस्थानानां सुखाव गमोपायमाहउक्कोसाउ पंयातो, ठाणे ठाणे दुवे परिहरेजा। एवं दुगपरिहाणी, नेयव्वा जाव तिण्णेव // 307 / / उत्कृष्ट नाम-उद्धातभिन्नमासगतं विंशतिलक्षणं, तस्मादारभ्योद्धातगते स्थाने यदुत्कृष्टं तदपेक्षया अनुद्धातगतेषु स्थानेषु द्वौ द्वौ परिहापयेत् / एवं द्विकपरिहानिस्तावत् ज्ञातव्या यावदुद्धातगतपञ्चकोत्कृष्टापेक्षया अनुद्धाते त्रय इति। इयमत्र भावनाउद्धाते भिन्नमासे विंशतिः, अनुद्धाते द्विकपरिहान्या अष्टादश, तथोद्धाते मासे सप्तदश, अनुद्धाते पञ्चदश। एवं द्विमासे त्रिमासेऽपि। तथा उद्घाते चतुर्मासे सप्त, अनुदाते पञ्च / तथा उद्घाते पञ्चमासे पञ्च, अनुदाते त्रय इति / तदेवमापत्तिस्थानान्युक्तानि / (E) उद्घातानुद्घातदानविधिः। साम्प्रतमेतेषां दान-विधिमाहअट्ठट्ठ उ अवणेत्ता, सेसा दिजंति जाव उ तिमासे। जत्थऽट्ठगावहारो, न होञ्ज तं झोसए सव्वं // 308|| ये भिन्नमासाऽऽदयो विंशत्यादिवारा आपन्नास्तेभ्यः प्रत्येकमटावष्टावपनयेत्, अपनीय शेषा दीयन्ते, एवं तावत् वाच्यं यावत्रि-मासाः वैमासिकम् / अयमत्र भावार्थः-विंशतिवाराः किलोद्धाता भिन्नमासा आपन्नाः, तत्राष्टौ भिन्नमासा झोषिताः, शेषा द्वादश दीयन्ते / तेऽपि स्थापनाऽऽरोपणाप्रकारेणाधिकं परिशाट्य षण्मासाः कृत्वा दीयन्ते, तथा अष्टादश अनुद्धाता भिन्ना मासा आपन्नाः, तेभ्योऽष्टौ त्यक्ताः, शेषा दश भिन्नमासाः प्रदातव्याः / तेऽपि स्थापनाऽऽरोपणाप्रकारेणाऽधिकं समस्तमपि त्यक्त्वा षण्मासाः कृत्वा दानीया इति। तथा सप्तदश वारा लघुमासाः प्राप्ताः तेभ्योऽष्टौ परित्यज्य शेषा नव लघुमासा दीयन्ते / पञ्चदश वारा गुरुमासा आपन्नाः, तेभ्योऽष्टी परित्यज्य शेषाः सप्त गुरुमासा देयाः / एवं द्वैमासिक त्रैमासिकेऽपि वाच्यम् / सर्वत्र स्थापनाऽऽरोपणाप्रकारेणाधिकं त्यक्त्वा षण्मासाः कृत्वा देयाः / अथाष्टकझोषणाभिधानं किमर्थम् ? एतदेव कस्मान्नोक्तम्-विंशत्यादयो भिन्नमासाऽऽदयःस्थापनाऽऽरोपणाप्रकारेण षण्मासीकृत्य दातव्या इति ? उच्यते - मध्यमतीर्थकृ तामष्टमासिकी या तपोभूमिः, तदनुग्रहार्थमित्यदोषः / उक्तं च निशीथचूण्ाँ - "अट्टमासिया मज्झिमा तवो भूमी, तीए अणुग्गह करणत्थमट्ठभागहारझोसणा कया।" इति। यत्र पुनश्चतुर्मासिके वा पाञ्चमासिके वा अष्टकापहारो न