________________ पच्छित्त 175- अभिधानराजेन्द्रः - भाग 5 पच्छित्त नस्य प्रथममुद्धातं षाण्मासिकं तपो दीयते, द्वितीयवेलायां छेदः, तृतीयवेलायां छेदः,चतुर्थवेलायामपि छेदः, पञ्चमवेलायां मूलं, षष्ठवेलायां मूलं, सप्तमवेलायामपि मूलम्, अष्टमवेलायामनवस्थाप्य, नवमवेलायामनवस्थाप्यं, दशमवेलायामप्यनवस्थाप्यम्, एकादशवेलायां पाराञ्चितमिति / एतदेवाऽऽहछम्मास तवो छेदा-इयाण तिग तिग तहेक्क चरमं च। संवट्टियावराहे, एक्कार पया उसंचइए॥२६७|| संचयिते, कथंभूते ?, इत्याह-संवर्तितापराधे संवर्तिताः पिण्डीभूता अपराधा यत्र तत् संवर्तितापराधम्। तथाहि-बहुषु मासेषु प्रतिसेवितेषु स्थापनाऽऽरोपणाप्रकारेण तेभ्यो मासेभ्यो दिनानि दश दश पञ्चपञ्चेत्यादिरूपतया गृहीत्वा पाण्मासिकं तपो निष्पाद्यते, ततो भवति संचयितं संवर्तितापराधं, तस्मिन्नेकादशपदान्येवं भवन्ति-प्रथमवेलायामुद्धातं षाभासिकं तपः, ततः छेदाऽऽदीनां त्रिक त्रिकम् / किमुक्तं भवति?तदनन्तरं वेलात्रयमपि यावत्छेदत्रिक, तदनन्तरमनवस्थाप्यत्रिकं, तथा एकमेकवेल वा चरमं पाराश्चितमिति। एवमनुद्धातितेऽपि संचयिते एकादश पदानि वाच्यानि। संप्रति येऽत्र प्रायश्चित्तस्याः पुरुषास्तान् प्रतिपादयतिपच्छित्तस्स उ अरहा, इमे उ पुरिसा चउव्विहा हुंति। उभयतर आयतरगा, परतरगा अण्णतरगा य / / 268 // प्रायश्चित्तस्यारे योग्या इमे चतुर्विधाश्चत्वारः पुरुषा भवन्ति। तद्यथाउभयतराः, आत्मतरकाः, परतरकाः, अन्यतरकाश्च। तत्र ये उत्कर्षतः षण्मासान् अपि यावत्तपः कुर्वन्तोऽग्लानाः सन्तः आचार्याऽऽदीनामपि वैयावृत्त्यं कुर्वन्ति, तल्लब्ध्युपेतत्वात् ते उभयमात्मानं परं चाऽऽचार्याऽऽदिकं तारयन्तीत्युभयतराः, पृषोदराऽऽदित्वाद् ह्रस्वः / ये पुनः तपोबलिष्ठा वैयावृत्त्यलब्धिहीनास्ते तप एव यथोक्तरूपं कुर्वन्ति, न वैयावृत्यमाचार्याऽऽदीनामित्यात्मानं केवलं तारयन्तीत्यात्मतराः, स्वार्थिकप्रत्ययविधानात् आत्मतरकाः। ये पुनस्तपः कर्तुमर्घा वैयावृत्त्यं चाऽऽचार्याऽऽदीनां कुर्वन्तिते परंतारयन्तीति परतरकाः / येषां न तपसि वैयावृत्त्ये च सामर्थ्यमस्ति केवलम्, उभयं युगपत्कर्तुं न शक्नुवन्ति, किं त्वन्यतरत्, ते एकस्मिन् काले आत्मपरयोरन्यमन्यतरं तारयन्तीत्यन्यतरकाः। आयतर परतरे विय, आयतरे अभिमुहे य निक्खित्ते। एकेक्कमसंचइए, संचय उग्घायमणुघाया ||26|| आत्मतरश्च स परतरश्च, आत्मतरपरतरः, उभयतर इत्यर्थः। यश्वाऽऽत्मतरः परतरो वा, एतौ द्वावपि प्रायश्चित्तवहनाभिमुखौ भवतः, ततस्तस्मिन्प्रत्येकं प्रायश्चित्तमभिमुखमुच्यते / यस्तु परतरोऽन्यतरको वा यावद् वैयावृत्यं करोति,तौ च तयोः प्रायश्चित्तं निक्षिप्तं क्रियते, इति तन्निक्षिप्तमभिधीयते / एकैकमभिमुख, निक्षिप्तं च द्विधासंचयितमसंचयितं च। पुनरेकैकं द्विधाउद्घातमनुद्घातं च। तदेतत् संक्षेपतउक्तम्। इदानीं विस्तरोऽभिधेयः, तत्र यः प्रथम उभयतरः, तस्येम दृष्टान्तमाचार्याः परिकल्पयन्ति जह मासओ उ लद्धो, सेवयपुरिसेण जुयलयं चेव। तस्स दुवे तुट्ठीओ, वित्तीय कया जुयलयं च / / 300 / / "एगो सेवगपुरिसोरायं ओलग्गइ, सो राया तस्स वित्तिं न देइ, अन्नया तेण राया केणइ कारणेण परितोसितो,ततो तेण रण्णा तस्स तुट्टेण पइदिवसं सुवण्णमासगो वित्ती कया, पहाणं च से वत्थजुयलं दिन्नं।" तथा चाऽऽह-(जहेत्यादि) यथेति दृष्टान्तोपन्यासे, माषकः सुवर्णभाषकः सेवकपुरुषेणलब्धो, युगलं च वस्त्रयुगलंचातस्य च सेवकपुरुषस्य द्वे तुष्ट्यौ जाते, एकंवृत्तिः कृताः, द्वितीयं वस्त्रयुगलमिति। एष दृष्टान्तः / अयमुपनयःएवं उभयतरस्सा, दो तुट्ठीओ उ सेवगस्सेव। सोहीय कया मेत्ती,वेयावचे निउत्तो य॥३०१।। एवं सेवकपुरुषदृष्टान्तप्रकारेण उभयतरस्यसेवकस्येव सेवकपुरुषस्येव द्वे तुष्ट्यौ भक्तः / तद्यथा-एक तावन्मे प्रायश्चित्तदानेन शोधिः कृतः, द्वितीयं वैयावृत्ये नियुक्तस्य महती मे निर्जरा भविष्यति। अथ प्रायश्चित्तं वहन् वैयावृत्यं च कुर्वन् यदि अन्यदपि प्रा यश्चित्तमापद्यते तदा कथम् ? उच्यतेसो पुण जइ वहमाणो,आवजइ इंदियाइहि पुणो वि। तं पिय से आरुहिज्जइ, भिन्नाई पंचमासंतं // 302 / / स पुनरुभयतरः प्रायश्चित्तं व्हन् वैयावृत्यं कुर्वन्यदिपुनरपि श्रोत्रादीन पञ्चानामिन्द्रियाणामन्यतमेनेन्द्रियेण, आदिशब्दात् क्रोधाऽऽदिभिश्च स्तोकं बहु वा प्रायश्चित्तमापद्यते। तत्र स्तोक विंशतिरात्रिन्दिवादारभ्य पश्चादानुपूर्व्या यावत् पञ्चरात्रिन्दिवं, बहुपाराञ्चितादारभ्य पश्चादानुपूा यावत् मासिकं, तदपि (से) तस्य आरुह्यते,भिन्नाऽऽदि भिन्नमासाऽऽदि, आदिशब्दात्सकलमासाऽऽदिपरिग्रहः / पञ्चमासान्त पञ्चमासपर्यन्तम् / इयमत्र भावनास्तोकं बहु वा यथोक्तस्वरूपं यदि प्रायश्चित्तस्थानमापन्नः, तथापि तस्य भिन्नमासाऽऽदि दीयते। कस्मादिति चेद्? अत आहतवबलिओ सो जम्हा, तेण र अप्पे वि दिज्जई बहुअं। परतरओ पुण जम्हा, दिज्जइ बहुए वि तो थोवं // 303 / / यस्मात्स उभयतरकः प्रायश्चित्ततपःकरणे धृतिसंहननबलिष्ठः, तेन कारणेन / रेफः पादपूरणे / "इजेराः पादपूरणे" ||8/2 / 217: इतेि वचनात् ।अल्पेऽपि पञ्चरात्रिन्दिवाऽऽदिके प्रायश्चित्तस्थाने, बहुक भिन्नमासाऽऽदि दीयते / यस्माच परतः परमाचार्याऽऽदिकं वैयावृत्यकरणतस्तारयति, ततो बहुकेऽपि पाराञ्चितिके प्रायश्चित्ते प्राप्पे स्तोक भिन्नमासाऽऽदि दीयते / तदेवं स्तोके बहुके वा प्रायश्चित्तस्थाने प्राप्त भिन्नमासाऽऽदि दाने कारणमुक्तम्। संप्रति भिन्नमासाऽऽदि यथा दातव्यं, तथा प्रतिपादयतिवीसऽवारस लहुगुरु-भिन्नाणं मासियाणमावन्नो। सत्तारस पण्णारस, लहुगुरुया मासिया हुँति / / 304|| स उभयतरक : प्रस्थापितं प्रायश्चित यहन वैयावृत्य च कुवन् यदि स्तोकं बहु वा उद्धातमनुद्धातं प्रायश्चित्तस्थानमन्यदापन्नः, ततो यदि पूर्वप्रस्थापितं प्रायश्चित्तमुद्धातं, तमु