________________ पच्छित्त 177- अभिधानराजेन्द्रः - भाग 5 पच्छित्त गाथायामेकवचन प्राकृतत्वात्। प्राकृते हि वचनव्यत्ययोऽपि भवतीति। चरणशुद्धिश्चारित्रशुद्धिः। अत्र शिष्य आह-ये प्राणातिपाताऽऽदिनिवृत्त्यात्मकाः पञ्च मूलगुणास्ते ज्ञाताः, ये तूत्तरगुणास्तान्न जानीमः, ततः कति उत्तरगुणा इति? सरिराहपिंडस्स जा विसोही, समितीओ भावणा तवो दुविहो।। पडिमा अभिग्गहा विय, उत्तरगुण मो वियाणाहि॥२८६।। पिण्डस्य या विशोधियश्च समितय ईर्यासमित्यादिकाः, याश्च भावना महाव्रतानां, यच द्विभेदं तपः, याश्च प्रतिमा भिक्षणांद्वादश, ये चाभिग्रहा द्रव्याऽऽदिभेदभिन्नाः एतान् उत्तरगुणान् "मो" इति पादपूरणे / विजानीहि। एतेषां चोत्तरगुणानामियं क्रमेण संख्यावायाला अद्वैव उ,पणवीसा बार बारस य चेव। दव्वाइ-चउरभिग्गह, भेया खलु उत्तरगुणाणं // 260 / / उत्तरगुणानां प्रागुक्तानां पिण्डविशुद्धयादीनां क्रमेण खल्वमी भेदाः। तद्यथा-पिण्डविशुद्धेःद्वाचत्वारिंशद्भेदाः-षोडशविध उद्गमः, षोडशविधा उत्पादना, दशविधा एषणा च / समितीनामष्टौ भेदाः। तद्यथा-पञ्च ईसिमित्यादयः, तथा मनः-समितिः, वाक्समितिः, कायसमितिरित्यष्टौ। भावनानां भेदाः पञ्चविंशतिः, एकैकस्य महाव्रतस्य पञ्चपञ्चभावनासगावात्। तपसो द्विविधस्यापि सर्वसंख्यया भेदा द्वादश। द्विविध हितपो, बाह्याऽऽभ्यन्तरभेदात्। बाह्यस्याऽऽभ्यन्तरस्य च प्रत्येकंषड्भेदा इति / प्रतिमानां भेदा द्वादश / ते च- "मासाई सत्ता।" इत्याद्यावश्यकग्रन्थतो वेदितव्याः / अभिग्रहभेदाश्चत्वारो द्रव्याऽऽदिकाःद्रव्याभिग्रहाः, क्षेत्राभिग्रहाः, कालाभिग्रहाः, भावाभिग्रहाश्चातदेवमुक्ता उत्तरगुणाः। संप्रति यदधस्तात्प्रायश्चित्तमुपवर्णितंतगतानां पुरुषाणामि मे विशेषा इति प्रतिपादयतिनिग्गय वटुंता विय, संचइया खलु तहा असंचइया। एक्नेका ते दुविहा,उग्घाय तहा अणुग्घाया॥२६१।। ये प्रायश्चित्त वहन्ति ते द्विविधाः। तद्यथा-निर्गताः, वर्तमानाश्च। निर्गता नाम ये तपोऽहं प्रायश्चित्तमतिक्रान्ताश्छेदाऽऽदिप्राप्ताः / वर्तमाना ये तपोऽहे प्रायश्चित्ते वर्तन्ते। तत्र ये वर्तमानान्ते पुनर्द्विविधाः-संचयिताः, असंचयिताच: संचयः संजात एषामिति संचयिताः,तारकाऽऽदिदर्शनादितच प्रत्ययः / येषण्णां मासानां परतः सप्तमासाऽऽदिकं यावदुत्कर्षतोऽशीतशतं मासानां प्रायश्चित्तं प्राप्तास्ते संचयिताः, तेषां मासेभ्यः स्थापनाऽऽरोपणाप्रकारेण दिवसान गृहीत्वा षण्मासावधिकं प्रायश्चित्तं दीयते / असंचयिता नामये मासिके द्वैमासिके त्रैमासिके चातुर्मासिके पञ्चमासिके षण्मासिके वा प्रायश्चित्ते वर्तन्ते। ते संचयिता असंचयिताश्च एकैके द्विविधाः-उद्धातास्तथा अनुद्धाताः / उद्घातो नामलघुः / अनुद्धातो गुरुः / तत्र ये संचये असंचये च उद्धाते वर्तन्ते ते संचयिता असंचयिताश्च उद्घाताः। ये च पुनरुद्धाते वर्तन्ते संचयिता असंचयिताश्च ते अनुद्धाताः। साम्प्रतमेनामेव गाथा यथोक्तव्याख्यानेन व्याख्यानयति छेयाईआवण्णा, उ निग्गया ते तवा उ बोधव्या। जे पुण वद्रूति तवे, ते वदंता मुणेयव्वा / / 262 / / मासादी आवण्णे, जा छम्मासा असंचयं होइ। छम्मासा उ परेणं, संचइयं तं मुणेयव्वं / / 293 / / ये छेदाऽऽदिप्रायश्चित्तमापन्नास्ते निर्गता उच्यन्ते। कुतस्ते निर्गताः? इत्याह-(ते तवा उ बोधव्वा) ते निर्गतास्तपसस्तपोऽत्प्रिायश्चित्तात्तु बोद्धव्याः। ये पुनर्वर्तन्ते तपसि तपोऽर्हे प्रायश्चित्ते ते वर्तमाना ज्ञातव्याः / (मासादीत्यादि) मासाऽऽदिकं प्रायश्चित्तस्थानमाप: पासादारभ्य यावत्षण्मासाः, तावत्तत्प्रायश्चित्तमसंचयम् असंचयसंज्ञं भवति / षण्मासात्तु षड्भ्यो मासेभ्यः परेण परतो यत्प्रायश्चित्तं तत्संचयितं ज्ञातव्यम्। उद्घातानुद्धातविशेषस्तु सुप्रतीत इति नव्याख्यातः। संप्रति संचयासंचयेषूद्धातानुद्धातेषु प्रस्थापनविधिं विवक्षु रिदमाहमासाइ असंचइए, संचइ छहिं तु होइ पट्ठवणा। तेर पय असंचइए, संचय एक्कारस पयाई॥२६४|| असंचयिते प्रायश्चित्तस्थाने प्रस्थापना मासाऽऽदि मासप्रभृतिका, संचयिते पुनः प्रस्थापना नियमतः षड्भिर्मासैर्भवति। प्रस्थापना नाम दानम् / उक्तं च निशीथचूण्ाँ - "पट्ठवणा नाम दाणं ति।" इयमत्र भावना-असंचये प्रायश्चित्तस्थानविषये यो मासिकं प्रायश्चित्तस्थानमापन्नस्तस्य मासिकी प्रस्थापना, द्वौ मासावापन्नस्य द्वैमासिकी, त्रीन् मासानापन्नस्य त्रैमासिकी। एवं यावत्षण्मासानापन्नस्य पाण्मासिकी। यः पुनः संचयाऽऽपन्नस्तस्य नियमात् पाण्मासिकी प्रस्थापना / तत्राऽसंचये प्रस्थापनायाः पदानि त्रयोदश, संचये एकादश। तत्रासंचये प्रस्थापनायाः पदानि त्रयोदशामूनितवतिय छेयतियं वा, मूलतियं अणवठावणतियं च। चरमं च एक्कसरयं, पढमं तववज्जियं विइयं // 265|| तपस्त्रिकं छेदत्रिक मूलत्रिकमनवस्थाप्यत्रिकं चरमं पराञ्चितं तत् एकस्वरमेकवारं दीयते / इदमुक्तं भवति-असंचये उद्धाते मासाऽऽदिकमापन्नस्य प्रथमवेलायामुद्धातो मासो दीयते / द्वितीयवेलायामुद्धातचतुर्मासिकं, तृतीयवेलायामुद्धातषण्मासिकं, चतुर्थवेलायां छेदः, पञ्चमवेलायामपि छेदः, षष्ठवेलायामपिछेदः / सर्वत्र त्रीणि त्रीणि दिनानि छेदः / सप्तमवेलायां मूलम्, अष्टमवेलायां मूलं, नवमवेलायामपि मूलं, दशमवेलायामनवस्थाप्यम्, एकादशवेलायामनवस्थाप्यम् / द्वादशवेलायां पाराञ्चितमिति / एवमनुद्धातितेऽपि / संचये त्रयोदश पदानि प्रस्थापनायां वक्तव्यानि। (पढ़मंति) प्रथममसंचयं पदं गतं, द्वितीयं संचयं पदं (तववज्जियं ति) मासचतुर्मासलक्षणाभ्यामादिमाभ्यां द्वाभ्यां पदाभ्यां वर्जितमेकादशपदं भवति। एतदेव व्याख्यानयतिविइयं संचइयं खलु, तं आइपएहि दोहिं रहियं तु। छम्मासतवादीयं, एक्कारसपएहिँ चरमेहिं / / 266 / / द्वितीयं खलु संचयितमुच्यते , तद् द्वाभ्यामादिपदाभ्यां राहतं षण्मासतपआदिक षण्मासतपःप्रभृतिक चरमै रे कादशपदैद्रष्टव्यम् / तत्राऽपीय भावना-संचयितं प्रायश्चित्त मानमाप