________________ पच्छित्त 176 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त यदि उत्तरगुणातिचारा अशुद्धा इति कृत्वा चरणभ्रशका भवन्ति, ततो मूलवतातिचाराश्चरणभ्रशका न प्राप्नुवन्ति, उत्तरगुणातिचाराणां चरणभ्रशकतया प्रतिपन्नत्वात् / तथा च सति मूलव्रतातिचाराः किं जिनशासने प्रतिक्रुष्टाः? दोषाभावात्। अत्र सूरिराहमूलगुण उत्तरगुणा, जम्हा भसंति चरणसेढीओ। तम्हा जिणेहिँ दोण्णि वि, पडिकुट्ठा सव्वसाहूणं // 24 // यस्मात् मूलगुणा उत्तरगुणा वा पृथक् पृथक् युगपद्वा अतिचर्यमाणाश्चरणश्रेणीतः संयमश्रेणीतो भंशयन्ति / साधून ततो जिनैः सर्वोयेऽपि मूलगुणातिचारा उत्तरगुणातिचाराश्च प्रतिकुष्टाः / अन्यच्चमूलगुणेष्वतिर्थमाणेषु मूलगुणास्तवद्धता एव / किं तु उत्तरगुणा अपि हन्यन्ते। तेषां विनाशे उत्तरगुणेष्वति चर्यमाणेषुत्तरगुणा स्तावद्धता एव, किं तु मूलगुणा अपि हन्यन्ते। तथा चाऽत्र दृष्टान्तमाहअग्गधाओ हणे मूलं,मूलघातो उ अग्गयं / तम्हा खलु मूलगुणा, न संति न य उत्तरगुणा य / / 285 / / यथा तालट्ठमस्याग्रस्तद्व्याघातो मूलं हन्ति, मूलधातोऽपि चागंहन्ति, एवं मूलगुणानां विनाश उत्तरगुणानपि नाशयति, उत्तरगुणानामपि विनाशो मूलगुणान्, तस्मात् मूलगुणातिचारा उत्तरगुणातिचाराश्च जिनैः प्रतिकुष्टाः / अत्र चोदक आह-यदि मूलगुणानां नाशे उत्तरगुणानामपि नाशः, उत्तरगुणानां नाशे मूलगुणानामपि, तस्मात्ततो नखलु नैव मूलगुणाः सन्ति, नाष्युत्तरगुणाः / यस्मान्नास्ति स संयतो यो मूलोत्तरगुणानामन्यतमं गुणं न प्रतिसेवते, अन्यतमगुणप्रतिसेवने च द्वयानामपि मूलोत्तरगुणानामभावः, तेषामप्यभावे सामायिकाऽऽदिसंयमाभावः, तदभावे वकुशाऽऽदिनिर्गन्थानामभावः / ततः प्राप्त तीर्थमचारित्रमिति। सूरिराहचोयग ! छक्कायाणं, तु संजयो जाऽणुधावए ताव। मूलगुण उत्तरगुणा, दोण्णि वि अणुधावए ताव // 286 // चोदक! यावत् षड्जीवनिकायेषु संयमोऽनुधावति अनुगच्छति प्रबन्धेन वर्तते, तावत् मूलगुणा उत्तरगुणाश्च द्वयेऽप्यते अनुधावन्ति प्रबन्धेन वर्तन्ते। इत्तरसामाइयछे यसंजता तह दुवे नियंठा य। वउसपडिसेवगा ता, अणुसज्जंते य जा तित्थं / / 287|| यावत् मूलगुणा उत्तरगुणाश्चानुधावन्ति तावदित्वरसामायिकच्छदसयतावनुधावतः / यावचेत्वरसामायिकच्छेदोपस्थानसंयमा तावद् द्वौ निर्ग्रन्थावनुधावतः। तद्यथा-वकुशः, प्रतिसेवकश्वतथाहि-यावन्मूलगुणप्रतिसेवना तावत्प्रतिसेवको, यावदुत्तरगुणप्रतिसेवना तावद्वकुशः / ततो यावत्तीर्थ तावद्वकुशाः प्रतिसेवकाश्च अनुसज्जन्ति अनुवर्तन्ते, ततो नाचारित्रं प्रसक्त प्रवचनमिति। (8) मूलोत्तरगुणप्रतिसेवायां प्रायश्चित्तम् अथ मूलगुणप्रतिसेवनायामुत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशशास्तत्र कश्चिद्विशेषः उत नास्ति? अस्तीति बूमः / कोऽसावित्याह मूलगुणें दइयसगडे, उत्तरगुणे मंडवे सरिसवाई। छक्कायरक्खणट्ठा, दोसु वि सुद्धे चरणसुद्धी // 258|| मूलगुणेषु दृष्टान्तः दृतिः शकटं च केवलम्, उत्तरगुणा अपि तत्र दर्शयितव्याः। उत्तरगुणेषु दृष्टान्तो मण्डपे सर्षपाऽऽदि / आदिशब्दात शिलाऽऽदिपरिग्रहः / तत्रापि मूलगुणा अपि दर्शयितव्याः। इयमत्र भावनाएकेनापि मूलगुणप्रतिसेवनेन तत्क्षणादेव चारित्रभंश उपजायते, उत्तरगुणप्रतिसेवनायां पुनः कालेन। अत्र दृष्टान्तो दृतिकः / तथाहियथा दृतिक उदकभृतः पञ्चमहाद्वाराः, तेषां महाद्वाराणामेकस्मिन्नपि द्वारे मुत्कलीभूते तत्क्षणादेव रिक्तो भवति सुचिरेणानेककालेन पूर्यते एवं महाव्रतानामे कस्मिन्नपि महाव्रते अतिचर्यमाणे तत्क्षणादेव समस्तचारित्रभंशो भवति, एकमूलगुणघाते सर्वमूलगुणानाघातात्। तथा च गुरवो व्याचक्षते एकव्रतभने सर्वव्रतभङ्ग इति एतन्निश्चयनयमतम् / व्यवहारतः पुनरेकव्रतभड्ने तदेवैकं भग्रं प्रतिपत्तव्यम्, शेषाणां तु भङ्क: क्रमेण, यदि प्रायश्चित्तप्रतिपत्त्या नानुसंधत्ते इति / अन्ये पुनराहुचतुर्थमहाव्रतप्रतिसेवने तत्काल मेव सकलचारित्रभंशः, शेषेषु पुनर्महाव्रतेष्वभीक्ष्णप्रतिसेवनया महत्यतिचरणे वा वेदितव्यः उत्तरगुणप्रतिसेवनायां पुनः कालेन चरणभंशो यदि पुनः प्रायश्चित्तप्रसिपत्त्या नोजवालयति / एतदेव कुतोऽवसेयमिति चेत्? उच्यतेशकटदृष्टान्तात्। तथाहि-शकटस्य मूलगुणा द्वे चक्रे, उर्दी ?, अक्षय उत्तरगुणा वधकीलकलोहपट्टाऽऽदयः। एतैर्मूलगुणैरुत्तरगुणैश्च सुसंप्रयुट सत् शकट यथा भारवहनक्षम भवति, मार्गे च सुखं भवति, तथा साधुनी मूलगुणैरुत्तरगुणैश्च सुसंप्रयुक्तः सन् अष्टादशशीलाङ्ग सहसमारवहनक्षम भवति, विशिष्ट उत्तरोत्तरसंयमाध्यवसायस्थानपथेच सुखं वहति। # शकटस्य मूलाङ्गानामेकमपि मूलाङ्गं भग्नं भवति, तदान भारवहनक्षम नापि मागें प्रवर्तते, उत्तराङ्गेषु कैश्चिद्विनाऽपि शकटं कियत्कालं भारक्षभवति, प्रवहति च मार्गे, कालेन पुनर्गच्छताऽन्यान्यपरिशटनादयोग्य तदुपजायते। एवमिहापि मूलगुणानामेकस्मिन्नपि मूलगुणे हतेन साधून-- ष्टादशशीलाङ्ग सहस्रभारवहनक्षमता, नापि संयमश्रेणिपथे प्रवहन, उत्तरगुणैस्तु कैश्चित् प्रतिसेवितैरपि भवति / कियन्तं कालं, वरणभारवहनक्षमता, संयमश्रेणिपथेप्रवर्तनंचा कालेन पुनर्गच्छतातत्राप्यन्यान्यगुणप्रतिसेवनातो भवति समस्तचारित्रभ्रंशः ततः शकट-दृष्टान्तादुपपद्यान मूलगुणानामेकस्यापि मूलगुणस्य नाशे तत्कालं चारित्रभ्रंश उत्तरपुस्तके कालक्रमेणेति / इतश्चैतदेवं मण्डपसर्षपाऽऽदिदृष्टान्तात् / तथा हैएरण्डाऽऽदिमण्डपे योको द्वौ बहवो वा सर्षपाः, उपलक्षणमेतत्-तिला लाऽऽदयो वा प्रक्षिप्यन्ते, तथाऽपि न मण्डपो भङ्गमापद्यते, अतिप्रभू स्वादकाऽऽदिसंख्याकैर्भज्यते (?) अथतत्र महती शिला प्रक्षिप्यते, तर तयैक्याऽपिततक्षणादेवध्वसमुपयाति एवं चारित्रमण्डपोऽप्येकद्रित्र्यदिभिरुत्तरगुणैरतिचर्यमाणैर्न भङ्गमुपयाति बहुभिस्तुकालक्रमेणातिचर्यमाभज्यते,शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारमेतत्कान ध्वंसमुपगच्छतीति / तदेवं यस्मात् मूलगुणातिचरणे क्षिप्रमउत्तरगुणातिचरणेकालेनचारित्रभंशोभवति तस्मान्मे मूलगुणा उत्तरपुगाई निरतिचाराः स्युरितिषट्कायरक्षणार्थ सम्यक्प्रयतितव्यम्।टकायरक हि मूलगुणा उत्तरगुणाश्च शुद्धा भवन्ति, तेषु च द्वयेष्वपि शुद्धेषु, ॐ