________________ पच्छित्त 175 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त तथापा च्छोपग्रहं करोति, गच्छोपग्रहं च कुर्वन् भगवदाज्ञा पालयति, ततो मरुकवत्स पूज्यः, सर्व च तस्य प्रायश्चित्तं मुच्यते इत्यदोषः। तथा चाऽऽहअरुकसमानो गुरुरिति पूज्यते, अत एव च (से) तस्य पूर्व प्रायश्चित्त मुच्यते / साधुःपुनर्यथा वणिक् तथा द्रष्टव्यः, ततः सर्व प्रायश्चित्तं बाह्यते। अथवा- "वणिमरुयनिही य पुणो (270)" इत्यत्र वणिग्दृष्टान्तो गीतार्थाना, मरुकदृष्टान्तोऽगीतार्थानाम, उभयेषामपि यादृशः षण्मासाऽऽलोबनायामाचार्यस्य विनयोपचारः करणीयस्तथा मासिकाऽऽलोचनन्यामपि / इत्यत्रार्थ निधिदृष्टान्तः। तथा चाऽऽहअहवा महानिहिम्मी, जो उवयारो स एव थोवे वि। विणयादुवयारो पुण, जो छम्मासे समासे वि।।२७७|| अथवेति निधिशब्दस्यार्थान्तरार्थदृष्टान्तत्वोपदर्शने / महानिधादुत्खनितव्ये यो यादृश उपचारः क्रियते, स एव तादृश एव स्तोकेऽपि निधावुत्खनितव्ये करणीयः / एवमपराधाऽऽलोचनायामपि यादृशः षण्मासाऽऽलोचनाया विनयाऽऽधुपचारः क्रियते। अत्राऽऽदिशब्दात्प्रशस्तद्रव्यक्षेत्रकालभावपरिग्रहः / स तादृशो मासेऽपि मासिकाऽऽलोचनायानपि कर्तव्यः। अत्राऽऽह पर:-यदिदं सूत्रखण्ड यूवं प्ररूपयथ- "तेण परं पलि-उंचिए वा अपलिउंचिए वा तेचेव छम्मासा।" इति। स किमेष सर्वस्यापि नियम उतपुरुषविशेषस्य ? सूरिराहसुबहहिं मासेहिं, छम्मासाणं परं न दायव्वं / अविकोवियस्स एवं, विकोविए अन्नहा होइ॥२७८।। षण्मासेभ्यः परतः सुबहुभिरपि मासैः प्रतिसेवितैः प्रायश्चित्तं षण्मासाना पर सप्तमासाऽऽदिकं न दातव्यं, किं तु षण्मासावधिकमेव। यतोऽस्माकमेतावदेव भगवता वर्द्धमानस्वामिना तपोर्ह प्रायश्चित्तं व्यवस्थापितम् / एतचैवमुक्तप्रकारेण स्थापनाऽऽरोपणालक्षणेन दातव्यमविकोविदस्य परिणामकस्य अपरिणामकस्य वा अगीतार्थस्य / इयमत्र भावनासर्वस्थाप्येष नियमो, यदुत सुबहुष्वपि षण्मासेभ्यः परतो मासेषु प्रतिसेवितेषु प्रायश्चित्तं षण्मासावधिकमेव दातव्यम्, नततोऽधिकमपि, केवलमेतावास्तु विशेषः-योऽपरिणामकोऽतिपरिणामको वा तस्यागीतार्थस्य स्थापनाऽऽरोपणाप्रकारेण सर्वान्मासान्सफलीकृत्य षाण्मासिक तपो दीयते : यस्तु विकोविदो गीतार्थोऽगीतार्थो वा परिणामकः, तस्मिन्नन्यथा भवति प्रायश्चित्तदानम् / किमुक्तं भवति? -विकोविदस्य षण्मासानां परतः सुबहुष्वपि मासेषु प्रतिसेवितेषु शेषं समस्तं त्यक्त्वा षमासा दीयन्ते. न पुनरस्ति तत्र स्थापनाऽऽरोपणाप्रकार इति / आह परः-यदि भगवता तपोर्हे प्रायश्चित्ते उत्कर्षतः षण्मासा दृष्टाः, ततः षण्मासा तिरिक्तभासाऽऽदिप्रतिसेवने छेदाऽऽदि कस्मान्न दीयते, येन शेषं समस्तमपि त्यज्यते? इति / तत्राऽऽहसुबहूहिँ वि मासेहिं, छेदो मूलं तहिं न दायव्वं / अविकोवियस्स एवं, विकोविए अण्णहा होइ॥२७६।। यो नामागीतार्थोऽपरिणामकोऽतिपरिणामको वा, यो वा छेदाऽऽदिक न अद्दधाति, तस्य एवमवसातव्यम्-षण्मासानामुपरि तस्य बहुभिरपि / मासैः प्रतिसेवितैश्छेदो मूलं वा न दातव्यम्, अपरिणामाऽऽदिस्वभावतया तस्य छेदमूलानर्हत्वात्। किंतु स्थापनाऽऽरोपणाप्रकारण षण्मासा दीयन्ते / विकोविद गीतार्थे वा परिणामके तदेव षण्मासदानमन्यथा भवति-स्थापनाऽऽरोपणाप्रकारमन्तरेणैवमेव दीयन्ते षड् मासा इति भावः / अयमत्र संप्रदायः-अविकोविदा उक्तस्वरूपा निष्कारणप्रतिसेवनया यतनया प्रतिसेवनया वा अभीक्ष्णप्रतिसेवनया वा यदि कथमपि छेदमूलाऽऽदिक प्राप्तास्तथापि तेषां छेदो मूलं वा न देयं, किं-तुषण्मासिकं तपः / यदिपुनरकोविदोऽप्युपेत्य पञ्चेन्द्रियघातं करोति, दर्पण वा मैथुनं प्रतिसेवते, तदा छेदो मूलं वा दीयते। विकोविदस्य षण्णांमासानामुपरि बहुष्वपि प्रतिसेवितेषु मासेषु प्रथमवेलायामुद्धातिताः षण्मासा दीयन्ते, द्वितीयवेलायामनुद्धातिताः, तृतीयवेलायां छेदो मूलं वा इति। अथ कीदृशः कोविदः कीदृशो वा अविकोविद इत्यत आहगीतो विकों वितो खलु, कयपच्छित्तो सिया अगीतो वि। छम्मासियपट्ठवणा-ऍतस्स सेसाण पक्खेवो॥२८०|| गीतो गीतार्थः खलु कृतप्रायश्चित्तो विकोविदः, योऽप्युक्तो यथा आचार्य :-यदीदं भूयः सेविष्यसे ततः छेद मूलं वा दास्यामः, सोऽपि कोविदः / तद्विपरीतोऽगीतार्थः / यश्च प्रथमतया प्रायश्चित्तं प्रतिपद्यते, यश्चोक्तोऽपि तथा न सम्यक् परिणामयति स स्याद्वेत्कोविदः / तत्र यदि कोविदः षट्सु मासेषु तपसा कर्तुमारब्धेषु अन्तरा यदि मासाऽऽदिक प्रतिसेवते तत्तस्य पूर्वप्रस्थापितषण्मासस्य ये शेषा मासा दिवसा वा तिष्ठन्ति तेषां मध्ये प्रक्षिप्यते, न पुनः षण्मासपरिपूर्त्यनन्तरं तद्विषयं भिन्न प्रायश्चित्तं दातव्य-मिति / तथा चाऽऽहषण्मासप्रस्थापनायां, षण्मासेषु तपसा कर्तुमारब्धेषु इत्यर्थः / तस्य मासिकाऽऽदेरपान्तराले प्रतिसेवितस्य षण्मासस्य ये शेषा मासा दिवसास्तिष्ठन्ति तेषां मध्ये अनुग्रहकृत्स्नं, न वा प्रक्षेपः। आह-एतत्तपश्छेदमूलार्ह प्रायश्चित्तं कुत उत्पद्यते? सूरिराह(७) मूलातिचारे प्रायश्चित्तम्मूलातियार चेयं, पच्छित्तं होइ उत्तरेहिं वा। तम्हा खलु मूलगुणे-ऽनतिक्कमे उत्तरगुणे वा // 281 / / एतत् तपश्चेदमूलर्हि प्रायश्चित्तं यस्मात् भवति मूलातिचारे मूलगुणातिचारे, प्राणातिपाताऽऽदिप्रतिसेवने इत्यर्थः / उत्तरैर्वा उत्तरगुणैर्वा पिण्डविशुद्ध्यादिभिरतिचर्यमाणैर्भवति प्रायश्चित्तं, तस्मात् मूलगुणान् प्राणातिपाताऽऽदि प्रतिसेवनया, उत्तरगुणान् वा उद्गमाऽऽदिदोषाऽऽसेवनया नातिक्रमेत्। अत्र पर आहमूलव्वयाइयारा, जयऽसुद्धा चरणभंसगा हुंति। उत्तरगुणातियारा, जिणसासणे किं पडिक्कुट्ठा? // 282|| यदि मूलगुणातिचारा अशुद्धा इति कृत्वा चरणभ्रंशका भवन्ति, ततः साधूनामुत्तरगुणातिचाराश्चरणस्याभंशकाः प्राप्ताः, मूलगुणातिचाराणां चरणभ्रशकतया प्रतिपन्नत्वात् / ततः किमुत्तरगुणा जिनशासने प्रतिकुष्टाः, न युक्तस्तेषां प्रतिषेधो, दोषाकारित्वादिति भावः। उत्तरगुणातियारा, जयऽसुद्धा चरणभंसगा हुति। मूलव्वयातियारा, जिणसासणे किं पडिक्कुट्ठा? // 283||