________________ पच्छित्त 173 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त गतप्रत्यागते अनेका निषद्या एका आलोचनेति। (चरिमे सिया दो वि) चरमनङ्गे अनेका निषद्या अनेका आलोचनाः, इत्येवंरूपे अशठभावोपेत्स्य स्याता द्वे अपि कारणेविस्मृतत्वं, यदि वाऽपराधबाहुल्यम् / इदमुक्तं भवति-प्रभूतेन कालेन प्रभूतमासेवितमतो बहुविस्मृतमित्यन्यस्भिन दिने स्मृत्वा आलोचयतः, यदिवा-अपराधबाहुल्यत एकदिनोनाऽऽलोचयितुमपारयतोऽपरस्मिन्नहन्यालोचयतो यथोक्तस्वरूपचतुर्थो भङ्गः / तत्र एका निषद्या एकाऽऽलोचनेति प्रथमे भङ्ग एकमेव गुरुतरं प्रायश्चित्तं दीयते शेषाणां सर्वेषामपि प्रायश्चित्तानामाच्छादकम्। तथा चोक्तन्-'तंचेगं ओहाडणं दिजा" इति। अस्यायमर्य:-तदेवैकं गुरुतरं प्रायश्चित्तं शेषाणां प्रायश्चित्तानामघटनमाच्छादक दीयते इति / अत्र दृष्टान्त: क्षारयोगः / यथा हि पङ्खापनयनाय प्रयुक्त: क्षारयोगोऽशेषमपि मलं धयति तथैकमप्यवघटनं प्रायश्चित्तनि शोधयतीति / उक्तं च - | "जहा पंकावणयणपउत्तो खारजोगो से समलं पि सोहे इ तहा ओहाडणपच्छित्तं पि सेसपच्छित्ते सोहेइ।।" इति / अथवा स एवगारीदृष्टान्त:-यथा सा अगारी एफापराधे हन्यामाना अन्यानप्यपराधान् कथयन्त्येकवार पिट्टिता, यदि पुनर्बहवोऽपराधाः कृता इत्यन्यस्मिन्नन्यस्मिन् दिवसे एकैकमपराध कथयेत् तर्हि यावतो वारान कथयेत् तावतो वारान् हन्येत् / एवमत्रापि यद्येकैकमपरस्मिन्नहन्यालोचयेत् ततो यावन्तोऽपराधास्तावन्ति प्रायश्चित्तान्याप्नुयादेकनिषद्यायाम् / एकालोचनायां त्येकमेव गुरुतरकं प्रायश्चित्तं दीयते इति / द्वितीये भने बहुप्रतिसेवितमशठेन सता पूर्व नस्मृतयद्यपि पश्चादालोचयति तथापि, यथा पथमे भङ्गे गुरुतरकमेकं शेषप्रायश्चित्तानामाच्छादकं दत्तं, तथाऽत्रापि, अशठभावेन नालोचितवान्ततो यावन्ति प्रायश्चित्तान्यालोचयति तावन्ति दीयन्ते इति। तृतीयेऽपि भङ्गे बहुप्रतिसेवितमतोऽशठस्य सत एकनिषद्ययाऽऽलोचना न समाप्तिमुपगता, ततो यस्मिन् दिने समाप्तिमुपयाति तस्मिन् दिने प्रथमभङ्गक इवैकं गुरुतरकं प्रायश्चित्तं दातव्यम् / अथ शठतया अन्यस्मिन्नन्यस्मिन्न-हन्यालोचयति तर्हि यावन्त्यपराधपदान्यालोचयति तावन्ति प्रायश्चित्तानि दातव्यानि / चरमभङ्गेऽपि यद्यशठभावतो विस्मृततया, बहुप्रतिसेवनातो वा अनेकेषु दिदसेष्वेकाऽऽलोचना समाप्तिं गच्छति, ततस्तत्राऽपि प्रथमभङ्गक इवैक गुरुतरकमवघाट नं प्रायश्चित्तं देयम / अथ मायावितया, ततो यावन्त्यपराधपदानि तावन्ति प्रायश्चित्तानि दातव्यानीति। __य इह अगारीदृष्टान्त: पूर्वमुक्षिप्तस्तमिदानीं कथयतिगावी पीया वासी, य हारिया भयणं च ते मिन्नं। अजेव ममं सुहयं, करेहि पडओ वि ते नहो॥२६७।। एगावराहदंडे, अन्ने य कहेयऽगारि हम्मंती। एवं गेगपएसु वि, दंडो लोगुत्तरे एगो॥२६८|| अगारी गृहस्था रथकारस्य भार्या एकापराधदण्डे शून्ये गृहे प्रविष्टा इत्येकस्यापराधस्य दण्डे पिट्टितलक्षणे भर्वा क्रियमाणे हन्यमानाऽचिन्तयत्वहदोऽपराधा मया कृताः, ततोमा प्रतिदिवसमेवायं मां हन्यात, किं त्यौवं मां सुहता करोतु, एवं चिन्तयित्वा अन्यानप्यपराधान्कथयति। यथागौर्वत्सेन पीता / किमुक्तं भवति?-गां वत्सो धावितवान् / तथा चासी च हारिता क्वापि मुक्ता, कस्मै समर्पिता वा न जानामि / तथा भाजनमपि कस्यिभाजनमपि ते तव संबन्धि, यत्र भवान भुईक्त, हस्तात्पतितं सद्भग्नम्। तथा पटोऽपितव संबन्धी न दृश्यते, केनाऽपि हत इति भवः / एवं लोकोत्तरेऽपिएकनिषद्यायामेकाऽऽलोचनायामित्यादिचतुर्भङ्गमामह्यायाविनोऽनकेष्वपराधपदेषु दण्ड एको गुरुतरकरे दीयते। अथवा त्रैवाऽलोचनाविषयेऽयमन्यो दृष्टान्त:णेगासु चोरियासुं, मारणदंडोन सेसया दंडा। एवमणेगपएसु वि, एक्को दंडो न उ विरुद्धो॥२६६।। "एगो चोरो, तेण बहुयाओ चोरियाओ कयाओ। तं जहाकस्सइ भाणं हरियं, कस्सइ पडओ, कस्सइ हिरण्णं, कस्सइ रुप्पं / अन्नया तेण रायउले खत्तं खणियं, रयणा हिया। दिलो आरक्खगेहिं, गहितो, रण्णो उवठवितो, तस्समयं च अण्णे वह वो उवट्ठिया भणति-अम्ह वि एएण हई / ततो रणा रयणहारि त्ति काउं तस्स मारणदंडो एक्को आणत्तो, सेसे चोरियादंडा तत्थेव पविट्ठा।" तथा चाऽऽह-अनेकासु चोरिकासु रतचोरिकानिमित्तं तसयैको मारणदण्ड: प्रयुक्तो, न शेषचोरिकादण्डाः, तेषां तवैव प्रविष्टत्वात्। एवं लोकोत्तरेऽप्यनेकपदेषु गुरुकैकपदनिमित्त एको दण्डोऽविरुद्धः, शेषदण्डानां तत्रैव प्रवेशात् / तदेवमालोचना प्रत्येकत्वं दोषाणामुपपादितम् / सांप्रतं दुर्बलं प्रतीत्य भाव्यते भण्डीदृष्टान्तः, तत्रापि भङ्गचतुष्टयम् / तद्यथा-भण्डी बलिका, बलीवर्दा वलिका 1, भण्डी वलिका, बलीवर्दा दुर्बला:२, भण्डी दुर्बला, बलीवर्दा वलिका 3, भण्डी दुर्बला, वलीवर्दाश्च दुर्बला: / तत्र प्रथमे भङ्गेबाह्य परिपूर्णमारोप्यते / द्वितीये भङ्गे यावत् वलीवर्दा आक्रष्टुं शक्नुवन्ति तावदारोप्यते / तृतीये भने यावत आरोपितेन भण्डी न भज्यते तावदारोप्यते / चरमभङ्गे यावन्मात्रेण न भण्डी भङ्गमुपयाति, यावच्च बलीवर्दा बाकष्टुमल, तावदरोह्यते। एष दृष्टान्तः / अयमुपनय:संघयणं जह सगडं.धितीउ धुओहिँ होंति उवणीया। वियतियचरिमे भंगे, तं दिखइजं तरइ वोढुं / / 270|| यथा शकटं तथा संहननं, शकटस्थानीयं संहननमिभ्यर्थ: / घृतयां धुर्यधोरेयैर्भवन्त्युपनीताः, धौरेयतुल्या धृतय इति भावः / अत्रापि भङ्गचतुष्टयम्। तत्र प्रथमभङ्गे यावदापन्नंतत्संर्वदीयते, द्वितीये धृत्यनुरूपं, तृतीये संहननानुरूपं, चतुर्थे धृतिसंहननानुरूपम / तथा चाऽऽह(वियतिय इत्यादि ) द्वितीये तृतीये चरिमे च भने तत्प्रायश्चित्त धृत्याद्यनुरूपं दीयते यत् शक्नोति वोढुमिति। साम्प्रतमाचार्यभधिकृत्य दोषाणामेकत्वं यथोपपद्यते तथा भाव्यते। तत्र स्वामित्वप्राप्तस्तेनदृष्टान्त:, तमेवाऽऽहनविमरण मूलदेवो, आसें ऽधिवासे य पट्ठि न उदंडो। संकप्पियगुरुदंडो, मुचइ जं वा तरइ वोहुं // 271 / / 'एगत्थ नगरे राया अपुतो मतो, तत्थ य रज्जचिंतगे हिं देवयाऽऽराहणनितित्तं आसो अहिवारि पो, हत्थी य / इतो मूल